Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीभैरव्युवाच
भगवन् श्रोतुमिच्छामि मातंग्याः शतनामकम् । यद्गुह्यं सर्वतंत्रेषु केनापि न प्रकाशितम् ॥ 1
श्रीभैरव उवाच
Offered for worship and study, not as prediction. Non-commercial.
शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् । नाख्येयं यत्र कुत्रापि पठनीयं परात्परम् ॥ 2
यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः । नश्यंति तत्क्षणाद्देवि वह्निना तूलराशिवत् ॥ 3 ॥
प्रसन्ना जायते देवी मातंगी चास्य पाठतः । सहस्रनामपठने यत्फलं परिकीर्तितम् । तत्कोटिगुणितं देवीनामाष्टशतकं शुभम् ॥ 4 ॥
अस्य श्रीमातंग्यष्टोत्तरशतनामस्तोत्रस्य भगवान्मतंग ऋषिः अनुष्टुप्छंदः श्रीमातंगी देवता श्रीमातंगी प्रीतये जपे विनियोगः ।
महामत्तमातंगिनी सिद्धिरूपा तथा योगिनी भद्रकाली रमा च । भवानी भवप्रीतिदा भूतियुक्ता भवाराधिता भूतिसंपत्करी च ॥ 1 ॥
धनाधीशमाता धनागारदृष्टि- -र्धनेशार्चिता धीरवापी वरांगी । प्रकृष्टा प्रभारूपिणी कामरूपा प्रहृष्टा महाकीर्तिदा कर्णनाली ॥ 2 ॥
कराली भगा घोररूपा भगांगी भगाह्वा भगप्रीतिदा भीमरूपा । भवानी महाकौशिकी कोशपूर्णा किशोरी किशोरप्रिया नंदीहा ॥ 3 ॥
महाकारणाऽकारणा कर्मशीला कपाली प्रसिद्धा महासिद्धखंडा । मकारप्रिया मानरूपा महेशी मलोल्लासिनी लास्यलीलालयांगी ॥ 4 ॥
क्षमा क्षेमशीला क्षपाकारिणी चा- -ऽक्षयप्रीतिदा भूतियुक्ता भवानी । भवाराधिता भूतिसत्यात्मिका च प्रभोद्भासिता भानुभास्वत्करा च ॥ 5 ॥
धराधीशमाता धरागारदृष्टि- -र्धरेशार्चिता धीवरा धीवरांगी । प्रकृष्टा प्रभारूपिणी प्राणरूपा प्रकृष्टस्वरूपा स्वरूपप्रिया च ॥ 6 ॥
चलत्कुंडला कामिनी कांतयुक्ता कपालाऽचला कालकोद्धारिणी च । कदंबप्रिया कोटरी कोटदेहा क्रमा कीर्तिदा कर्णरूपा च काक्ष्मीः ॥ 7 ॥
क्षमांगी क्षयप्रेमरूपा क्षया च क्षयाक्षा क्षयाह्वा क्षयप्रांतरा च । क्षवत्कामिनी क्षारिणी क्षीरपूर्णा शिवांगी च शाकंभरी शाकदेहा ॥ 8 ॥
महाशाकयज्ञा फलप्राशका च शकाह्वाऽशकाह्वा शकाख्या शका च । शकाक्षांतरोषा सुरोषा सुरेखा महाशेषयज्ञोपवीतप्रिया च ॥ 9 ॥
जयंती जया जाग्रती योग्यरूपा जयांगा जपध्यानसंतुष्टसंज्ञा । जयप्राणरूपा जयस्वर्णदेहा जयज्वालिनी यामिनी याम्यरूपा ॥ 10 ॥
जगन्मातृरूपा जगद्रक्षणा च स्वधावौषडंता विलंबाऽविलंबा । षडंगा महालंबरूपासिहस्ता- पदाहारिणीहारिणी हारिणी च ॥ 11 ॥
महामंगला मंगलप्रेमकीर्ति- -र्निशुंभच्छिदा शुंभदर्पापहा च । तथाऽऽनंदबीजादिमुक्तिस्वरूपा तथा चंडमुंडापदा मुख्यचंडा ॥ 12 ॥
प्रचंडाऽप्रचंडा महाचंडवेगा चलच्चामरा चामरा चंद्रकीर्तिः । सुचामीकरा चित्रभूषोज्ज्वलांगी सुसंगीतगीता च पायादपायात् ॥ 13 ॥
इति ते कथितं देवि नाम्नामष्टोत्तरं शतम् । गोप्यं च सर्वतंत्रेषु गोपनीयं च सर्वदा ॥ 14 ॥
एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः । त्रिसंध्यं च महाभक्त्या पठनीयं सुखोदयम् ॥ 15 ॥
न तस्य दुष्करं किंचिज्जायते स्पर्शतः क्षणात् । सुकृतं यत्तदेवाप्तं तस्मादावर्तयेत्सदा ॥ 16 ॥
सदैव सन्निधौ तस्य देवी वसति सादरम् । अयोगा ये त एवाग्रे सुयोगाश्च भवंति वै ॥ 17 ॥
त एव मित्रभूताश्च भवंति तत्प्रसादतः । विषाणि नोपसर्पंति व्याधयो न स्पृशंति तान् ॥ 18 ॥
लूताविस्फोटकाः सर्वे शमं यांति च तत्क्षणात् । जरापलितनिर्मुक्तः कल्पजीवी भवेन्नरः ॥ 19 ॥
अपि किं बहुनोक्तेन सान्निध्यं फलमाप्नुयात् । यावन्मया पुरा प्रोक्तं फलं साहस्रनामकम् । तत्सर्वं लभते मर्त्यो महामायाप्रसादतः ॥ 20 ॥
इति श्रीरुद्रयामले श्रीमातंगीशतनामस्तोत्रम् ।
Browse Related Categories: