Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अथ अष्टमस्तोत्रम्
वंदिताशेषवंद्योरुवृंदारकं चंदनाचर्चितोदारपीनांसकम् । इंदिराचंचलापांगनीराजितं मंदरोद्धारिवृत्तोद्भुजाभोगिनम् । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 1॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
सृष्टिसंहारलीलाविलासाततं पुष्टषाड्गुण्यसद्विग्रहोल्लासिनम् । दुष्टनिःशेषसंहारकर्मोद्यतं हृष्टपुष्टातिशिष्ट (अनुशिष्ट) प्रजासंश्रयम् । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 2॥
उन्नतप्रार्थिताशेषसंसाधकं सन्नतालौकिकानंददश्रीपदम् । भिन्नकर्माशयप्राणिसंप्रेरकं तन्न किं नेति विद्वत्सु मीमांसितम् । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 3॥
विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितीशेश्वरैश्चार्च्चितम् । अप्रतर्क्योरुसंविद्गुणं निर्मलं सप्रकाशाजरानंदरूपं परम् । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 4॥
अत्ययो यस्य (येन) केनापि न क्वापि हि प्रत्ययो यद्गुणेषूत्तमानां परः । सत्यसंकल्प एको वरेण्यो वशी मत्यनूनैः सदा वेदवादोदितः । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 5॥
पश्यतां दुःखसंताननिर्मूलनं दृश्यतां दृश्यतामित्यजेशार्चितम् । नश्यतां दूरगं सर्वदाप्याऽत्मगं वश्यतां स्वेच्छया सज्जनेष्वागतम् । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 6॥
अग्रजं यः ससर्जाजमग्र्याकृतिं विग्रहो यस्य सर्वे गुणा एव हि । उग्र आद्योऽपि यस्यात्मजाग्र्यात्मजः सद्गृहीतः सदा यः परं दैवतम् । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 7॥
अच्युतो यो गुणैर्नित्यमेवाखिलैः प्रच्युतोऽशेषदोषैः सदा पूर्तितः । उच्यते सर्ववेदोरुवादैरजः स्वर्चितो ब्रह्मरुद्रेंद्रपूर्वैः सदा । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 8॥
धार्यते येन विश्वं सदाजादिकं वार्यतेऽशेषदुःखं निजध्यायिनाम् । पार्यते सर्वमन्यैर्नयत्पार्यते कार्यते चाखिलं सर्वभूतैः सदा । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 9॥
सर्वपापानियत्संस्मृतेः संक्षयं सर्वदा यांति भक्त्या विशुद्धात्मनाम् । शर्वगुर्वादिगीर्वाण संस्थानदः कुर्वते कर्म यत्प्रीतये सज्जनाः । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 10॥
अक्षयं कर्म यस्मिन् परे स्वर्पितं प्रक्षयं यांति दुःखानि यन्नामतः । अक्षरो योऽजरः सर्वदैवामृतः कुक्षिगं यस्य विश्वं सदाऽजादिकम् । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 11॥
नंदितीर्थोरुसन्नामिनो नंदिनः संदधानाः सदानंददेवे मतिम् । मंदहासारुणा पांगदत्तोन्नतिं वंदिताशेषदेवादिवृंदं सदा । प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥ 12॥
इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु अष्टमस्तोत्रं संपूर्णम्
Browse Related Categories: