Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
कल्पानोकहपुष्पजालविलसन्नीलालकां मातृकां कांतां कंजदलेक्षणां कलिमलप्रध्वंसिनीं कालिकाम् । कांचीनूपुरहारदामसुभगां कांचीपुरीनायिकां कामाक्षीं करिकुंभसन्निभकुचां वंदे महेशप्रियाम् ॥ 1 ॥
काशाभां शुकभासुरां प्रविलसत्कोशातकी सन्निभां चंद्रार्कानललोचनां सुरुचिरालंकारभूषोज्ज्वलाम् । ब्रह्मश्रीपतिवासवादिमुनिभिः संसेवितांघ्रिद्वयां कामाक्षीं गजराजमंदगमनां वंदे महेशप्रियाम् ॥ 2 ॥
ऐं क्लीं सौरिति यां वदंति मुनयस्तत्त्वार्थरूपां परां वाचामादिमकारणं हृदि सदा ध्यायंति यां योगिनः । बालां फालविलोचनां नवजपावर्णां सुषुम्नाश्रितां कामाक्षीं कलितावतंससुभगां वंदे महेशप्रियाम् ॥ 3 ॥
यत्पादांबुजरेणुलेशमनिशं लब्ध्वा विधत्ते विधि- -र्विश्वं तत्परिपाति विष्णुरखिलं यस्याः प्रसादाच्चिरम् । रुद्रः संहरति क्षणात्तदखिलं यन्मायया मोहितः कामाक्षीमतिचित्रचारुचरितां वंदे महेशप्रियाम् ॥ 4 ॥
सूक्ष्मात्सूक्ष्मतरां सुलक्षिततनुं क्षांताक्षरैर्लक्षितां वीक्षाशिक्षितराक्षसां त्रिभुवनक्षेमंकरीमक्षयाम् । साक्षाल्लक्षणलक्षिताक्षरमयीं दाक्षायणीं साक्षिणीं कामाक्षीं शुभलक्षणैः सुललितां वंदे महेशप्रियाम् ॥ 5 ॥
ॐकारांगणदीपिकामुपनिषत्प्रासादपारावतीं आम्नायांबुधिचंद्रिकामघतमःप्रध्वंसहंसप्रभाम् । कांचीपट्टणपंजरांतरशुकीं कारुण्यकल्लोलिनीं कामाक्षीं शिवकामराजमहिषीं वंदे महेशप्रियाम् ॥ 6 ॥
ह्रींकारात्मकवर्णमात्रपठनादैंद्रीं श्रियं तन्वतीं चिन्मात्रां भुवनेश्वरीमनुदिनं भिक्षाप्रदानक्षमाम् । विश्वाघौघनिवारिणीं विमलिनीं विश्वंभरां मातृकां कामाक्षीं परिपूर्णचंद्रवदनां वंदे महेशप्रियाम् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
वाग्देवीति च यां वदंति मुनयः क्षीराब्धिकन्येति च क्षोणीभृत्तनयेति च श्रुतिगिरो यां आमनंति स्फुटम् । एकानेकफलप्रदां बहुविधाऽऽकारास्तनूस्तन्वतीं कामाक्षीं सकलार्तिभंजनपरां वंदे महेशप्रियाम् ॥ 8 ॥
मायामादिमकारणं त्रिजगतामाराधितांघ्रिद्वयां आनंदामृतवारिराशिनिलयां विद्यां विपश्चिद्धियाम् । मायामानुषरूपिणीं मणिलसन्मध्यां महामातृकां कामाक्षीं करिराजमंदगमनां वंदे महेशप्रियाम् ॥ 9 ॥
कांता कामदुघा करींद्रगमना कामारिवामांकगा कल्याणी कलितावतारसुभगा कस्तूरिकाचर्चिता कंपातीररसालमूलनिलया कारुण्यकल्लोलिनी कल्याणानि करोतु मे भगवती कांचीपुरीदेवता ॥ 10 ॥
इति श्री कामाक्षी स्तोत्रम् ।
Browse Related Categories: