Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अथ नखस्तुतिः पांत्वस्मान् पुरुहूतवैरिबलवन्मातंगमाद्यद्घटा- -कुंभोच्चाद्रिविपाटनाधिकपटु प्रत्येक वज्रायिताः । श्रीमत्कंठीरवास्यप्रततसुनखरा दारितारातिदूर- -प्रध्वस्तध्वांतशांतप्रविततमनसा भाविता भूरिभागैः ॥ 1 ॥
लक्ष्मीकांत समंततोऽपि कलयन् नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोपास्तं रसो योऽष्टमः । यद्रोषोत्कर दक्ष नेत्र कुटिल प्रांतोत्थिताग्नि स्फुरत् खद्योतोपम विस्फुलिंगभसिता ब्रह्मेशशक्रोत्कराः ॥ 2 ॥
अथ वायुस्तुतिः श्रीमद्विष्ण्वंघ्रिनिष्ठातिगुणगुरुतमश्रीमदानंदतीर्थ- -त्रैलोक्याचार्यपादोज्ज्वलजलजलसत्पांसवोऽस्मान् पुनंतु । वाचां यत्र प्रणेत्री त्रिभुवनमहिता शारदा शारदेंदु- -ज्योत्स्नाभद्रस्मितश्रीधवलितककुभा प्रेमभारं बभार ॥ 1 ॥
उत्कंठाकुंठकोलाहलजवविजिताजस्रसेवानुवृद्ध- -प्राज्ञात्मज्ञानधूतांधतमससुमनोमौलिरत्नावलीनाम् । भक्त्युद्रेकावगाढप्रघटनसधटात्कारसंघृष्यमाण- प्रांतप्राग्र्यांघ्रिपीठोत्थितकनकरजःपिंजरारंजिताशाः ॥ 2 ॥
जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां गुणानां अग्र्याणामर्पकाणां चिरमुदितचिदानंदसंदोहदानाम् । एतेषामेष दोषप्रमुषितमनसां द्वेषिणां दूषकाणां दैत्यानामार्तिमंधे तमसि विदधतां संस्तवे नास्मि शक्तः ॥ 3 ॥
अस्याविष्कर्तुकामं कलिमलकलुषेऽस्मिन् जने ज्ञानमार्गं वंद्यं चंद्रेंद्ररुद्रद्युमणिफणिवयोनायकाद्यैरिहाद्य । मध्वाख्यं मंत्रसिद्धं किमुत कृतवतो मारुतस्यावतारं पातारं पारमेष्ट्यं पदमपविपदः प्राप्तुरापन्नपुंसाम् ॥ 4 ॥
उद्यद्विद्युत्प्रचंडां निजरुचिनिकरव्याप्तलोकावकाशो बिभ्रद्भीमो भुजे योऽभ्युदितदिनकराभांगदाढ्य प्रकांडे । वीर्योद्धार्यां गदाग्र्यामयमिह सुमतिं वायुदेवो विदध्यात् अध्यात्मज्ञाननेता यतिवरमहितो भूमिभूषामणिर्मे ॥ 5 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
संसारोत्तापनित्योपशमदसदयस्नेहहासांबुपूर- -प्रोद्यद्विद्यानवद्यद्युतिमणिकिरणश्रेणिसंपूरिताशः । श्रीवत्सांकाधिवासोचिततरसरलश्रीमदानंदतीर्थ- -क्षीरांभोधिर्विभिंद्याद्भवदनभिमतं भूरि मे भूतिहेतुः ॥ 6 ॥
मूर्धन्येषोऽंजलिर्मे दृढतरमिह ते बध्यते बंधपाश- -च्छेत्रे दात्रे सुखानां भजति भुवि भविष्यद्विधात्रे द्युभर्त्रे । अत्यंतं संततं त्वं प्रदिश पदयुगे हंत संतापभाजा- -मस्माकं भक्तिमेकां भगवत उत ते माधवस्याथ वायोः ॥ 7 ॥
साभ्रोष्णाभीशुशुभ्रप्रभमभय नभो भूरिभूभृद्विभूति- -भ्राजिष्णुर्भूरृभूणां भवनमपि विभोऽभेदि बभ्रे बभूवे । येन भ्रूविभ्रमस्ते भ्रमयतु सुभृशं बभ्रुवद्दुर्भृताशान् भ्रांतिर्भेदावभासस्त्विति भयमभिभूर्भोक्ष्यतो मायिभिक्षून् ॥ 8 ॥
येऽमुं भावं भजंते सुरमुखसुजनाराधितं ते तृतीयं भासंते भासुरैस्ते सहचरचलितैश्चामरैश्चारुवेषाः । वैकुंठे कंठलग्नस्थिरशुचिविलसत्कांतितारुण्यलीला- लावण्यापूर्णकांताकुचभरसुलभाश्लेषसम्मोदसांद्राः ॥ 9 ॥
आनंदान्मंदमंदा ददति हि मरुतः कुंदमंदारनंद्या- -वर्तामोदान् दधाना मृदुपदमुदितोद्गीतकैः सुंदरीणाम् । वृंदैरावंद्यमुक्तेंद्वहिमगुमदनाहींद्रदेवेंद्रसेव्ये मौकुंदे मंदिरेऽस्मिन्नविरतमुदयन्मोदिनां देवदेव ॥ 10 ॥
उत्तप्ताऽत्युत्कटत्विट् प्रकटकटकटध्वानसंघट्टनोद्य- -द्विद्युद्व्यूढस्फुलिंगप्रकरविकिरणोत्क्वाथिते बाधितांगान् । उद्गाढं पात्यमाना तमसि तत इतः किंकरैः पंकिले ते पंक्तिर्ग्राव्णां गरिम्णा ग्लपयति हि भवद्वेषिणो विद्वदाद्य ॥ 11 ॥
अस्मिन्नस्मद्गुरूणां हरिचरणचिरध्यानसन्मंगलानां युष्माकं पार्श्वभूमिं धृतरणरणिकस्वर्गिसेव्यां प्रपन्नः । यस्तूदास्ते स आस्तेऽधिभवमसुलभक्लेशनिर्मूकमस्त- -प्रायानंदं कथंचिन्न वसति सततं पंचकष्टेऽतिकष्टे ॥ 12 ॥
क्षुत् क्षामान् रूक्षरक्षोरदखरनखरक्षुण्णविक्षोभिताक्षा- -नामग्नानांधकूपे क्षुरमुखमुखरैः पक्षिभिर्विक्षतांगान् । पूयासृङ्मूत्रविष्ठाकृमिकुलकलिले तत्क्षणक्षिप्तशक्त्या- -द्यस्त्रव्रातार्दितांस्त्वद्द्विष उपजिहते वज्रकल्पा जलूकाः ॥ 13 ॥
मातर्मे मातरिश्वन् पितरतुलगुरो भ्रातरिष्टाप्तबंधो स्वामिन् सर्वांतरात्मन्नजर जरयितर्जन्ममृत्यामयानाम् । गोविंदे देहि भक्तिं भवति च भगवन्नूर्जितां निर्निमित्तां निर्व्याजां निश्चलां सद्गुणगणबृहतीं शाश्वतीमाशु देव ॥ 14 ॥
विष्णोरत्त्युत्तमत्वादखिलगुणगणैस्तत्र भक्तिं गरिष्ठां आश्लिष्टे श्रीधराभ्याममुमथ परिवारात्मना सेवकेषु । यः संधत्ते विरिंचश्वसनविहगपानंतरुद्रेंद्रपूर्वे- -ष्वाध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्गुरुस्तम् ॥ 15 ॥
तत्त्वज्ञान् मुक्तिभाजः सुखयिसि हि गुरो योग्यतातारतम्या- -दाधत्से मिश्रबुद्धिंस्त्रिदिवनिरयभूगोचरान् नित्यबद्धान् । तामिस्रांधादिकाख्ये तमसि सुबहुलं दुःखयस्यन्यथाज्ञान् विष्णोराज्ञाभिरित्थं शृतिशतमितिहासादि चाकर्णयामः ॥ 16 ॥
वंदेऽहं तं हनूमानिति महितमहापौरुषो बाहुशाली ख्यातस्तेऽग्र्योऽवतारः सहित इह बहुब्रह्मचर्यादिधर्मैः । सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजां अंहोमोहापहो यः स्पृहयति महतीं भक्तिमद्यापि रामे ॥ 17 ॥
प्राक्पंचाशत्सहस्रैर्व्यवहितमहितं योजनैः पर्वतं त्वं यावत्संजीवनाद्यौषधनिधिमधिकप्राण लंकामनैषिः । अद्राक्षीदुत्पतंतं तत उत गिरिमुत्पाटयंतं गृहीत्वा यांतं खे राघवांघ्रौ प्रणतमपि तदैकक्षणे त्वां हि लोकः ॥ 18 ॥
क्षिप्तः पश्चात्सत्सलीलं शतमतुलमते योजनानां स उच्च- -स्तावद्विस्तारवंश्चाप्युपललव इव व्यग्रबुद्ध्या त्वयाऽतः । स्वस्वस्थानस्थितातिस्थिरशकलशिलाजालसंश्लेषनष्ट- -छ्छेदांकः प्रागिवाभूत् कपिवरवपुषस्ते नमः कौशलाय ॥ 19 ॥
दृष्ट्वा दुष्टाधिपोरः स्फुटितकनकसद्वर्म घृष्टास्थिकूटं निष्पिष्टं हाटकाद्रिप्रकटतटतटाकातिशंको जनोऽभूत् । येनाऽजौ रावणारिप्रियनटनपटुर्मुष्टिरिष्टं प्रदेष्टुं किं नेष्टे मे स तेऽष्टापदकटकतटित्कोटिभामृष्टकाष्ठः ॥ 20 ॥
देव्यादेशप्रणीतिदृहिणहरवरावध्यरक्षोविघाता- -द्यासेवोद्यद्दयार्द्रः सहभुजमकरोद्रामनामा मुकुंदः । दुष्प्रापे पारमेष्ठ्ये करतलमतुलं मूर्धिविन्यस्य धन्यं तन्वन्भूयः प्रभूतप्रणयविकसिताब्जेक्षणस्त्वेक्षमाणः ॥ 21 ॥
जघ्ने निघ्नेन विघ्नो बहुलबलबकध्वंसनाद्येन शोच- -द्विप्रानुक्रोशपाशैरसुविधृतिसुखस्यैकचक्राजनानाम् । तस्मै ते देव कुर्मः कुरुकुलपतये कर्मणा च प्रणामान् किर्मीरं दुर्मतीनां प्रथममथ च यो नर्मणा निर्ममाथ ॥ 22 ॥
निर्मृद्नन्नत्ययत्नं विजरवर जरासंधकायास्थिसंधीन् युद्धे त्वं स्वध्वरे वा पशुमिव दमयन् विष्णुपक्षद्विडीशम् । यावत्प्रत्यक्षभूतं निखिलमखभुजं तर्पयामासिथासौ तावत्याऽयोजि तृप्त्या किमु वद भगवन् राजसूयाश्वमेधे ॥ 23 ॥
क्ष्वेलाक्षीणाट्टहासं तव रणमरिहन्नुद्गदोद्दामबाहोः बह्वक्षौहिण्यनीकक्षपणसुनिपुणं यस्य सर्वोत्तमस्य । शुश्रूषार्थं चकर्थ स्वयमयमथ संवक्तुमानंदतीर्थ- -श्रीमन्नामन्समर्थस्त्वमपि हि युवयोः पादपद्मं प्रपद्ये ॥ 24 ॥
दृह्यंतीं हृदृहं मां दृतमनिल बलाद्द्रावयंतीमविद्या- -निद्रां विद्राव्य सद्योरचनपटुमथाऽपाद्य विद्यासमुद्र । वाग्देवी सा सुविद्याद्रविणद विदिता द्रौपदी रुद्रपत्न्या- -दुद्रिक्ता द्रागभद्राद्रहयतु दयिता पूर्वभीमाऽज्ञया ते ॥ 25 ॥
याभ्यां शुश्रूषुरासीः कुरुकुलजनने क्षत्रविप्रोदिताभ्यां ब्रह्मभ्यां बृंहिताभ्यां चितसुखवपुषा कृष्णनामास्पदाभ्याम् । निर्भेदाभ्यां विशेषाद्विवचनविषयाभ्याममूभ्यामुभाभ्यां तुभ्यं च क्षेमदेभ्यः सरिसिजविलसल्लोचनेभ्यो नमोऽस्तु ॥ 26 ॥
गच्छन् सौगंधिकार्थं पथि स हनुमतः पुच्छमच्छस्य भीमः प्रोद्धर्तुं नाशकत्स त्वमुमुरुवपुषा भीषयामास चेति । पूर्णज्ञानौजसोस्ते गुरुतम वपुषोः श्रीमदानंदतीर्थ क्रीडामात्रं तदेतत् प्रमदद सुधियां मोहक द्वेषभाजाम् ॥ 27 ॥
बह्वीः कोटीरटीकः कुटलकटुमतीनुत्कटाटोपकोपान् द्राक्च त्वं सत्वरत्वाच्चरणद गदया पोथयामासिथारीन् । उन्मथ्यातथ्यमिथ्यात्ववचनवचनानुत्पथस्थांस्तथाऽन्यान् प्रायच्छः स्वप्रियायै प्रियतमकुसुमं प्राण तस्मै नमस्ते ॥ 28 ॥
देहादुत्क्रामितानामधिपतिरसतामक्रमाद्वक्रबुद्धिः क्रुद्धः क्रोधैकवश्यः क्रिमिरिव मणिमान् दुष्कृती निष्क्रियार्थम् । चक्रे भूचक्रमेत्य क्रकचमिव सतां चेतसः कष्टशास्त्रं दुस्तर्कं चक्रपाणेर्गुणगणविरहं जीवतां चाधिकृत्य ॥ 29 ॥
तद्दुष्प्रेक्षानुसारात्कतिपयकुनरैरादृतोऽन्यैर्विसृष्टो ब्रह्माऽहं निर्गुणोऽहं वितथमिदमिति ह्येष पाषंडवादः । तद्युक्त्याभासजालप्रसरविषतरूद्दाहदक्षप्रमाण- -ज्वालामालाधराग्निः पवन विजयते तेऽवतारस्तृतीयः ॥ 30 ॥
आक्रोशंतो निराशा भयभरविवशस्वाशयाश्छिन्नदर्पा वाशंतो देशनाशस्विति बत कुधियां नाशमाशादशाऽशु । धावंतोऽश्लीलशीला वितथशपथशापाशिवाः शांतशौर्या- -स्त्वद्व्याख्यासिंहनादे सपदि ददृशिरे मायिगोमायवस्ते ॥ 31 ॥
त्रिष्वप्येवावतारेष्वरिभिरपघृणं हिंसितो निर्विकारः सर्वज्ञः सर्वशक्तिः सकलगुणगणापूर्णरूपप्रगल्भः । स्वच्छः स्वच्छंदमृत्युः सुखयसि सुजनं देव किं चित्रमत्र त्राता यस्य त्रिधामा जगदुत वशगं किंकराः शंकराद्याः ॥ 32 ॥
उद्यन्मंदस्मितश्रीमृदु मधुमधुरालापपीयूषधारा- -पूरासेकोपशांतासुखसुजनमनोलोचनापीयमानम् । संद्रक्ष्ये सुंदरं संदुहदिह महदानंदमानंदतीर्थ श्रीमद्वक्त्रेंदुबिंबं दुरतनुदुदितं नित्यदाऽहं कदा नु ॥ 33 ॥
प्राचीनाचीर्णपुण्योच्चयचतुरतराचारतश्चारुचित्ता- -नत्युच्चां रोचयंतीं श्रुतिचितवचनां श्रावकांश्चोद्यचुंचून् । व्याख्यामुत्खातदुःखां चिरमुचितमहाचार्य चिंतारतांस्ते चित्रां सच्छास्त्रकर्ताश्चरणपरिचरांछ्रावयास्मांश्च किंचित् ॥ 34 ॥
पीठे रत्नोकपक्लृप्ते रुचिररुचिमणिज्योतिषा सन्निषण्णं ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्या हि विद्याः । सेवंते मूर्तिमत्यः सुचरित चरितं भाति गंधर्व गीतं प्रत्येकं देवसंसत्स्वपि तव भगवन्नर्तितद्योवधूषु ॥ 35 ॥
सानुक्रोशैरजस्रं जनिमृतिनिरयाद्यूर्मिमालाविलेऽस्मिन् संसाराब्धौ निमग्नान् शरणमशरणानिच्छतो वीक्ष्य जंतून् । युष्माभिः प्रार्थितः सन् जलनिधिशयनः सत्यवत्यां महर्षे- -र्व्यक्तश्चिन्मात्रमूर्तिर्न खलु भगवतः प्राकृतो जातु देहः ॥ 36 ॥
अस्तव्यस्तं समस्तश्रुतिगतमधमै रत्नपूगं यथाऽंधै- -रर्थं लोकोपकृत्यै गुणगणनिलयः सूत्रयामास कृत्स्नम् । योऽसौ व्यासाभिधानस्तमहमहरहर्भक्तितस्त्वत्प्रसादात् सद्यो विद्योपलब्ध्यै गुरुतममगुरुं देवदेवं नमामि ॥ 37 ॥
आज्ञामन्यैरधार्यां शिरसि परिसरद्रश्मिकोटीरकोटौ कृष्णस्याक्लिष्टकर्मा दधदनुसराणादर्थितो देवसंघैः । भूमावागत्य भूमन्नसुकरमकरोर्ब्रह्मसूत्रस्य भाष्यं दुर्भाष्यं व्यस्य दस्योर्मणिमत उदितं वेदसद्युक्तिभिस्त्वम् ॥ 38 ॥
भूत्वा क्षेत्रे विशुद्धे द्विजगणनिलये रौप्यपीठाभिधाने तत्रापि ब्रह्मजातिस्त्रिभुवनविशदे मध्यगेहाख्यगेहे । पारिव्राज्याधिराजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वा कृत्वा भाष्याणि सम्यग् व्यतनुत च भवान् भारतार्थप्रकाशम् ॥ 39 ॥
वंदे तं त्वां सुपूर्णप्रमतिमनुदिनासेवितं देववृंदैः वंदे वंदारुमीशे श्रिय उत नियतं श्रीमदानंदतीर्थम् । वंदे मंदाकिनीसत्सरिदमलजलासेकसाधिक्यसंगं वंदेऽहं देव भक्त्या भवभयदहनं सज्जनान्मोदयंतम् ॥ 40 ॥
सुब्रह्मण्याख्यसूरेः सुत इति सुभृशं केशवानंदतीर्थ- श्रीमत्पादाब्जभक्तः स्तुतिमकृत हरेर्वायुदेवस्य चास्य । तत्पादार्चादरेण ग्रथितपदलसन्मालया त्वेतया ये संराध्यामू नमंति प्रततमतिगुणा मुक्तिमेते व्रजंति ॥ 41 ॥
अथ श्रीनखस्तुतिः पांत्वस्मान् पुरुहूतवैरिबलवन्मातंगमाद्यद्घटा कुंभोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः । श्रीमत्कंठीरवास्य प्रतत सुनखरा दारितारातिदूर- प्रध्वस्तध्वांतशांतप्रविततमनसा भाविता नाकिवृंदैः ॥ 1 ॥
लक्ष्मीकांत समंततोऽविकलयन् नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः । यद्रोषोत्करदक्षनेत्रकुटिलप्रांतोत्थिताग्निस्फुरत् खद्योतोपमविस्फुलिंगभसिता ब्रह्मेशशक्रोत्कराः ॥ 2 ॥
इति श्रीत्रिविक्रमपंडिताचार्य विरचिता वायुस्तुतिः समाप्ता ॥
Browse Related Categories: