Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीकृष्ण उवाच
त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी । त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥ 1
कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम् । परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ॥ 2 ॥
तेजः स्वरूपा परमा भक्तानुग्रविग्रहा । सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ॥ 3 ॥
सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया । सर्वज्ञा सर्वतोभद्रा सर्वमंगलमंगला ॥ 4 ॥
सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी । सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ॥ 5 ॥
त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम् । दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी ॥ 6 ॥
निद्रा त्वं च दया त्वं च तृष्णा त्वं चात्मनः प्रिया । क्षुत् क्षांतिः शांतिरीशा च कांतिस्तुष्टिश्च शाश्वती ॥ 7 ॥
श्रद्धा पुष्टिश्च तंद्रा च लज्जा शोभा दया तथा । सतां संपत्स्वरूपा श्रीर्विपत्तिरसतामिह ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
प्रीतिरूपा पुण्यवतां पापिनां कलहांकुरा । शश्वत्कर्ममयी शक्तिः सर्वदा सर्वजीविनाम् ॥ 9 ॥
देवेभ्यः स्वपदो दात्री धातुर्धात्री कृपामयी । हिताय सर्वदेवानां सर्वासुरविनाशिनी ॥ 10 ॥
योगिनिद्रा योगरूपा योगदात्री च योगिनाम् । सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धयोगिनी ॥ 11 ॥
माहेश्वरी च ब्रह्माणी विष्णुमाया च वैष्णवी । भद्रदा भद्रकाली च सर्वलोकभयंकरी ॥ 12 ॥
ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे । सतां कीर्तिः प्रतिष्ठा च निंदा त्वमसतां सदा ॥ 13 ॥
महायुद्धे महामारी दुष्टसंहाररूपिणी । रक्षास्वरूपा शिष्टानां मातेव हितकारिणी ॥ 14 ॥
वंद्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा । ब्रह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम् ॥ 15 ॥
विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम् । मेधा स्मृतिस्वरूपा च प्रतिभा प्रतिभावताम् ॥ 16 ॥
राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी । सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने ॥ 17 ॥
तथांते त्वं महामारी विश्वे विश्वैश्च पूजिते । कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ॥ 18 ॥
दुरत्यया मे माया त्वं यया सम्मोहितं जगत् । यया मुग्धो हि विद्वांश्च मोक्षमार्गं न पश्यति ॥ 19 ॥
इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम् । पूजाकाले पठेद्यो हि सिद्धिर्भवति वांछिता ॥ 20 ॥
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखंडे नारदनारायणसंवादे दुर्गोपाख्याने षट्षष्टितमोऽध्याये श्री दुर्गा स्तोत्रम् ।
Browse Related Categories: