Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अस्य श्रीनारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः, अनुष्टुप्छंदः, श्रीलक्ष्मीनारायणो देवता, ॐ बीजं, नमश्शक्तिः, नारायणायेति कीलकं, श्रीलक्ष्मीनारायण प्रीत्यर्थे जपे विनियोगः ।
करन्यासः । ॐ नारायणः परं ज्योतिरिति अंगुष्ठाभ्यां नमः । नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः । नारायणः परो देव इति मध्यमाभ्यां नमः । नारायणः परं धामेति अनामिकाभ्यां नमः । नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः । विश्वं नारायण इति करतलकरपृष्ठाभ्यां नमः । अंगन्यासः । नारायणः परं ज्योतिरिति हृदयाय नमः । नारायणः परं ब्रह्मेति शिरसे स्वाहा । नारायणः परो देव इति शिखायै वौषट् । नारायणः परं धामेति कवचाय हुम् । नारायणः परो धर्म इति नेत्राभ्यां वौषट् । विश्वं नारायण इति अस्त्राय फट् । दिग्बंधः । ॐ ऐंद्र्यादिदशदिशं ॐ नमः सुदर्शनाय सहस्राराय हुं फट् बध्नामि नमश्चक्राय स्वाहा । इति प्रतिदिशं योज्यम् ।
अथ ध्यानम् । उद्यादादित्यसंकाशं पीतवासं चतुर्भुजम् । शंखचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥ 1 ॥
त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानंतभोगी तन्मध्ये भूमिपद्मांकुशशिखरदलं कर्णिकाभूतमेरुम् । तत्रस्थं शांतमूर्तिं मणिमयमकुटं कुंडलोद्भासितांगं लक्ष्मीनारायणाख्यं सरसिजनयनं संततं चिंतयामि ॥ 2 ॥
अथ मूलाष्टकम् । ओम् ॥ नारायणः परं ज्योतिरात्मा नारायणः परः । नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥ 1 ॥
नारायणः परो देवो धाता नारायणः परः । नारायणः परो धाता नारायण नमोऽस्तु ते ॥ 2 ॥
नारायणः परं धाम ध्यानं नारायणः परः । नारायण परो धर्मो नारायण नमोऽस्तु ते ॥ 3 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
नारायणः परोवेद्यः विद्या नारायणः परः । विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ 4 ॥
नारायणाद्विधिर्जातो जातो नारायणाद्भवः । जातो नारायणादिंद्रो नारायण नमोऽस्तु ते ॥ 5 ॥
रविर्नारायणस्तेजः चंद्रो नारायणो महः । वह्निर्नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ 6 ॥
नारायण उपास्यः स्याद्गुरुर्नारायणः परः । नारायणः परो बोधो नारायण नमोऽस्तु ते ॥ 7 ॥
नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् । सेव्योनारायणः शुद्धो नारायण नमोऽस्तु ते ॥ 8 ॥ [हरि]
अथ प्रार्थनादशकम् । नारायण त्वमेवासि दहराख्ये हृदि स्थितः । प्रेरकः प्रेर्यमाणानां त्वया प्रेरितमानसः ॥ 9 ॥
त्वदाज्ञां शिरसा धृत्वा जपामि जनपावनम् । नानोपासनमार्गाणां भवकृद्भावबोधकः ॥ 10 ॥
भावार्थकृद्भवातीतो भव सौख्यप्रदो मम । त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥ 11 ॥
त्वदधिष्ठानमात्रेण सा वै सर्वार्थकारिणी । त्वमेतां च पुरस्कृत्य सर्वकामान्प्रदर्शय ॥ 12 ॥
न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न हि दैवतम् । त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ॥ 13 ॥
यावत्सांसारिको भावो मनस्स्थो भावनात्मकः । तावत्सिद्धिर्भवेत्साध्या सर्वथा सर्वदा विभो ॥ 14 ॥
पापिनामहमेवाग्र्यो दयालूनां त्वमग्रणीः । दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ 15 ॥
त्वयाहं नैव सृष्टश्चेन्न स्यात्तव दयालुता । आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ 16 ॥
पापसंघपरिश्रांतः पापात्मा पापरूपधृत् । त्वदन्यः कोऽत्र पापेभ्यस्त्रातास्ति जगतीतले ॥ 17 ॥
त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमेव । त्वमेव सेव्यश्च गुरुस्त्वमेव त्वमेव सर्वं मम देव देव ॥ 18 ॥
प्रार्थनादशकं चैव मूलाष्टकमतः परम् । यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ 19 ॥
नारायणस्य हृदयं सर्वाभीष्टफलप्रदम् । लक्ष्मीहृदयकं स्तोत्रं यदि चेत्तद्विनाकृतम् ॥ 20 ॥
तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुद्ध्यति सर्वदा । एतत्संकलितं स्तोत्रं सर्वकामफलप्रदम् ॥ 21 ॥
लक्ष्मीहृदयकं चैव तथा नारायणात्मकम् । जपेद्यः संकलीकृत्य सर्वाभीष्टमवाप्नुयात् ॥ 22 ॥
नारायणस्य हृदयमादौ जप्त्वा ततः परम् । लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ॥ 23 ॥
पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीनुतिं जपेत् । पुनर्नारायणं जाप्यं संकलीकरणं भवेत् ॥ 24 ॥
एवं मध्ये द्विवारेण जपेत्संकलितं तु तत् । लक्ष्मीहृदयकं स्तोत्रं सर्वकामप्रकाशितम् ॥ 25 ॥
तद्वज्जपादिकं कुर्यादेतत्संकलितं शुभम् । सर्वान्कामानवाप्नोति आधिव्याधिभयं हरेत् ॥ 26 ॥
गोप्यमेतत्सदा कुर्यान्न सर्वत्र प्रकाशयेत् । इति गुह्यतमं शास्त्रं प्राप्तं ब्रह्मादिकैः पुरा ॥ 27 ॥
तस्मात्सर्वप्रयत्नेन गोपयेत्साधयेसुधीः । यत्रैतत्पुस्तकं तिष्ठेल्लक्ष्मीनारायणात्मकम् ॥ 28 ॥
भूतपैशाचवेताल भयं नैव तु सर्वदा । लक्ष्मीहृदयकं प्रोक्तं विधिना साधयेत्सुधीः ॥ 29 ॥
भृगुवारे च रात्रौ च पूजयेत्पुस्तकद्वयम् । सर्वथा सर्वदा सत्यं गोपयेत्साधयेत्सुधीः । गोपनात्साधनाल्लोके धन्यो भवति तत्त्वतः ॥ 30 ॥
इत्यथर्वरहस्ये उत्तरभागे नारायणहृदयं संपूर्णम् ।
Browse Related Categories: