Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ महामायायै नमः । ॐ महालक्ष्म्यै नमः । ॐ महावाण्यै नमः । ॐ महेश्वर्यै नमः । ॐ महादेव्यै नमः । ॐ महारात्र्यै नमः । ॐ महिषासुरमर्दिन्यै नमः । ॐ कालरात्र्यै नमः । ॐ कुह्वै नमः । ॐ पूर्णायै नमः । 10 ।
ॐ आनंदायै नमः । ॐ आद्यायै नमः । ॐ भद्रिकायै नमः । ॐ निशायै नमः । ॐ जयायै नमः । ॐ रिक्तायै नमः । ॐ महाशक्त्यै नमः । ॐ देवमात्रे नमः । ॐ कृशोदर्यै नमः । ॐ शच्यै नमः । 20 ।
ॐ इंद्राण्यै नमः । ॐ शक्रनुतायै नमः । ॐ शंकरप्रियवल्लभायै नमः । ॐ महावराहजनन्यै नमः । ॐ मदनोन्मथिन्यै नमः । ॐ मह्यै नमः । ॐ वैकुंठनाथरमण्यै नमः । ॐ विष्णुवक्षःस्थलस्थितायै नमः । ॐ विश्वेश्वर्यै नमः । ॐ विश्वमात्रे नमः । 30 ।
ॐ वरदायै नमः । ॐ अभयदायै नमः । ॐ शिवायै नमः । ॐ शूलिन्यै नमः । ॐ चक्रिण्यै नमः । ॐ मायै नमः । ॐ पाशिन्यै नमः । ॐ शंखधारिण्यै नमः । ॐ गदिन्यै नमः । ॐ मुंडमालायै नमः । 40 ।
ॐ कमलायै नमः । ॐ करुणालयायै नमः । ॐ पद्माक्षधारिण्यै नमः । ॐ अंबायै नमः । ॐ महाविष्णुप्रियंकर्यै नमः । ॐ गोलोकनाथरमण्यै नमः । ॐ गोलोकेश्वरपूजितायै नमः । ॐ गयायै नमः । ॐ गंगायै नमः । ॐ यमुनायै नमः । 50 ।
ॐ गोमत्यै नमः । ॐ गरुडासनायै नमः । ॐ गंडक्यै नमः । ॐ सरय्वै नमः । ॐ ताप्यै नमः । ॐ रेवायै नमः । ॐ पयस्विन्यै नमः । ॐ नर्मदायै नमः । ॐ कावेर्यै नमः । ॐ केदारस्थलवासिन्यै नमः । 60 ।
ॐ किशोर्यै नमः । ॐ केशवनुतायै नमः । ॐ महेंद्रपरिवंदितायै नमः । ॐ ब्रह्मादिदेवनिर्माणकारिण्यै नमः । ॐ वेदपूजितायै नमः । ॐ कोटिब्रह्मांडमध्यस्थायै नमः । ॐ कोटिब्रह्मांडकारिण्यै नमः । ॐ श्रुतिरूपायै नमः । ॐ श्रुतिकर्यै नमः । ॐ श्रुतिस्मृतिपरायणायै नमः । 70 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ इंदिरायै नमः । ॐ सिंधुतनयायै नमः । ॐ मातंग्यै नमः । ॐ लोकमातृकायै नमः । ॐ त्रिलोकजनन्यै नमः । ॐ तंत्रायै नमः । ॐ तंत्रमंत्रस्वरूपिण्यै नमः । ॐ तरुण्यै नमः । ॐ तमोहंत्र्यै नमः । ॐ मंगलायै नमः । 80 ।
ॐ मंगलायनायै नमः । ॐ मधुकैटभमथन्यै नमः । ॐ शुंभासुरविनाशिन्यै नमः । ॐ निशुंभादिहरायै नमः । ॐ मात्रे नमः । ॐ हरिशंकरपूजितायै नमः । ॐ सर्वदेवमय्यै नमः । ॐ सर्वायै नमः । ॐ शरणागतपालिन्यै नमः । ॐ शरण्यायै नमः । 90 ।
ॐ शंभुवनितायै नमः । ॐ सिंधुतीरनिवासिन्यै नमः । ॐ गंधार्वगानरसिकायै नमः । ॐ गीतायै नमः । ॐ गोविंदवल्लभायै नमः । ॐ त्रैलोक्यपालिन्यै नमः । ॐ तत्त्वरूपायै नमः । ॐ तारुण्यपूरितायै नमः । ॐ चंद्रावल्यै नमः । ॐ चंद्रमुख्यै नमः । 100 ।
ॐ चंद्रिकायै नमः । ॐ चंद्रपूजितायै नमः । ॐ चंद्रायै नमः । ॐ शशांकभगिन्यै नमः । ॐ गीतवाद्यपरायणायै नमः । ॐ सृष्टिरूपायै नमः । ॐ सृष्टिकर्यै नमः । ॐ सृष्टिसंहारकारिण्यै नमः । 108 ।
इति श्री कमलाष्टोत्तरशतनामावलिः ॥
Browse Related Categories: