Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशं गोष्ठप्रांगणरिंखणलोलमनायासं परमायासम् । मायाकल्पितनानाकारमनाकारं भुवनाकारं क्ष्मामानाथमनाथं प्रणमत गोविंदं परमानंदम् ॥ 1 ॥
मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासं व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् । लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकं लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ 2 ॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं कैवल्यं नवनीताहारमनाहारं भुवनाहारम् । वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं शैवं केवलशांतं प्रणमत गोविंदं परमानंदम् ॥ 3 ॥
गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालं गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् । गोभिर्निगदितगोविंदस्फुटनामानं बहुनामानं गोधीगोचरदूरं प्रणमत गोविंदं परमानंदम् ॥ 4 ॥
गोपीमंडलगोष्ठीभेदं भेदावस्थमभेदाभं शश्वद्गोखुरनिर्धूतोद्गतधूलीधूसरसौभाग्यम् । श्रद्धाभक्तिगृहीतानंदमचिंत्यं चिंतितसद्भावं चिंतामणिमहिमानं प्रणमत गोविंदं परमानंदम् ॥ 5 ॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं व्यादित्संतीरथ दिग्वस्त्रा दातुमुपाकर्षंतं ताः । निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरंतःस्थं सत्तामात्रशरीरं प्रणमत गोविंदं परमानंदम् ॥ 6 ॥
कांतं कारणकारणमादिमनादिं कालघनाभासं कालिंदीगतकालियशिरसि सुनृत्यंतं मुहुरत्यंतम् । कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं कालत्रयगतिहेतुं प्रणमत गोविंदं परमानंदम् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
बृंदावनभुवि बृंदारकगणबृंदाराधितवंद्यायां कुंदाभामलमंदस्मेरसुधानंदं सुमहानंदम् । वंद्याशेषमहामुनिमानसवंद्यानंदपदद्वंद्वं नंद्याशेषगुणाब्धिं प्रणमत गोविंदं परमानंदम् ॥ 8 ॥
गोविंदाष्टकमेतदधीते गोविंदार्पितचेता यो गोविंदाच्युत माधव विष्णो गोकुलनायक कृष्णेति । गोविंदांघ्रिसरोजध्यानसुधाजलधौतसमस्ताघो गोविंदं परमानंदामृतमंतःस्थं स तमभ्येति ॥ 9 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री गोविंदाष्टकम् ।
Browse Related Categories: