Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्री गणेशाय नमः । श्री महादेव उवाच
ततो रामः स्वयं प्राह हनुमंतमुपस्थितम् । शऋणु यत्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ 1
आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् । जलाशये महाकाशस्तदवच्छिन्न एव हि । प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः ॥ 2॥
बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् । आभासस्त्वपरं बिंबभूतमेवं त्रिधा चितिः ॥ 3॥
साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि । साक्षिण्यारोप्यते भ्रांत्या जीवत्वं च तथाऽबुधैः ॥ 4॥
आभासस्तु मृषाबुद्धिरविद्याकार्यमुच्यते । अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पितः ॥ 5॥
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपद्यते । तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥ 6॥
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः । तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः ॥ 7॥
एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् । न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि ॥ 8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ । मद्भक्तिहीनाय शठाय न त्वया दातव्यमैंद्रादपि राज्यतोऽधिकम् ॥ 9॥
॥ श्रीमदध्यात्मरामायणे बालकांडे श्रीरामहृदयं संपूर्णम् ॥
Browse Related Categories: