Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ प्रत्यंगिरायै नमः । ॐ ॐकाररूपिण्यै नमः । ॐ क्षं ह्रां बीजप्रेरितायै नमः । ॐ विश्वरूपास्त्यै नमः । ॐ विरूपाक्षप्रियायै नमः । ॐ ऋङ्मंत्रपारायणप्रीतायै नमः । ॐ कपालमालालंकृतायै नमः । ॐ नागेंद्रभूषणायै नमः । ॐ नागयज्ञोपवीतधारिण्यै नमः । ॐ कुंचितकेशिन्यै नमः । 10 ।
ॐ कपालखट्वांगधारिण्यै नमः । ॐ शूलिन्यै नमः । ॐ रक्तनेत्रज्वालिन्यै नमः । ॐ चतुर्भुजायै नमः । ॐ डमरुकधारिण्यै नमः । ॐ ज्वालाकरालवदनायै नमः । ॐ ज्वालाजिह्वायै नमः । ॐ करालदंष्ट्रायै नमः । ॐ आभिचारिकहोमाग्निसमुत्थितायै नमः । ॐ सिंहमुखायै नमः । 20 ।
ॐ महिषासुरमर्दिन्यै नमः । ॐ धूम्रलोचनायै नमः । ॐ कृष्णांगायै नमः । ॐ प्रेतवाहनायै नमः । ॐ प्रेतासनायै नमः । ॐ प्रेतभोजिन्यै नमः । ॐ रक्तप्रियायै नमः । ॐ शाकमांसप्रियायै नमः । ॐ अष्टभैरवसेवितायै नमः । ॐ डाकिनीपरिसेवितायै नमः । 30 ।
ॐ मधुपानप्रियायै नमः । ॐ बलिप्रियायै नमः । ॐ सिंहावाहनायै नमः । ॐ सिंहगर्जिन्यै नमः । ॐ परमंत्रविदारिण्यै नमः । ॐ परयंत्रविनाशिन्यै नमः । ॐ परकृत्याविध्वंसिन्यै नमः । ॐ गुह्यविद्यायै नमः । ॐ सिद्धविद्यायै नमः । ॐ योनिरूपिण्यै नमः । 40 ।
ॐ नवयोनिचक्रात्मिकायै नमः । ॐ वीररूपायै नमः । ॐ दुर्गारूपायै नमः । ॐ महाभीषणायै नमः । ॐ घोररूपिण्यै नमः । ॐ महाक्रूरायै नमः । ॐ हिमाचलनिवासिन्यै नमः । ॐ वराभयप्रदायै नमः । ॐ विषुरूपायै नमः । ॐ शत्रुभयंकर्यै नमः । 50 ।
ॐ विद्युद्घातायै नमः । ॐ शत्रुमूर्धस्फोटनायै नमः । ॐ विधूमाग्निसमप्रभायै नमः । ॐ महामायायै नमः । ॐ माहेश्वरप्रियायै नमः । ॐ शत्रुकार्यहानिकर्यै नमः । ॐ ममकार्यसिद्धिकर्ये नमः । ॐ शात्रूणां उद्योगविघ्नकर्यै नमः । ॐ ममसर्वोद्योगवश्यकर्यै नमः । ॐ शत्रुपशुपुत्रविनाशिन्यै नमः । 60 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ त्रिनेत्रायै नमः । ॐ सुरासुरनिषेवितायै नमः । ॐ तीव्रसाधकपूजितायै नमः । ॐ नवग्रहशासिन्यै नमः । ॐ आश्रितकल्पवृक्षायै नमः । ॐ भक्तप्रसन्नरूपिण्यै नमः । ॐ अनंतकल्याणगुणाभिरामायै नमः । ॐ कामरूपिण्यै नमः । ॐ क्रोधरूपिण्यै नमः । ॐ मोहरूपिण्यै नमः । 70 ।
ॐ मदरूपिण्यै नमः । ॐ उग्रायै नमः । ॐ नारसिंह्यै नमः । ॐ मृत्युमृत्युस्वरूपिण्यै नमः । ॐ अणिमादिसिद्धिप्रदायै नमः । ॐ अंतश्शत्रुविदारिण्यै नमः । ॐ सकलदुरितविनाशिन्यै नमः । ॐ सर्वोपद्रवनिवारिण्यै नमः । ॐ दुर्जनकालरात्र्यै नमः । ॐ महाप्राज्ञायै नमः । 80 ।
ॐ महाबलायै नमः । ॐ कालीरूपिण्यै नमः । ॐ वज्रांगायै नमः । ॐ दुष्टप्रयोगनिवारिण्यै नमः । ॐ सर्वशापविमोचन्यै नमः । ॐ निग्रहानुग्रह क्रियानिपुणायै नमः । ॐ इच्छाज्ञानक्रियाशक्तिरूपिण्यै नमः । ॐ ब्रह्मविष्णुशिवात्मिकायै नमः । ॐ हिरण्यसटाच्छटायै नमः । ॐ इंद्रादिदिक्पालकसेवितायै नमः । 90 ।
ॐ परप्रयोग प्रत्यक् प्रचोदिन्यै नमः । ॐ खड्गमालारूपिण्यै नमः । ॐ नृसिंहसालग्रामनिवासिन्यै नमः । ॐ भक्तशत्रुभक्षिण्यै नमः । ॐ ब्रह्मास्त्रस्वरूपायै नमः । ॐ सहस्रारशक्यै नमः । ॐ सिद्धेश्वर्यै नमः । ॐ योगीश्वर्यै नमः । ॐ आत्मरक्षणशक्तिदायिन्यै नमः । ॐ सर्वविघ्नविनाशिन्यै नमः । 100 ।
ॐ सर्वांतकनिवारिण्यै नमः । ॐ सर्वदुष्टप्रदुष्टशिरश्छेदिन्यै नमः । ॐ अथर्वणवेदभासितायै नमः । ॐ श्मशानवासिन्यै नमः । ॐ भूतभेतालसेवितायै नमः । ॐ सिद्धमंडलपूजितायै नमः । ॐ महाभैरवप्रियाय नमः । ॐ प्रत्यंगिरा भद्रकाली देवतायै नमः । 108 ।
Browse Related Categories: