Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
पूर्वांग पूजा
श्रीमहागणाधिपतये नमः । श्री गुरुभ्यो नमः । हरिः ओम् ।
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
शुचिः अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः ॥ पुंडरीकाक्ष पुंडरीकाक्ष पुंडरीकाक्षाय नमः ॥
प्रार्थना शुक्लांबरधरं-विँष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥ अगजानन पद्मार्कं गजाननमहर्निशम् । अनेकदं तं भक्तानां एकदंतमुपास्महे ॥
दे॒वीं-वाँच॑मजनयंत दे॒वास्तां-विँ॒श्वरू॑पाः प॒शवो॑ वदंति । सा नो॑ मं॒द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥
यः शिवो नाम रूपाभ्यां-याँ देवी सर्वमंगला । तयोः संस्मरणान्नित्यं सर्वदा जय मंगलम् ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽंघ्रियुगं स्मरामि ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । एषामिंदीवरश्यामो हृदयस्थो जनार्दनः ॥
सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरी नारायणि नमोऽस्तु ते ॥
श्रीलक्ष्मीनारायणाभ्यां नमः । उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरंदराभ्यां नमः । अरुंधतीवसिष्ठाभ्यां नमः । श्रीसीतारामाभ्यां नमः । मातापितृभ्यो नमः । सर्वेभ्यो महाजनेभ्यो नमः ।
दीपाराधनम् दीपस्त्वं ब्रह्मरूपोऽसि ज्योतिषां प्रभुरव्ययः । सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥ भो दीप देवि रूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् । यावत्पूजां करिष्यामि तावत्त्वं सुस्थिरो भव ॥ दीपाराधन मुहूर्तः सुमुहूर्तोऽस्तु ॥ पूजार्थे हरिद्रा कुंकुम विलेपनं करिष्ये ॥
आचम्य ॐ केशवाय स्वाहा । ॐ नारायणाय स्वाहा । ॐ माधवाय स्वाहा । ॐ गोविंदाय नमः । ॐ-विँष्णवे नमः । ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ-वाँमनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दामोदराय नमः । ॐ संकर्षणाय नमः । ॐ-वाँसुदेवाय नमः । ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्दनाय नमः । ॐ उपेंद्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः ।
भूतोच्चाटनम् उत्तिष्ठंतु भूतपिशाचाः य एते भूमि भारकाः । एतेषामविरोधेन ब्रह्मकर्म समारभे ॥ अपसर्पंतु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते गच्छंतु शिवाऽज्ञया ॥
प्राणायामम् ॐ भूः ॐ भुवः॑ ओग्ं सुवः॑ ॐ महः॑ ॐ जनः॑ ॐ तपः॑ ओग्ं सत्यम् । ॐ तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥ ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥
संकल्पम् मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वर प्रीत्यर्थं शुभाभ्यां शुभे शोभने मुहूर्ते श्रीमहाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीयपरार्थे श्वेतवराहकल्पे वैवस्वतमन्वंतरे कलियुगे प्रथमपादे जंबूद्वीपे भारतवर्षे भरतखंडे मेरोः दक्षिण दिग्भागे श्रीशैलस्य …… प्रदेशे ……, …… नद्योः मध्यप्रदेशे लक्ष्मीनिवासगृहे समस्त देवता ब्राह्मण आचार्य हरि हर गुरु चरण सन्निधौ अस्मिन् वर्तमने व्यावहरिक चांद्रमानेन श्री …….. (1) नाम संवँत्सरे …… अयने (2) …… ऋतौ (3) …… मासे(4) …… पक्षे (5) …… तिथौ (6) …… वासरे (7) …… नक्षत्रे (8) …… योगे (9) …… करण (10) एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीमान् …… गोत्रोद्भवस्य …… नामधेयस्य (मम धर्मपत्नी श्रीमतः …… गोत्रस्य …… नामधेयः समेतस्य) मम/अस्माकं सहकुटुंबस्य क्षेम स्थैर्य धैर्य वीर्य विजय अभय आयुः आरोग्य ऐश्वर अभिवृद्ध्यर्थं धर्म अर्थ काम मोक्ष चतुर्विध पुरुषार्थ फल सिद्ध्यर्थं धन कनक वस्तु वाहन समृद्ध्यर्थं सर्वाभीष्ट सिद्ध्यर्थं श्री ………. उद्दिश्य श्री ………. प्रीत्यर्थं संभवद्भिः द्रव्यैः संभवद्भिः उपचारैश्च संभवता नियमेन संभविता प्रकारेण यावच्छक्ति ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥
(निर्विघ्न पूजा परिसमाप्त्यर्थं आदौ श्रीमहागणपति पूजां करिष्ये ।)
तदंग कलशाराधनं करिष्ये ।
कलशाराधनम् कलशे गंध पुष्पाक्षतैरभ्यर्च्य । कलशे उदकं पूरयित्वा । कलशस्योपरि हस्तं निधाय ।
कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः । मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृता ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुंधरा । ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥ अंगैश्च सहिताः सर्वे कलशांबु समाश्रिताः ।
ॐ आक॒लशे᳚षु धावति प॒वित्रे॒ परि॑षिच्यते । उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ।
आपो॒ वा इ॒दग्ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छंदा॒ग्॒स्यापो॒ ज्योती॒ग्॒ष्यापो॒ यजू॒ग्॒ष्यापः॑ स॒त्यमापः॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः॒ सुव॒राप॒ ओम् ॥
गंगे च यमुने चैव गोदावरी सरस्वती । नर्मदे सिंधु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥ कावेरी तुंगभद्रा च कृष्णवेणी च गौतमी । भागीरथीति विख्याताः पंचगंगाः प्रकीर्तिताः ॥
आयांतु श्री …….. पूजार्थं मम दुरितक्षयकारकाः । ॐ ॐ ॐ कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य, देवं संप्रोक्ष्य, आत्मानं च संप्रोक्ष्य ॥
शंखपूजा कलशोदकेन शंखं पूरयित्वा ॥ शंखे गंधकुंकुमपुष्पतुलसीपत्रैरलंकृत्य ॥
शंखं चंद्रार्क दैवतं मध्ये वरुण देवताम् । पृष्ठे प्रजापतिं-विंँद्यादग्रे गंगा सरस्वतीम् ॥ त्रैलोक्येयानि तीर्थानि वासुदेवस्यदद्रया । शंखे तिष्ठंतु विप्रेंद्रा तस्मात् शंखं प्रपूजयेत् ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । पूजितः सर्वदेवैश्च पांचजन्य नमोऽस्तु ते ॥ गर्भादेवारिनारीणां-विँशीर्यंते सहस्रधा । नवनादेनपाताले पांचजन्य नमोऽस्तु ते ॥
ॐ शंखाय नमः । ॐ धवलाय नमः । ॐ पांचजन्याय नमः । ॐ शंखदेवताभ्यो नमः । सकलपूजार्थे अक्षतान् समर्पयामि ॥
घंटानादम् ॐ जयध्वनि मंत्रमातः स्वाहा । घंटदेवताभ्यो नमः । सकलोपचार पूजार्थे अक्षतान् समर्पयामि ।
आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् । घंटारवं करोम्यादौ देवताह्वान लांछनम् ॥ इति घंटानादं कृत्वा ॥
अथ हरिद्रागणपति पूजा अस्मिन् हरिद्राबिंबे श्रीमहागणपतिं आवाहयामि, स्थापयामि, पूजयामि ॥
प्राणप्रतिष्ठ ॐ असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चरं᳚त॒ मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥ अ॒मृतं॒-वैँ प्रा॒णा अ॒मृत॒मापः॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥ श्री महागणपतये नमः । स्थिरो भव वरदो भव । सुमुखो भव सुप्रसन्नो भव । स्थिरासनं कुरु ।
ध्यानं हरिद्राभं चतुर्बाहुं हरिद्रावदनं प्रभुम् । पाशांकुशधरं देवं मोदकं दंतमेव च । भक्ताऽभयप्रदातारं वंदे विघ्नविनाशनम् । ॐ हरिद्रा गणपतये नमः ।
अगजानन पद्मार्कं गजाननमहर्निशं अनेकदं तं भक्तानां एकदंतमुपास्महे ॥
ॐ ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
ॐ महागणपतये नमः । ध्यायामि । ध्यानं समर्पयामि । 1 ॥
ॐ महागणपतये नमः । आवाहयामि । आवाहनं समर्पयामि । 2 ॥
ॐ महागणपतये नमः । नवरत्नखचित दिव्य हेम सिंहासनं समर्पयामि । 3 ॥
ॐ महागणपतये नमः । पादयोः पाद्यं समर्पयामि । 4 ॥
ॐ महागणपतये नमः । हस्तयोः अर्घ्यं समर्पयामि । 5 ॥
ॐ महागणपतये नमः । मुखे आचमनीयं समर्पयामि । 6 ॥
स्नानं आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒त॑रः ॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ ॐ महागणपतये नमः । शुद्धोदक स्नानं समर्पयामि । 7 ॥ स्नानानंतरं आचमनीयं समर्पयामि ।
वस्त्रं अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः । अभि चंद्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥ ॐ महागणपतये नमः । वस्त्रं समर्पयामि । 8 ॥
यज्ञोपवीतं ॐ-यँ॒ज्ञो॒प॒वी॒तं प॒रमं॑ पवि॒त्रं प्र॒जाप॑ते॒र्यत्स॒हजं॑ पु॒रस्ता᳚त् । आयु॑ष्यमग्र्यं॒ प्र॒ति मुं॑च शु॒भ्रं य॑ज्ञोपवी॒तं ब॒लम॑स्तु॒ तेजः॑ ॥ ॐ महागणपतये नमः । यज्ञोपवीतार्थं अक्षतान् समर्पयामि । ।
गंधं गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ॐ महागणपतये नमः । दिव्य श्री गंधं समर्पयामि । 9 ॥
ॐ महागणपतये नमः । आभरणं समर्पयामि । 10 ॥
पुष्पैः पूजयामि ॐ सुमुखाय नमः । ॐ एकदंताय नमः । ॐ कपिलायनमः । ॐ गजकर्णकाय नमः । ॐ-लंँबोदरायनमः । ॐ-विँकटाय नमः । ॐ-विँघ्नराजाय नमः । ॐ गणाधिपायनमः । ॐ धूमकेतवे नमः । ॐ गणाध्यक्षाय नमः । ॐ फालचंद्राय नमः । ॐ गजाननाय नमः । ॐ-वँक्रतुंडाय नमः । ॐ शूर्पकर्णाय नमः । ॐ हेरंबाय नमः । ॐ स्कंदपूर्वजाय नमः । ॐ सर्वसिद्धिप्रदाय नमः । ॐ महागणपतये नमः । नानाविध परिमल पत्र पुष्पाणि समर्पयामि । 11 ॥
धूपं वनस्पत्युद्भविर्दिव्यैः नाना गंधैः सुसंयुँतः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ महागणपतये नमः । धूपं आघ्रापयामि । 12 ॥
दीपं साज्यं त्रिवर्ति संयुँक्तं-वँह्निना यॊजितं प्रियम् । गृहाण मंगलं दीपं त्रैलोक्य तिमिरापह ॥ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने । त्राहिमां नरकाद्घोरात् दिव्य ज्योतिर्नमोऽस्तु ते ॥ ॐ महागणपतये नमः । प्रत्यक्ष दीपं समर्पयामि । 13 ॥
धूप दीपानंतरं आचमनीयं समर्पयामि ।
नैवेद्यं ॐ भूर्भुव॒स्सुवः॒ । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धि॒यो यो नः॑ प्रचो॒दया᳚त् । सत्यं त्वा ऋतेन परिषिंचामि । (सायंकाले – ऋतं त्वा सत्येन परिषिंचामि) अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि । श्री महागणपतये नमः ……………….. समर्पयामि । ॐ प्रा॒णाय॒ स्वाहा᳚ । ॐ अ॒पा॒नाय॒ स्वाहा᳚ । ॐ-व्याँ॒नाय॒ स्वाहा᳚ । ॐ उ॒दा॒नाय॒ स्वाहा᳚ । ॐ स॒मा॒नाय॒ स्वाहा᳚ । मध्ये मध्ये पानीयं समर्पयामि । अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । ॐ महागणपतये नमः । नैवेद्यं समर्पयामि । 14 ॥
तांबूलं पूगीफलश्च कर्पूरैः नागवल्लीदलैर्युतम् । मुक्ताचूर्णसंयुँक्तं तांबूलं प्रतिगृह्यताम् ॥ ॐ महागणपतये नमः । तांबूलं समर्पयामि । 15 ॥
नीराजनं वेदा॒हमे॒तं पुरु॑षं म॒हांतम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒, यदास्ते᳚ । ॐ महागणपतये नमः । नीराजनं समर्पयामि । 16 ॥
मंत्रपुष्पं सुमुखश्चैकदंतश्च कपिलो गजकर्णकः लंबोदरश्च विकटो विघ्नराजो गणाधिपः ॥ धूमकेतुर्गणाध्यक्षः फालचंद्रो गजाननः वक्रतुंडश्शूर्पकर्णो हेरंबस्स्कंदपूर्वजः ॥ षोडशैतानि नामानि यः पठेच्छृणुयादपि विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥ ॐ महागणपतये नमः । सुवर्ण मंत्रपुष्पं समर्पयामि ।
प्रदक्षिणं यानिकानि च पापानि जन्मांतरकृतानि च । तानि तानि प्रणश्यंति प्रदक्षिण पदे पदे ॥ पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः । त्राहि मां कृपया देव शरणागतवत्सल ॥ अन्यधा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप ॥ ॐ महागणपतये नमः । प्रदक्षिणा नमस्कारान् समर्पयामि ।
ॐ महागणपतये नमः । छत्र चामरादि समस्त राजोपचारान् समर्पयामि ॥
क्षमाप्रार्थन यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं संपूर्णतां-याँति सद्यो वंदे गजाननम् ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप । यत्पूजितं मयादेव परिपूर्णं तदस्तु ते ॥ ॐ-वँक्रतुंड महाकाय सूर्य कोटि समप्रभ । निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री महागणपति सुप्रीतो सुप्रसन्नो वरदो भवंतु ॥
उत्तरे शुभकर्मण्यविघ्नमस्तु इति भवंतो ब्रुवंतु । उत्तरे शुभकर्मणि अविघ्नमस्तु ॥
तीर्थं अकालमृत्युहरणं सर्वव्याधिनिवारणम् । समस्तपापक्षयकरं श्री महागणपति पादोदकं पावनं शुभम् ॥ श्री महागणपति प्रसादं शिरसा गृह्णामि ॥
उद्वासनं ॐ-यँ॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् । ते ह॒ नाकं॑ महि॒मान॑स्सचंते । यत्र॒ पूर्वे॑ सा॒ध्यास्संति॑ दे॒वाः ॥ ॐ श्री महागणपति नमः यथास्थानं उद्वासयामि ॥ शोभनार्थे क्षेमाय पुनरागमनाय च ।
ॐ शांतिः शांतिः शांतिः ।
श्री सत्यनारायणस्वामि परिवार पूजा
पुनः संकल्पं पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ मम इष्टकाम्यार्थ सिद्ध्यर्थं मम राजद्वारे राजमुखे सर्वदा दिग्विजय प्राप्त्यर्थं मम जन्मराशि वशात् नामराशि वशात् जन्मनक्षत्र वशात् नामनक्षत्र वशात् षड्बल वेद वशात् नित्य गोचार वेद वशात् मम ये ये ग्रहाः अरिष्ट स्थानेषु स्थिताः स्तैः स्तैः क्रियमान कर्ममान वर्तमान वर्तिष्यमान सूचित भावित आगामित दुष्टारिष्ट परिहार द्वारा आयुष्य अभिवृद्ध्यर्थं मम रमा परिवार समेत सत्यनारायण स्वामि अनुग्रह सिद्ध्यर्थं रमा परिवार समेत सत्यनारायण स्वामि प्रसादेन मम गृहे स्थिरलक्ष्मी प्राप्त्यर्थं मम रमापरिवार समेत श्री सत्यनारायण स्वामि व्रत पूजां च करिष्ये । तदंग गणपत्यादि पंचलोकपालकपूजां, आदित्यादि नवग्रह पूजां, इंद्रादि अष्टदिक्पालकपूजां च करिष्ये ।
आदौ व्रतांग देवताराधनं करिष्ये ।
वरुण पूज इ॒मं मे॑ वरुण श्रुधी॒ हव॑ म॒द्या च॑ मृडय । त्वाम॑व॒स्यु राच॑के । ॐ भूः वरुणमावाहयामि स्थापयामि पूजयामि ।
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् । वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः । (तै.ब्रा.2.8.8.8) स॒तश्च॒ योनि॒मस॑तश्च॒ विवः ॥ ॐ ब्रह्ममावाहयामि स्थापयामि पूजयामि ।
पंचलोक पालक पूज
1. गणपति ॐ ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवार समेतं गणपतिं-लोँकपालकं आवाहयामि स्थापयामि पूजयामि ।
2. ब्रह्म ॐ ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् । श्ये॒नोगृध्रा॑णा॒ग्॒स्वधि॑ति॒र्वना॑ना॒ग्ं॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्॑ ॥ सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवार समेतं ब्रह्माणं-लोँकपालकं आवाहयामि स्थापयामि पूजयामि ।
3. विष्णु ॐ इ॒दं-विँष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्यपाग्ं सु॒रे ॥ सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवार समेतं विष्णुं-लोँकपालकं आवाहयामि स्थापयामि पूजयामि ।
4. रुद्र ॐ कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से। वो॒चेम॒ शंत॑मं हृ॒दे ॥ (ऋ.1.43.1) सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवार समेतं रुद्रं-लोँकपालकं आवाहयामि स्थापयामि पूजयामि ।
5. गौरि ॐ गौ॒रीर्मिमा॑य सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा पर॒मे व्यो॑मन्न् ॥ (ऋ.1.161.41) सांगं सायुधं सवाहनं सशक्तिं पतिपुत्रपरिवार समेतं गौरीं-लोँकपालकीं आवाहयामि स्थापयामि पूजयामि ।
गणेशादि पंचलोकपालक देवताभ्यो नमः । ध्यायामि, आवाहयामि, आसनं समर्पयामि, पाद्यं समर्पयामि, अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि, स्नानं समर्पयामि, शुद्धाचमनीयं समर्पयामि, वस्त्रं समर्पयामि, यज्ञोपवीतं समर्पयामि, गंधं समर्पयामि, अक्षतान् समर्पयामि, पुष्पाणि समर्पयामि, धूपमाघ्रापयामि, दीपं दर्शयामि, नैवेद्यं समर्पयामि, तांबूलं समर्पयामि, मंत्रपुष्पं समर्पयामि । गणेशादि पंचलोकपालक देवता प्रसाद सिद्धिरस्तु ॥
नवग्रह पूज
1. सूर्य ग्रहं ॐ आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑च । हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒भुव॑ना वि॒पश्यन्॑ ॥ ॐ भूर्भुवस्सुवः सूर्यग्रहे आगच्छ ।
सूर्यग्रहं रक्तवर्णं रक्तगंधं रक्तपुष्पं रक्तमाल्यांबरधरं रक्तच्छत्र ध्वजपताकादि शोभितं दिव्यरथसमारुढं मेरुं प्रदक्षिणी कुर्वाणं प्राङ्मुखं पद्मासनस्थं द्विभुजं सप्ताश्वं सप्तरज्जुं कलिंगदेशाधिपतिं काश्यपसगोत्रं प्रभवसंवँत्सरे माघमासे शुक्लपक्षे सप्तम्यां भानुवासरे अश्विनी नक्षत्रे जातं सिंहराश्यधिपतिं किरीटिनं सुखासीनं पत्नीपुत्रपरिवार समेतं ग्रहमंडले प्रविष्ठमस्मिन्नधिकरणे वर्तुलाकारमंडले स्थापित स्वर्णप्रतिमारूपेण सूर्यग्रहमावाहयामि स्थापयामि पूजयामि ।
ॐ अ॒ग्निं दू॒तं-वृँ॑णीमहे॒ होता॑रं-विँ॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म्᳚ ॥ (ऋ.1.12.1) सूर्यग्रहस्य अधिदेवताः अग्निं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं सूर्यग्रहस्य दक्षिणतः अग्निमावाहयामि स्थापयामि पूजयामि ।
ॐ कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से। वो॒चेम॒ शंत॑मं हृ॒दे ॥ (ऋ.1.43.1) सूर्यग्रहस्य प्रत्यधिदेवताः रुद्रं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं सूर्यग्रहस्य उत्तरतः रुद्रमावाहयामि स्थापयामि पूजयामि ।
2. चंद्र ग्रहं ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ॥ ॐ भूर्भुवस्सुवः चंद्रग्रहे आगच्छ ।
चंद्रग्रहं श्वेतवर्णं श्वेतगंधं श्वेतपुष्पं श्वेतमाल्यांबरधरं श्वेतच्छत्र ध्वजपताकादिशोभितं दिव्यरथसमारूढं मेरुं प्रदक्षिणी कुर्वाणं दशाश्वरथवाहनं प्रत्यङ्मुखं द्विभुजं दंडधरं-याँमुनदेशाधिपतिं आत्रेयसगोत्रं सौम्य संवँत्सरे कार्तीकमासे शुक्लपक्षे पौर्णमास्यां इंदुवासरे कृत्तिका नक्षत्रे जातं कर्कटराश्यधिपतिं किरीटिनं सुखासीनं पत्नीपुत्रपरि वारसमेतं ग्रहमंडले प्रविष्ठमस्मिन्नधि करणे सूर्यग्रहस्य आग्नेयदिग्भागे समचतुरश्रमंडले स्थापित रजतप्रतिमा रूपेण चंद्रग्रहमावाहयामि स्थापयामि पूजयामि ।
ॐ अ॒प्सुमे॒ सोमो॑ अब्रवीदं॒तर्विश्वा॑नि भेष॒जा । अ॒ग्निंच॑ वि॒श्वशं॑भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥ चंद्रग्रहस्य अधिदेवताः अपं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं चंद्रग्रहस्य दक्षिणतः आपः आवाहयामि स्थापयामि पूजयामि ।
ॐ गौ॒री मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा᳚क्षरा पर॒मे व्यो॑मन्न् ॥ चंद्रग्रहस्य प्रत्यधिदेवताः गौरीं सांगं सायुधं सवाहनं सशक्तिं पतिपुत्रपरिवारसमेतं चंद्रग्रहस्य उत्तरतः गौरीं आवाहयामि स्थापयामि पूजयामि ॥
3. अंगारक ग्रहं ॐ अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाग्ंरेताग्ं॑सि जिन्वति ॥ ॐ भूर्भुवस्सुवः अंगारकग्रहे आगच्छ ।
अंगारक ग्रहं रक्तवर्णं रक्तगंधं रक्तपुष्पं रक्तमाल्यांबरधरं रक्तच्छत्रध्वजपताकादिशोभितं दिव्यरथसमारूढं मेरुं प्रदक्षिणी कुर्वाणं मेषवाहनं दक्षिणाभिमुखं चतुर्भुजं गदाशूलशक्तिधरं अवंती देशाधिपतिं भारद्वाजसगोत्रं राक्षसनाम संवँत्सरे आषाढमासे शुक्लपक्षे दशम्यां भौमवासरे अनूराधा नक्षत्रे जातं मेष वृश्चिक राश्याधिपतिं किरीटिनं सुखासीनं पत्नीपुत्रपरिवारसमेतं ग्रहमंडले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य दक्षिणदिग्भागे त्रिकोणाकारमंडले स्थापित ताम्रप्रतिमारूपेण अंगारकग्रहं आवाहयामि स्थापयामि पूजयामि ॥
ॐ स्यो॒ना पृ॑थिवि॒ भवा॑ऽनृक्ष॒रा नि॒वेश॑नी । यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥ अंगारकग्रहस्य अधिदेवताः पृथिवीं सांगं सायुधं सवाहनं सशक्तिं पुत्रपरिवारसमेतं अंगारकग्रहस्य दक्षिणतः पृथिवीं आवाहयामि स्थापयामि पूजयामि ।
ॐ क्षेत्र॑स्य॒ पति॑ना व॒यग्ंहि॒ते ने॑व जयामसि । गामश्वं॑ पोष् अयि॒त्न्वा स नो॑ मृडाती॒दृशे᳚ ॥ अंगारकग्रहस्य प्रत्यधिदेवताः क्षेत्रपालकं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं अंगारकग्रहस्य उत्तरतः क्षेत्रपालकमावाहयामि स्थापयामि पूजयामि ॥
4. बुध ग्रहं ॐ उद्बु॑ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टापू॒र्ते सग्ंसृ॑जेथाम॒यंच॑ । पुनः॑ कृ॒ण्वग्ग्स्त्वा॑ पि॒तरं॒-युँवा॑नम॒न्वाताग्ं॑सी॒त्त्वयि॒ तंतु॑मे॒तम् ॥ ॐ भूर्भुवस्सुवः बुधग्रहे आगच्छ ।
बुधग्रहं पीतवर्णं पीतगंधं पीतपुष्पं पीतमाल्यांबरधरं पीतच्छत्र ध्वजपताकादि शोभितं दिव्यरथसमारूढं मेरुं प्रदक्षिणी कुर्वाणं सिंहवाहनं उदङ्मुखं मगधदेशाधिपतिं चतुर्भुजं खड्गचर्मांबरधरं आत्रेयसगोत्रं अंगीरसनामसंवँत्सरे मार्गशीर्षमासे शुक्लपक्षे सप्तम्यां सौम्यवासरे पूर्वाभाद्रा नक्षत्रे जातं मिथुन कन्या राश्यधिपतिं किरीटिनं सुखासीनं पत्नीपुत्र परिवारसमेतं ग्रहमंडले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य ईशान्यदिग्भागे बाणाकारमंडले स्थापित कांस्यप्रतिमारूपेण बुधग्रहं आवाहयामि स्थापयामि पूजयामि ।
ॐ इ॒दं-विँष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्यपाग्ं सु॒रे ॥ विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒श्श्नप्त्रे᳚स्थो॒ विष्णो॒स्स्यूर॑सि॒ विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ बुधग्रहस्य अधिदेवताः विष्णुं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं बुधग्रहस्य दक्षिणतः विष्णुमावाहयामि स्थापयामि पूजयामि ।
ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशांगु॒लम् । बुधग्रहस्य प्रत्यधिदेवताः नारायणं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं बुधग्रहस्य उत्तरतः नारायणमावाहयामि स्थापयामि पूजयामि ।
5. बृहस्पति ग्रहं ॐ बृह॑स्पते॒ अति॒यद॒र्यो अर्हा᳚द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्चव॑सर्तप्रजात॒ तद॒स्मासु॒ द्रवि॑णंधेहि चि॒त्रम् ॥ ॐ भूर्भुवस्सुवः बृहस्पतिग्रहे आगच्छ ।
बृहस्पतिग्रहं कनकवर्णं कनकगंधं कनकपुष्पं कनकमाल्यांबरधरं कनकच्छत्र ध्वजपताकादिशोभितं दिव्यरथसमारूढं मेरुं प्रदक्षिणीकुर्वाणां पूर्वाभिमुखं पद्मासनस्थं चतुर्भुजं दंडाक्षमालाधारिणं सिंधु द्वीपदेशाधिपतिं आंगीरसगोत्रं आंगीरससंवँत्सरे वैशाखेमासे शुक्लपक्षे एकादश्यां गुरुवासरे उत्तरा नक्षत्रे जातं धनुर्मीनराश्यधिपतिं किरीटिनं सुखासीनं पत्नीपुत्रपरिवारसमेतं ग्रहमंडले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य उत्तरदिग्भागे दीर्घचतुरस्राकारमंडले स्थापित त्रपुप्रतिमारूपेण बृहस्पतिग्रहं आवाहयामि स्थापयामि पूजयामि ।
ॐ ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः । सबु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥ बृहस्पतिग्रहस्य अधिदेवतां ब्रह्माणं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं बृहस्पतिग्रहस्य दक्षिणतः ब्रह्माणमावाहयामि स्थापयामि पूजयामि ।
ॐ इंद्र॑मरुत्व इ॒ह पा॑हि॒ सोमं॒-यँथा॑ शार्या॒ते अपि॑बस्सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒शर्म॒न्नावि॑वासंति क॒वय॑स्सुय॒ज्ञाः ॥ बृहस्पतिग्रहस्य प्रत्यधिदेवताः इंद्रं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं बृहस्पतिग्रहस्य उत्तरतः इंद्रमावाहयामि स्थापयामि पूजयामि ।
6. शुक्र ग्रहं ॐ शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ । (तै.आ.1.2.4.1) ॐ भूर्भुवस्सुवः शुक्रग्रहे आगच्छ ।
शुक्रग्रहं श्वेतवर्णं श्वेतगंधं श्वेतपुष्पं श्वेतमाल्यांबरधरं श्वेतच्छत्र ध्वजपताकादिशोभितं दिव्यरथसमारूढं मेरुं प्रदक्षिणी कुर्वाणं पूर्वाभिमुखं पद्मासंथं चतुर्भुजं दंडाक्षमाला जटावल्कल धारिणिं कांभोज देशाधिपतिं भार्गवसगोत्रं पार्थिवसंवँत्सरे श्रावणमासे शुक्लपक्षे अष्टम्यां भृगुवासरे स्वाती नक्षत्रे जातं तुला वृषभराश्यधिपतिं किरीटिनं सुखासीनं पत्नीपुत्रपरिवार समेतं ग्रहमंडले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य प्राग्भागे पंचकोणाकार मंडले स्थापित सीस प्रतिमारूपेण शूक्रग्रहं आवाहयामि स्थापयामि पूजयामि ।
ॐ इं॒द्रा॒णीमा॒सु नारि॑षु सु॒पत्.ंई॑म॒हम॑श्रवम् । न ह्य॑स्या अप॒रंच॒न ज॒रसा॒ मर॑ते॒ पतिः॑ ॥ शुक्रग्रहस्य अधिदेवतां इंद्राणीं सांगां सायुधां सवाहनं सशक्तिं पतिपुत्रपरिवारसमेतां शुक्रग्रहस्य दक्षिणतः इंद्राणीं आवाहयामि स्थापयामि पूजयामि ।
ॐ इंद्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒-यँथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासंति क॒वयः॑ सुय॒ज्ञाः ॥ (ऋ.3.51.7) शुक्रग्रहस्य प्रत्यधिदेवतां इंद्रमरुत्वंतं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं शुक्रग्रहस्य उत्तरतः इंद्रमरुत्वंतमावाहयामि स्थापयामि पूजयामि ।
7. शनि ग्रहं ॐ शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ । शं-वाँतो॑ वात्वर॒पा अप॒ स्त्रिधः॑ ॥ (ऋ.8.12.9) ॐ भूर्भुवस्सुवः शनैश्चरग्रहे आगच्छ ।
शनैश्चरग्रहं नीलवर्णं नीलगंधं नीलपुष्पं नीलमाल्यांबरधरं नीलच्छत्र ध्वजपताकादिशोभितं दिव्यरथसमारूढं मेरुं प्रदक्षिणी कुर्वाणं चापासनस्थं प्रत्यङ्मुखं गृद्ररथं चतुर्भुजं शूलायुधधरं सौराष्ट्रदेशाधिपतिं काश्यपसगोत्रं-विँश्वामित्र ऋषिं-विँभव संवँत्सरे पौष्यमासे शुक्लपक्षे नवम्यां स्थिरवासरे भरणी नक्षत्रे जातं मकुर कुंभ राश्यधिपतिं किरीटिनं सुखासीनं पत्नीपुत्रपरिवारसमेतं ग्रहमंडले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य पश्चिमदिग्भागे धनुराकारमंडले स्थापित अयः प्रतिमारूपेण शनैश्चरग्रहमावाहयामि स्थापयामि पूजयामि ।
ॐ-यँ॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥ (ऋ.10.14.13) शनैश्चरग्रहस्य अधिदेवतां-यँमं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं शनैश्चरग्रहस्य दक्षिणतः यमं आवाहयामि स्थापयामि पूजयामि ।
ॐ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ (ऋ.10.121.10) शनैश्चरग्रहस्य प्रत्यधिदेवतां प्रजापतिं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं शनैश्चरग्रहस्य उत्तरतः प्रजापतिमावाहयामि स्थापयामि पूजयामि ।
8. राहु ग्रहं ॐ कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा᳚ । कया॒ शचि॑ष्ठया वृ॒ता ॥ ॐ भूर्भुवस्सुवः राहुग्रहे आगच्छ ।
राहुग्रहं धूम्रवर्णं धूम्रगंधं धूम्रपुष्पं धूम्रमाल्यांबरधरं धूम्रच्छत्र ध्वजपताकादिशोभितं दिव्यरथसमारूढं मेरुं अप्रदक्षिणी कुर्वाणं सिंहासनं नैऋति मुखं शूर्पासनस्थं चतुर्भुजं करालवक्त्रं खड्गचर्म धरं पैठीनसगोत्रं बर्बरदेशाधिपतिं राक्षसनामसंवँत्सरे भाद्रपदमासे कृष्ण पक्षे चतुर्दश्यां भानुवासरे विशाखा नक्षत्रे जातं सिंहराशि प्रयुक्तं किरीटिनं सुखासीनं सशक्तिं पत्नीपुत्रपरिवारसमेतं ग्रहमंडले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य नैऋतिदिग्भागे शूर्पाकार मंडले स्थापित लोहप्रतिमा रूपेण राहुग्रहमावाहयामि स्थापयामि पूजयामि ।
ॐ आऽयंगौः पृश्नि॑रक्रमी॒दस॑नन्मा॒तरं॒ पुनः॑ । पि॒तरं॑च प्र॒यंत्सुवः॑ ॥ राहुग्रहस्य अधिदेवतां गां सांगं सायुधं सवाहनां सशक्तिं पतिपुत्रपरिवारसमेतं राहुग्रहस्य दक्षिणतः गां आवाहयामि स्थापयामि पूजयामि ।
ॐ नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीं अनु॑ । ये अं॒तरि॑क्षे॒ ये दिवि॒ तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑ ॥ राहुग्रहस्य प्रत्यधिदेवतां सर्पं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं राहुग्रहस्य उत्तरतः सर्पमावाहयामि स्थापयामि पूजयामि ।
9. केतु ग्रहं ॐ के॒तुंकृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ । समु॒षद्भि॑रजायथाः ॥ ॐ भूर्भुवस्सुवः केतुगणैः आगच्छ ।
केतुगणं चित्रवर्णं चित्रगंधं चित्रपुष्पं चित्रमाल्यांबरधरं चित्रच्छत्र ध्वजपताकादिशोभितं दिव्यरथसमारूढं मेरुं अप्रदक्षिणी कुर्वाणं ध्वजासनस्थं दक्षिणाभिमुखं अंतर्वेदि देशाधिपतिं द्विबाहुं गदाधरं जैमिनि गोत्रं राक्षसनाम संवँत्सरे चैत्रमासे कृष्णपक्षे चतुर्दश्यां इंदुवासरे रेवती नक्षत्रेजातं कर्कटकराशि प्रयुक्तं सिंहासनासीनं ग्रहमंडले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य वायव्य दिग्भागे ध्वजाकार मंडले स्थापित पंचलोह प्रतिमारूपेण केतुगणमावाहयामि स्थापयामि पूजयामि ।
ॐ सचि॑त्र चि॒त्रं चि॒तयन्᳚तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं-वँयो॒धाम् । चं॒द्रं र॒यिं पु॑रु॒वीरम्᳚ बृ॒हंतं॒ चंद्र॑चं॒द्राभि॑र्गृण॒ते यु॑वस्व ॥ केतुगणस्य अधिदेवतां चित्रगुप्तं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं केतुगणस्य दक्षिणतः चित्रगुप्तमावाहयामि स्थापयामि पूजयामि ।
ॐ ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् । श्ये॒नोगृध्रा॑णा॒ग्॒स्वधि॑ति॒र्वना॑ना॒ग्ं॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्॑ ॥ केतुगणस्य प्रत्यधिदेवतां ब्रह्माणं सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं केतुग्रहस्य उत्तरतः ब्रह्माणमावाहयामि स्थापयामि पूजयामि ।
अधिदेवता प्रत्यधिदेवता सहितादित्यादि नवग्रह देवताभ्यो नमः ध्यायामि, आवहयामि, रत्नसिंहासनं समर्पयामि, पाद्यं समर्पयामि, अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि, स्नानं समर्पयामि, शुद्धाचमनीयं समर्पयामि, वस्त्रं समर्पयामि, यज्ञोपवीतं समर्पयामि, गंधं समर्पयामि, अक्षतान् समर्पयामि, पुष्पाणि समर्पयामि, धूपमाघ्रापयामि, दीपं समर्पयामि, नैवेद्यं समर्पयामि, तांबूलं समर्पयामि, मंत्रपुष्पं समर्पयामि ।
अधिदेवता प्रत्यधिदेवतासहितादित्यादि नवग्रह देवता प्रसादसिद्धिरस्तु ।
इंद्रादि अष्टदिक्पालक पूज
1. इंद्रुडु ॐ इंद्रं॑-वोँ वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ॥ (ऋ.वे.1.7.10) सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं प्राग्दिग्भागे इंद्रं दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥
2. अग्नि ॐ अ॒ग्निं दू॒तं-वृँ॑णीमहे॒ होता॑रं-विँ॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥ (ऋ.वे.1.12.1) सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं आग्नेयदिग्भागे अग्निं दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥
3. यमुडु ॐ-यँ॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥ (ऋ.10.14.13) सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं दक्षिणदिग्भागे यमं दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥
4. निऋति ॐ मॊ षु णः॒ परा॑परा॒ निर्ऋ॑तिर्दु॒र्हणा॑ वधीत् । प॒दी॒ष्ट तृष्ण॑या स॒ह ॥ (ऋ.1.38.06) सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं नैऋतिदिग्भागे निर्ऋतिं दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥
5. वरुणुडु ॐ इ॒मं मे॑ वरुण श्रुधी॒ हव॑ म॒द्या च॑ मृडय । त्वाम॑व॒स्यु राच॑के । सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं पश्चिमदिग्भागे वरुणं दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥
6. वायुवु ॐ तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत । अवां॒स्या वृ॑णीमहे । (ऋ.8.21.20) सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं-वाँयुव्यदिग्भागे वायुं दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥
7. कुबेरुडु ॐ सोमो॑ धे॒नुं सोमो॒ अर्वं॑तमा॒शुं सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति । सा॒द॒न्यं॑-विँद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒-योँ ददा॑शदस्मै ॥ (ऋ.1.91.20) सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं उत्तरदिग्भागे कुबेरं दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥
8. ईशानुडु ॐ तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥ (ऋ.1.89.5) सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं ईशानदिग्भागे ईशानं दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥
इंद्रादि अष्टदिक्पालकदेवताभ्यो नमः ध्यायामि, आवहयामि, रत्नसिंहासनं समर्पयामि, पाद्यं समर्पयामि, अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि, स्नानं समर्पयामि, शुद्धाचमनीयं समर्पयामि, वस्त्रं समर्पयामि, यज्ञोपवीतं समर्पयामि, गंधं समर्पयामि, अक्षतान् समर्पयामि, पुष्पाणि समर्पयामि, धूपमाघ्रापयामि, दीपं समर्पयामि, नैवेद्यं समर्पयामि, तांबूलं समर्पयामि, मंत्रपुष्पं समर्पयामि ।
इंद्रादि अष्टदिक्पालक देवता प्रसादसिद्धिरस्तु ।
षोडशोपचार पूज
पंचामृत स्नानं 1. आप्यायस्येति क्षीरं (milk) – ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ॥ क्षीरेण स्नपयामि ॥
2. दधिक्राव्णो इति दधि (yogurt) – ॐ द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒रभि नो॒ मुखा॑ कर॒त्प्रण॒ आयूग्ं॑षि तारिषत् ॥ दध्ना स्नपयामि ॥
3. शुक्रमसीति आज्यं (ghee) – ॐ शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒तु अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ । आज्येन स्नपयामि ॥
4. मधुवाता ऋतायते इति मधु (honey) – ॐ मधु॒वाता॑ ऋताय॒ते मधु॑क्षरंति॒ सिंध॑वः । माध्वी᳚र्नः सं॒त्वौष॑धीः । मधु॒नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रजः॑ । मधु॒द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्ं अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवंतु नः । मधुना स्नपयामि ॥
5. स्वादुः पवस्येति शर्करा (sugar) – ॐ स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने । स्वा॒दुरिंद्रा᳚य सु॒हवी᳚तु नाम्ने । स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ । बृह॒स्पत॑ये॒ मधु॑मां॒ अदा᳚भ्यः । शर्करेण स्नपयामि ॥
फलोदकं (coconut water) याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणीः॑ । बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुन्चं॒त्वग्ं ह॑सः ॥ फलोदकेन स्नपयामि ॥
(take the Vishnu image out and wash it with clean water, while reciting the following) शुद्धोदकं ॐ आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ । उ॒श॒तीरि॑व मा॒त॑रः । तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः । शुद्धोदकेन स्नपयामि ।
(wipe the Vishnu image with a fresh cloth, decorate it with Gandham and Kumkuma, keep it in a betal leaf and place it in the Mandapa close to the Kalasha)
ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥ ॐ म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि । तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥
अस्मिन्कलशे अस्यां प्रतिमायां श्रीरमासहित सत्यनारायण स्वामिन् आवाहयामि स्थापयामि पूजयामि ॥
प्राणप्रतिष्ठापनं ॐ अस्य श्री प्राणप्रतिष्ठापन महामंत्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः, ऋग्यजुस्सामाथर्वाणि छंदांसि, प्राणश्शक्तिः, परा देवता, आं बीजं, ह्रीं शक्तिः, क्रों कीलकं, श्रीरमासहित सत्यनारायण स्वामि देवता प्राणप्रतिष्ठार्थे विनियोगः ।
करन्यासं ॐ आं अंगुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ क्रों मध्यमाभ्यां नमः । ॐ आं अनामिकाभ्यां नमः । ॐ ह्रीं कनिष्ठिकाभ्यां नमः । ॐ क्रों करतल करपृष्ठाभ्यां नमः ।
अंगन्यासं ॐ आं हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ क्रों शिखयै वषट् । ॐ आं कवचाय हुम् । ॐ ह्रीं नेत्रत्रयाय वौषट् । ॐ क्रों अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बंधः ॥
ध्यानं रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः । पाशं कोदंडमिक्षूद्भवमलिगुणमप्यंकुशं चापबाणाम् । बिभ्राणा सृक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्या । देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ।
ॐ शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाकारं गगनसदृशं मेघवर्णं शुभांगम् । लक्ष्मीकांतं कमलनयनं-योँगिहृद्ध्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
ॐ आं ह्रीं क्रों क्रों ह्रीं आं-यंँ रं-लंँ वं शं षं सं हं-लंँ क्षं हं सः सोऽहम् । अस्यां मूर्तौ श्री रमासहित सत्यनारायण स्वामि देवता प्राणः इह प्राणः । श्री रमासहित सत्यनारायण स्वामि देवता जीवः इहः स्थितः । अस्यां मूर्तौ श्री रमासहित सत्यनारायणस्य सर्वेंद्रियाणि वाङ्मनः त्वक् चक्षुः श्रोत्र जिह्वा घ्राण वाक्पाणिपाद पायूपस्थानि इहैवागत्य सुखं चिरं तिष्टंतु स्वाहा ।
ॐ असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चरं᳚त॒ मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥ अ॒मृतं॒-वैँ प्रा॒णा अ॒मृत॒मापः॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥ आवाहितो भव स्थापितो भव । सुप्रसन्नो भव वरदो भव ।
स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् । तावत्त्वं प्रीतिभावेन कलशेऽस्मिन् सन्निधिं कुरु ॥
सांगं सायुधं सवाहनं सशक्तिं पत्नीपुत्रपरिवारसमेतं श्री रमासहित सत्यनारायण स्वामिने नमः आवाहयामि स्थापयामि पूजयामि ॥
ध्यानं ध्यायेत्सत्यं गुणातीतं गुणत्रयसमन्वितम् । लोकनाथं त्रिलोकेशं कौस्तुभाभरणं हरिम् ॥ पीतांबरं नीलवर्णं श्रीवत्स पदभूषितम् । गोविंदं गोकुलानंदं ब्रह्माद्यैरपि पूजितम् ॥ श्री रमासहित सत्यनारायण स्वामिने नमः ध्यानं समर्पयामि ॥
आवाहनं ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशांगु॒लम् । ज्योतिश्शांतं सर्वलोकांतरस्थं ॐकाराख्यं-योँगिहृद्ध्यानगम्यम् । सांगं शक्तिं सायुधं भक्तिसेव्यं सर्वाकारं-विँष्णुमावाहयामि ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः आवाहनं समर्पयामि ।
आसनं पुरु॑ष ए॒वेदग्ं सर्वम्᳚ । यद्भू॒तं-यँच्च॒ भव्यम्᳚ । उ॒तामृ॑त॒त्वस्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति । कल्पद्रुमूले मणिवेदिमध्ये सिंहासनं स्वर्णमयं-विँचित्रम् । विचित्र वस्त्रावृतमच्युत प्रभो गृहाण लक्ष्मीधरणीसमेत ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः आसनं समर्पयामि ।
पाद्यं ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः । पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । नारायण नमस्तेऽस्तु नरकार्णवतारक । पाद्यं गृहाण देवेश मम सौख्यं-विँवर्थय ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यं त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ । ततो॒ विष्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि । व्यक्ताऽव्यक्त स्वरूपाय हृषीकपतये नमः । मया निवेदितो भक्त्याह्यर्घ्योऽयं प्रतिगृह्यताम् ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयं तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः । मंदाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् । तदिदं कल्पितं देव सम्यगाचम्यतां-विँभो ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः मुखे आचमनीयं समर्पयामि ।
स्नानं यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒सं॒तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
पंचामृत स्नानं आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः क्षीरेण स्नपयामि ।
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त्प्राण॒ आयूग्ं॑षि तारिषत् ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः दध्ना स्नपयामि ।
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒तु अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ । ॐ श्री रमासहित सत्यनारायण स्वामिने नमः आज्येन स्नपयामि ।
मधु॒वाता॑ ऋताय॒ते मधु॑क्षरंति॒ सिंध॑वः । माध्वी᳚र्नः सं॒त्वौष॑धीः । मधु॒नक्त॑मु॒तोष॑सि॒ मधु॑म॒त् पार्थि॑व॒ग्ं॒रजः॑ । मधु॒द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्ं अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवंतु नः । ॐ श्री रमासहित सत्यनारायण स्वामिने नमः मधुना स्नपयामि ।
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने । स्वा॒दुरिंद्रा᳚य सु॒हवी᳚तु नाम्ने । स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ । बृह॒स्पत॑ये॒ मधु॑मां॒ अदा᳚भ्यः । ॐ श्री रमासहित सत्यनारायण स्वामिने नमः शर्करेण स्नपयामि ।
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणीः॑ । बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुन्चं॒त्वग्ं ह॑सः ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः फलोदकेन स्नपयामि ।
शुद्धोदक स्नानं आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ । उ॒श॒तीरि॑व मा॒त॑रः । तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।
तीर्थोदकैः कांचनकुंभ संस्थैः सुवासितैर्देव कृपारसार्द्रैः । मयार्पितं स्नानविधिं गृहाण पादाब्जनिष्य्टूत नदीप्रवाहः ।
नदीनां चैव सर्वासामानीतं निर्मलोदकम् । स्नानं स्वीकुरु देवेश मया दत्तं सुरेश्वर ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानंतरं शुद्ध आचमनीयं समर्पयामि ॥
वस्त्रं स॒प्तास्या॑सन्परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑षं प॒शुम् । वेदसूक्तसमायुक्ते यज्ञसाम समन्विते । सर्ववर्णप्रदे देव वास शीते विनिर्मिते ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः वस्त्रयुग्मं समर्पयामि ।
यज्ञोपवीतं तं-यँ॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अय॑जंत । सा॒ध्या ऋष॑यश्च॒ ये । ब्रह्म विष्णु महेशानां निर्मितं ब्रह्मसूत्रकम् । गृहाण भगवन्विष्णो सर्वेष्टफलदो भव ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः यज्ञोपवीतं समर्पयामि ।
गंधं तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । संभृ॑तं पृषदा॒ज्यम् । प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये । श्रीखंडं चंदनं दिव्यं गंधाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः दिव्य श्री चंदनं समर्पयामि ।
आभरणं तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे । छंदाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत । हिरण्य हार केयूर ग्रैवेय मणिकंकणैः । सुहारं भूषणैर्युक्तं गृहाण पुरुषोत्तम ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः सर्वाभरणानि समर्पयामि ।
पुष्पाणि तस्मा॒दश्वा॑ अजायंत । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ । मल्लिकादि सुगंधीनि मालत्यादीनि वै प्रभो । मयाऽहृतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम् । ॐ श्री रमासहित सत्यनारायण स्वामिने नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
अथांग पूज ॐ केशवाय नमः पादौ पूजयामि । ॐ गोविंदाय नमः गुल्फौ पूजयामि । ॐ इंदिरापतये नमः जंघे पूजयामि । ॐ अनघाय नमः जानुनी पूजयामि । ॐ जनार्दनाय नमः ऊरू पूजयामि । ॐ-विँष्टरश्रवसे नमः कटिं पूजयामि । ॐ पद्मनाभाय नमः नाभिं पूजयामि । ॐ कुक्षिस्थाखिलभुवनाय नमः उदरं पूजयामि । ॐ-लँक्ष्मीवक्षस्स्थलालयाय नमः वक्षस्थलं पूजयामि । ॐ शंखचक्रगदाशार्ङ्गपाणये नमः बाहून् पूजयामि । ॐ कंबुकंठाय नमः कंठं पूजयामि । ॐ पूर्णेंदुनिभवक्त्राय नमः वक्त्रं पूजयामि । ॐ कुंदकुट्मलदंताय नमः दंतान् पूजयामि । ॐ नासाग्रमौक्तिकाय नमः नासिकां पूजयामि । ॐ रत्नकुंडलाय नमः कर्णौ पूजयामि । ॐ सूर्यचंद्राग्निधारिणे नमः नेत्रे पूजयामि । ॐ सुललाटाय नमः ललाटं पूजयामि । ॐ सहस्रशिरसे नमः शिरः पूजयामि । श्री रमासहित श्री सत्यनारायण स्वामिने नमः सर्वाण्यंगानि पूजयामि ॥
श्री सत्यनारायण अष्टोत्तरशत नाम पूजा ॐ नारायणाय नमः । ॐ नराय नमः । ॐ शौरये नमः । ॐ चक्रपाणये नमः । ॐ जनार्दनाय नमः । ॐ-वाँसुदेवाय नमः । ॐ जगद्योनये नमः । ॐ-वाँमनाय नमः । ॐ ज्ञानपंजराय नमः (10) ॐ श्रीवल्लभाय नमः । ॐ जगन्नाथाय नमः । ॐ चतुर्मूर्तये नमः । ॐ-व्योँमकेशाय नमः । ॐ हृषीकेशाय नमः । ॐ शंकराय नमः । ॐ गरुडध्वजाय नमः । ॐ नारसिंहाय नमः । ॐ महादेवाय नमः । ॐ स्वयंभुवे नमः । ॐ भुवनेश्वराय नमः (20) ॐ श्रीधराय नमः । ॐ देवकीपुत्राय नमः । ॐ पार्थसारथये नमः । ॐ अच्युताय नमः । ॐ शंखपाणये नमः । ॐ परंज्योतिषे नमः । ॐ आत्मज्योतिषे नमः । ॐ अचंचलाय नमः । ॐ श्रीवत्सांकाय नमः । ॐ अखिलाधाराय नमः (30) ॐ सर्वलोकप्रतिप्रभवे नमः । ॐ त्रिविक्रमाय नमः । ॐ त्रिकालज्ञानाय नमः । ॐ त्रिधाम्ने नमः । ॐ करुणाकराय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वगाय नमः । ॐ सर्वस्मै नमः । ॐ सर्वेशाय नमः । ॐ सर्वसाक्षिकाय नमः (40) ॐ हरये नमः । ॐ शारंगिणे नमः । ॐ हराय नमः । ॐ शेषाय नमः । ॐ हलायुधाय नमः । ॐ सहस्रबाहवे नमः । ॐ अव्यक्ताय नमः । ॐ सहस्राक्षाय नमः । ॐ अक्षराय नमः । ॐ क्षराय नमः (50) ॐ गजारिघ्नाय नमः । ॐ केशवाय नमः । ॐ केशिमर्दनाय नमः । ॐ कैटभारये नमः । ॐ अविद्यारये नमः । ॐ कामदाय नमः । ॐ कमलेक्षणाय नमः । ॐ हंसशत्रवे नमः । ॐ अधर्मशत्रवे नमः । ॐ काकुत्थ्साय नमः (60) ॐ खगवाहनाय नमः । ॐ नीलांबुदद्युतये नमः । ॐ नित्याय नमः । ॐ नित्यतृप्ताय नमः । ॐ नित्यानंदाय नमः । ॐ सुराध्यक्षाय नमः । ॐ निर्विकल्पाय नमः । ॐ निरंजनाय नमः । ॐ ब्रह्मण्याय नमः । ॐ पृथिवीनाथाय नमः (70) ॐ पीतवाससे नमः । ॐ गुहाश्रयाय नमः । ॐ-वेँदगर्भाय नमः । ॐ-विँभवे नमः । ॐ-विँष्णवे नमः । ॐ श्रीमते नमः । ॐ त्रैलोक्यभूषणाय नमः । ॐ-यँज्ञमूर्तये नमः । ॐ अमेयात्मने नमः । ॐ-वँरदाय नमः (80) ॐ-वाँसवानुजाय नमः । ॐ जितेंद्रियाय नमः । ॐ जितक्रोधाय नमः । ॐ समदृष्टये नमः । ॐ सनातनाय नमः । ॐ भक्तप्रियाय नमः । ॐ जगत्पूज्याय नमः । ॐ परमात्मने नमः । ॐ असुरांतकाय नमः । ॐ सर्वलोकानामंतकाय नमः (90) ॐ अनंताय नमः । ॐ अनंतविक्रमाय नमः । ॐ मायाधाराय नमः । ॐ निराधाराय नमः । ॐ सर्वाधाराय नमः । ॐ धराधाराय नमः । ॐ निष्कलंकाय नमः । ॐ निराभासाय नमः । ॐ निष्प्रपंचाय नमः । ॐ निरामयाय नमः (100) ॐ भक्तवश्याय नमः । ॐ महोदाराय नमः । ॐ पुण्यकीर्तये नमः । ॐ पुरातनाय नमः । ॐ त्रिकालज्ञाय नमः । ॐ-विँष्टरश्रवसे नमः । ॐ चतुर्भुजाय नमः । ॐ श्रीसत्यनारायणस्वामिने नमः (108)
धूपं यत्पुरु॑षं॒-व्यँ॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् । मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते । दशांगं गुग्गुलोपेतं सुगंधं सुमनोहरम् । धूपं गृहाण देवेश सर्वदेव नमस्कृत ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः धूपमाघ्रापयामि ।
दीपं ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायत । घृता त्रिवर्ति संयुँक्तं-वँह्निना यॊजितं प्रियम् । दीपं गृहाण देवेश त्रैलोक्य तिमिरापहम् ॥ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने । त्राहि मां नरकाद्घोरात् दीपज्योतिर्नमोऽस्तु ते ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः दीपं समर्पयामि ।
नैवेद्यं चं॒द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत । मुखा॒दिंद्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ।
सौवर्णस्थालिमध्ये मणिगणखचिते गोघृताक्तान् सुपक्वान् । भक्ष्यान् भोज्यांश्च लेह्यानपरिमितरसान् चोष्यमन्नं निधाय ॥ नानाशाकैरुपेतं दधि मधु स गुड क्षीर पानीययुक्तम् । तांबूलं चापि विष्णोः प्रतिदिवसमहं मानसे कल्पयामि ॥ राजान्नं सूप संयुँक्तं शाकचोष्य समन्वितम् । घृत भक्ष्य समायुक्तं नैवेद्यं प्रतिगृह्यताम् ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः महानैवेद्यं समर्पयामि ।
ॐ भूर्भुव॒स्सुवः॒ । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धि॒यो यो नः॑ प्रचो॒दया᳚त् ॥ सत्यं त्वा ऋतेन परिषिंचामि (ऋतं त्वा सत्येन परिषिंचामि) अमृतमस्तु । अमृतोपस्तरणमसि । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ-व्याँनाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । मध्ये मध्ये पानीयं समर्पयामि । अमृतापिधानमसि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । मुखे शुद्धाचमनीयं समर्पयामि ।
तांबूलं नाभ्या॑ आसीदं॒तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन्न् । पूगीफलैः स कर्पूरैः नागवल्ली दलैर्युतम् । मुक्ताचूर्ण समायुक्तं तांबूलं प्रतिगृह्यताम् ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः तांबूलं समर्पयामि ।
नीराजनं (stand up) वेदा॒हमे॒तं पुरु॑षं म॒हांतम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ।
नर्य॑ प्र॒जां मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसे᳚ । जा॒तां ज॑नि॒ष्यमा॑णां च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम् । अथ॑र्व पि॒तुं मे॑ गोपाय । रस॒मन्न॑मि॒हायु॑षे । अद॑ब्धा॒योऽशी॑ततनो । अवि॑षं नः पि॒तुं कृ॑णु । शग्ग्ंस्य॑ प॒शून्मे॑ गोपाय । द्वि॒पदो॒ ये चतु॑ष्पदः ॥ (तै.ब्रा.1.2.1.25) अ॒ष्टाश॑फाश्च॒ य इ॒हाग्ने᳚ । ये चैक॑शफा आशु॒गाः । सप्रथ स॒भां मे॑ गोपाय । ये च॒ सभ्याः᳚ सभा॒सदः॑ । तानिं॑द्रि॒याव॑तः कुरु । सर्व॒मायु॒रुपा॑सताम् । अहे॑ बुध्निय॒ मंत्रं॑ मे गोपाय । यमृष॑यस्त्रैवि॒दा वि॒दुः । ऋचः॒ सामा॑नि॒ यजूग्ं॑षि । सा हि श्रीर॒मृता॑ स॒ताम् ॥ (तै.ब्रा.1.2.1.26)
मा नो हिग्ंसीज्जातवेदो गामश्वं पुरुषं जगत् । अभिभ्र दग्न आगहि श्रिया मा परिपातय ॥ सम्राजं च विराजं चाऽभि श्रीर्याच नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा सग्ं सृजामसि ॥ संतत श्रीरस्तु सर्वमंगलानि भवंतु नित्यश्रीरस्तु नित्यमंगलानि भवंतु ॥
नीराजनं गृहाणेदं पंचवर्ति समन्वितम् । तेजोराशिमयं दत्तं गृहाण त्वं सुरेश्वर ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः कर्पूर नीराजनं समर्पयामि । नीराजनानंतरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।
मंत्रपुष्पं धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पंथा॒ अय॑नाय विद्यते ।
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः सुवर्ण दिव्य मंत्रपुष्पं समर्पयामि ।
आत्मप्रदक्षिण नमस्कारं यानिकानि च पापानि जन्मांतरकृतानि च तानि तानि प्रणश्यंति प्रदक्षिण पदे पदे । पापोऽहं पापकर्माऽहं पापात्मा पापसंभव । त्राहिमां कृपया देव शरणागतवत्सला । अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष रक्ष सत्येश्वर ।
प्रदक्षिणं करिष्यामि सर्वभ्रमनिवारणम् । संसारसागरान्मां त्वं उद्धरस्य महाप्रभो ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
साष्टांग नमस्कारं उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टांगमुच्यते ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः साष्टांग नमस्कारां समर्पयामि ।
सर्वोपचाराः ॐ श्री रमासहित सत्यनारायण स्वामिने नमः छत्रं आच्छादयामि । ॐ श्री रमासहित सत्यनारायण स्वामिने नमः चामरैर्वीजयामि । ॐ श्री रमासहित सत्यनारायण स्वामिने नमः नृत्यं दर्शयामि । ॐ श्री रमासहित सत्यनारायण स्वामिने नमः गीतं श्रावयामि । ॐ श्री रमासहित सत्यनारायण स्वामिने नमः आंदोलिकान्नारोहयामि । ॐ श्री रमासहित सत्यनारायण स्वामिने नमः अश्वानारोहयामि । ॐ श्री रमासहित सत्यनारायण स्वामिने नमः गजानारोहयामि । समस्त राजोपचारान् देवोपचारान् समर्पयामि ।
क्षमाप्रार्थन यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं संपूर्णतां-याँति सद्यो वंदे तमच्युतम् । मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्पूजितं मया देव परिपूर्णं तदस्तु ते ।
अनया पुरुषसूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजनेन भगवान् सर्वात्मकः श्री रमासहित सत्यनारायण स्वामी सुप्रीतो सुप्रसन्नो वरदो भवंतु ॥
(sit down)
प्रार्थन अमोघं पुंडरीकाक्षं नृसिंहं दैत्यसूदनम् । हृषीकेशं जगन्नाथं-वाँगीशं-वँरदायकम् ॥ स गुणं च गुणातीतं गोविंदं गरुढध्वजम् । जनार्दनं जनानंदं जानकीवल्लभं हरिम् ॥
प्रणमामि सदा भक्त्या नारायणमतः परम् । दुर्गमे विषमे घोरे शत्रुणा परिपीडितः । निस्तारयतु सर्वेषु तथाऽनिष्टभयेषु च । नामान्येतानि संकीर्त्य फलमीप्सितमाप्नुयात् । सत्यनारायण देवं-वंँदेऽहं कामदं प्रभुम् । लीलया विततं-विँश्वं-येँन तस्मै नमो नमः ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः प्रार्थन नमस्कारान् समर्पयामि ।
फलम् इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे स फलाऽवाप्तिर्भवेज्जन्मनि जन्मनि ॥ ॐ श्री रमासहित सत्यनारायण स्वामिने नमः फलं समर्पयामि ।
श्री सत्यनारायण स्वामि व्रतकथा
॥ श्री गणेशाय नमः ॥ ॥ श्रीपरमात्मने नमः ॥ अथ कथा प्रारंभः ।
अथ प्रथमोऽध्यायः
श्रीव्यास उवाच
एकदा नैमिषारण्ये ऋषयः शौनकादयः । पप्रच्छुर्मुनयः सर्वे सूतं पौराणिकं खलु ॥ 1
ऋषय ऊचुः । व्रतेन तपसा किं-वाँ प्राप्यते वांछितं फलम् । तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥ 2॥
सूत उवाच
नारदेनैव संपृष्टो भगवान् कमलापतिः । सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः ॥ 3
एकदा नारदो योगी परानुग्रहकांक्षया । पर्यटन् विविधान् लोकान् मर्त्यलोकमुपागतः ॥ 4॥
ततोदृष्ट्वा जनान्सर्वान् नानाक्लेशसमन्वितान् । नानायोनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभिः ॥ 5॥
केनोपायेन चैतेषां दुःखनाशो भवेद् ध्रुवम् । इति संचिंत्य मनसा विष्णुलोकं गतस्तदा ॥ 6॥
तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् । शंख-चक्र-गदा-पद्म-वनमाला-विभूषितम् ॥ 7॥
दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे । नारद उवाच । नमो वांगमनसातीतरूपायानंतशक्तये । आदिमध्यांतहीनाय निर्गुणाय गुणात्मने ॥ 8॥
सर्वेषामादिभूताय भक्तानामार्तिनाशिने । श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत ॥ 9॥
श्रीभगवानुवाच
किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते । कथयस्व महाभाग तत्सर्वं कथायामि ते ॥ 10
नारद उवाच
मर्त्यलोके जनाः सर्वे नानाक्लेशसमन्विताः । ननायोनिसमुत्पन्नाः पच्यंते पापकर्मभिः ॥ 11
तत्कथं शमयेन्नाथ लघूपायेन तद्वद । श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ॥ 12॥
श्रीभगवानुवाच
साधु पृष्टं त्वया वत्स लोकानुग्रहकांक्षया । यत्कृत्वा मुच्यते मोहत् तच्छृणुष्व वदामि ते ॥ 13
व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् । तव स्नेहान्मया वत्स प्रकाशः क्रियतेऽधुना ॥ 14॥
सत्यनारायणस्यैव व्रतं सम्यग्विधानतः । (सत्यनारायणस्यैवं) कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् । तच्छ्रुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत् ॥ 15॥
नारद उवाच
किं फलं किं-विँधानं च कृतं केनैव तद् व्रतम् । तत्सर्वं-विँस्तराद् ब्रूहि कदा कार्यं-व्रँतं प्रभो ॥ 16॥ (कार्यंहितद्व्रतम्)
श्रीभगवानुवाच
दुःखशोकादिशमनं धनधान्यप्रवर्धनम् ॥ 17
सौभाग्यसंततिकरं सर्वत्र विजयप्रदम् । यस्मिन् कस्मिन् दिने मर्त्यो भक्तिश्रद्धासमन्वितः ॥ 18॥
सत्यनारायणं देवं-यँजेच्चैव निशामुखे । ब्राह्मणैर्बांधवैश्चैव सहितो धर्मतत्परः ॥ 19॥
नैवेद्यं भक्तितो दद्यात् सपादं भक्ष्यमुत्तमम् । रंभाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् ॥ 20॥
अभावे शालिचूर्णं-वाँ शर्करा वा गुडस्तथा । सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥ 21॥
विप्राय दक्षिणां दद्यात् कथां श्रुत्वा जनैः सह । ततश्च बंधुभिः सार्धं-विँप्रांश्च प्रतिभोजयेत् ॥ 22॥
प्रसादं भक्षयेद् भक्त्या नृत्यगीतादिकं चरेत् । ततश्च स्वगृहं गच्छेत् सत्यनारायणं स्मरन्न् ॥ 23॥
एवं कृते मनुष्याणां-वांँछासिद्धिर्भवेद् ध्रुवम् । विशेषतः कलियुगे लघूपायोऽस्ति भूतले ॥ 24॥ (लघूपायोस्ति)
॥ इति श्रीस्कंदपुराणे रेवाखंडे श्रीसत्यनारायण व्रतकथायां प्रथमोऽध्यायः ॥ 1 ॥
अथ द्वितीयोऽध्यायः
सूत उवाच
अथान्यत् संप्रवक्ष्यामि कृतं-येँन पुरा द्विजाः । कश्चित् काशीपुरे रम्ये ह्यासीद्विप्रोऽतिनिर्धनः ॥ 1॥ (ह्यासीद्विप्रोतिनिर्धनः)
क्षुत्तृड्भ्यां-व्याँकुलोभूत्वा नित्यं बभ्राम भूतले । दुःखितं ब्राह्मणं दृष्ट्वा भगवान् ब्राह्मणप्रियः ॥ 2॥
वृद्धब्राह्मण रूपस्तं पप्रच्छ द्विजमादरात् । किमर्थं भ्रमसे विप्र महीं नित्यं सुदुःखितः । तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विज सत्तम ॥ 3॥
ब्राह्मण उवाच
ब्राह्मणोऽति दरिद्रोऽहं भिक्षार्थं-वैँ भ्रमे महीम् ॥ 4॥ (ब्राह्मणोति)
उपायं-यँदि जानासि कृपया कथय प्रभो । वृद्धब्राह्मण उवाच । सत्यनारायणो विष्णुर्वांछितार्थफलप्रदः ॥ 5॥
तस्य त्वं पूजनं-विँप्र कुरुष्व व्रतमुत्तमम । (व्रतमुत्तमम्) यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 6॥
विधानं च व्रतस्यापि विप्रायाभाष्य यत्नतः । सत्यनारायणो वृद्धस्तत्रैवांतरधीयत ॥ 7॥
तद् व्रतं संकरिष्यामि यदुक्तं ब्राह्मणेन वै । इति संचिंत्य विप्रोऽसौ रात्रौ निद्रा न लब्धवान् ॥ 8॥ (निद्रां)
ततः प्रातः समुत्थाय सत्यनारायणव्रतम् । करिष्य इति संकल्प्य भिक्षार्थमगमद्विजः ॥ 9॥ (भिक्षार्थमगमद्द्विजः)
तस्मिन्नेव दिने विप्रः प्रचुरं द्रव्यमाप्तवान् । तेनैव बंधुभिः सार्धं सत्यस्यव्रतमाचरत् ॥ 10॥
सर्वदुःखविनिर्मुक्तः सर्वसंपत्समन्वितः । बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावतः ॥ 11॥
ततः प्रभृति कालं च मासि मासि व्रतं कृतम् । एवं नारायणस्येदं-व्रँतं कृत्वा द्विजोत्तमः ॥ 12॥
सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान् । व्रतमस्य यदा विप्र पृथिव्यां संकरिष्यति ॥ 13॥ (विप्राः)
तदैव सर्वदुःखं तु मनुजस्य विनश्यति । (च मनुजस्य) एवं नारायणेनोक्तं नारदाय महात्मने ॥ 14॥
मया तत्कथितं-विँप्राः किमन्यत् कथयामि वः । ऋषय ऊचुः । तस्माद् विप्राच्छ्रुतं केन पृथिव्यां चरितं मुने । तत्सर्वं श्रोतुमिच्छामः श्रद्धाऽस्माकं प्रजायते ॥ 15॥ (श्रद्धास्माकं)
सूत उवाच
शऋणुध्वं मुनयः सर्वे व्रतं-येँन कृतं भुवि । एकदा स द्विजवरो यथाविभव विस्तरैः ॥ 16
बंधुभिः स्वजनैः सार्धं-व्रँतं कर्तुं समुद्यतः । एतस्मिन्नंतरे काले काष्ठक्रेता समागमत् ॥ 17॥
बहिः काष्ठं च संस्थाप्य विप्रस्य गृहमाययौ । तृष्णाया पीडितात्मा च दृष्ट्वा विप्रं कृतं-व्रँतम् ॥ 18॥ (कृत)
प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया । कृते किं फलमाप्नोति विस्तराद् वद मे प्रभो ॥ 19॥ (विस्ताराद्)
विप्र उवाच
सत्यनारायणेस्येदं-व्रँतं सर्वेप्सितप्रदम् । तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥ 20
तस्मादेतद् व्रतं ज्ञात्वा काष्ठक्रेताऽतिहर्षितः । पपौ जलं प्रसादं च भुक्त्वा स नगरं-यँयौ ॥ 21॥
सत्यनारायणं देवं मनसा इत्यचिंतयत् । काष्ठं-विँक्रयतो ग्रामे प्राप्यते चाद्य यद् धनम् ॥ 22॥ (प्राप्यतेमेऽद्य)
तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् । इति संचिंत्य मनसा काष्ठं धृत्वा तु मस्तके ॥ 23॥
जगाम नगरे रम्ये धनिनां-यँत्र संस्थितिः । तद्दिने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ ॥ 24॥
ततः प्रसन्नहृदयः सुपक्वं कदली फलम् । शर्कराघृतदुग्धं च गोधूमस्य च चूर्णकम् ॥ 25॥
कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं-यँयौ । ततो बंधून् समाहूय चकार विधिना व्रतम् ॥ 26॥
तद् व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत् । (धनपुत्रान्वितोभवत्) इहलोके सुखं भुक्त्वा चांते सत्यपुरं-यँयौ ॥ 27॥
॥ इति श्रीस्कंदपुराणे रेवाखंडे श्रीसत्यनारायण व्रतकथायां द्वितीयोऽध्यायः ॥ 2 ॥
अथ तृतीयोऽध्यायः
सूत उवाच
पुनरग्रे प्रवक्ष्यामि शऋणुध्वं मुनि सत्तमाः । पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ 1
जितेंद्रियः सत्यवादी ययौ देवालयं प्रति । दिने दिने धनं दत्त्वा द्विजान् संतोषयत् सुधीः ॥ 2॥
भार्या तस्य प्रमुग्धा च सरोजवदना सती । भद्रशीलानदी तीरे सत्यस्यव्रतमाचरत् ॥ 3॥
एतस्मिन्नंतरे तत्र साधुरेकः समागतः । वाणिज्यार्थं बहुधनैरनेकैः परिपूरितः ॥ 4॥
नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति । दृष्ट्वा स व्रतिनं भूपं प्रपच्छ विनयान्वितः ॥ 5॥
साधुरुवाच
किमिदं कुरुषे राजन् भक्तियुक्तेन चेतसा । प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि सांप्रतम् ॥ 6
राजोवाच । पूजनं क्रियते साधो विष्णोरतुलतेजसः । व्रतं च स्वजनैः सार्धं पुत्राद्यावाप्ति काम्यया ॥ 7॥
भूपस्य वचनं श्रुत्वा साधुः प्रोवाच सादरम् । सर्वं कथय मे राजन् करिष्येऽहं तवोदितम् ॥ 8॥
ममापि संततिर्नास्ति ह्येतस्माज्जायते ध्रुवम् । ततो निवृत्त्य वाणिज्यात् सानंदो गृहमागतः ॥ 9॥
भार्यायै कथितं सर्वं-व्रँतं संतति दायकम् । तदा व्रतं करिष्यामि यदा मे संततिर्भवेत् ॥ 10॥
इति लीलावतीं प्राह पत्नीं साधुः स सत्तमः । एकस्मिन् दिवसे तस्य भार्या लीलावती सती ॥ 11॥ (भार्यां)
भर्तृयुक्तानंदचित्ताऽभवद् धर्मपरायणा । र्गभिणी साऽभवत् तस्य भार्या सत्यप्रसादतः ॥ 12॥ (साभवत्)
दशमे मासि वै तस्याः कन्यारत्नमजायत । दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥ 13॥
नाम्ना कलावती चेति तन्नामकरणं कृतम् । ततो लीलावती प्राह स्वामिनं मधुरं-वँचः ॥ 14॥
न करोषि किमर्थं-वैँ पुरा संकल्पितं-व्रँतम् । साधुरुवाच । विवाह समये त्वस्याः करिष्यामि व्रतं प्रिये ॥ 15॥
इति भार्यां समाश्वास्य जगाम नगरं प्रति । ततः कलावती कन्या ववृधे पितृवेश्मनि ॥ 16॥
दृष्ट्वा कन्यां ततः साधुर्नगरे सखिभिः सह । मंत्रयित्वा द्रुतं दूतं प्रेषयामास धर्मवित् ॥ 17॥
विवाहार्थं च कन्याया वरं श्रेष्ठं-विँचारय । तेनाज्ञप्तश्च दूतोऽसौ कांचनं नगरं-यँयौ ॥ 18॥
तस्मादेकं-वँणिक्पुत्रं समादायागतो हि सः । दृष्ट्वा तु सुंदरं बालं-वँणिक्पुत्रं गुणान्वितम् ॥ 19॥
ज्ञातिभिर्बंधुभिः सार्धं परितुष्टेन चेतसा । दत्तावान् साधुपुत्राय कन्यां-विँधिविधानतः ॥ 20॥ (साधुःपुत्राय)
ततोऽभाग्यवशात् तेन विस्मृतं-व्रँतमुत्तमम् । (ततोभाग्यवशात्) विवाहसमये तस्यास्तेन रुष्टो भवत् प्रभुः ॥ 21॥ (रुष्टोऽभवत्)
ततः कालेन नियतो निजकर्म विशारदः । वाणिज्यार्थं ततः शीघ्रं जामातृ सहितो वणिक् ॥ 22॥
रत्नसारपुरे रम्ये गत्वा सिंधु समीपतः । वाणिज्यमकरोत् साधुर्जामात्रा श्रीमता सह ॥ 23॥
तौ गतौ नगरे रम्ये चंद्रकेतोर्नृपस्य च । (नगरेतस्य) एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः ॥ 24॥
भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् । दारुणं कठिनं चास्य महद् दुःखं भविष्यति ॥ 25॥
एकस्मिंदिवसे राज्ञो धनमादाय तस्करः । तत्रैव चागत श्चौरो वणिजौ यत्र संस्थितौ ॥ 26॥
तत्पश्चाद् धावकान् दूतान् दृष्टवा भीतेन चेतसा । धनं संस्थाप्य तत्रैव स तु शीघ्रमलक्षितः ॥ 27॥
ततो दूताःसमायाता यत्रास्ते सज्जनो वणिक् । दृष्ट्वा नृपधनं तत्र बद्ध्वाऽऽनीतौ वणिक्सुतौ ॥ 28॥ (बद्ध्वानीतौ)
हर्षेण धावमानाश्च प्रोचुर्नृपसमीपतः । तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥ 29॥
राज्ञाऽऽज्ञप्तास्ततः शीघ्रं दृढं बद्ध्वा तु ता वुभौ । स्थापितौ द्वौ महादुर्गे कारागारेऽविचारतः ॥ 30॥
मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वचः । अतस्तयोर्धनं राज्ञा गृहीतं चंद्रकेतुना ॥ 31॥
तच्छापाच्च तयोर्गेहे भार्या चैवाति दुःखिता । चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम् ॥ 32॥
आधिव्याधिसमायुक्ता क्षुत्पिपाशाति दुःखिता । (क्षुत्पिपासाति) अन्नचिंतापरा भूत्वा बभ्राम च गृहे गृहे । कलावती तु कन्यापि बभ्राम प्रतिवासरम् ॥ 33॥
एकस्मिन् दिवसे याता क्षुधार्ता द्विजमंदिरम् । (दिवसे जाता) गत्वाऽपश्यद् व्रतं तत्र सत्यनारायणस्य च ॥ 34॥ (गत्वापश्यद्)
उपविश्य कथां श्रुत्वा वरं र्प्राथितवत्यपि । प्रसाद भक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ॥ 35॥
माता कलावतीं कन्यां कथयामास प्रेमतः । पुत्रि रात्रौ स्थिता कुत्र किं ते मनसि वर्तते ॥ 36॥
कन्या कलावती प्राह मातरं प्रति सत्वरम् । द्विजालये व्रतं मातर्दृष्टं-वांँछितसिद्धिदम् ॥ 37॥
तच्छ्रुत्वा कन्यका वाक्यं-व्रँतं कर्तुं समुद्यता । सा मुदा तु वणिग्भार्या सत्यनारायणस्य च ॥ 38॥
व्रतं चक्रे सैव साध्वी बंधुभिः स्वजनैः सह । भर्तृजामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम् ॥ 39॥
अपराधं च मे भर्तुर्जामातुः क्षंतुमर्हसि । व्रतेनानेन तुष्टोऽसौ सत्यनारायणः पुनः ॥ 40॥ (तुष्टोसौ)
दर्शयामास स्वप्नं ही चंद्रकेतुं नृपोत्तमम् । बंदिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥ 41॥
देयं धनं च तत्सर्वं गृहीतं-यँत् त्वयाऽधुना । (त्वयाधुना) नो चेत् त्वां नाशयिष्यामि सराज्यधनपुत्रकम् ॥ 42॥
एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभुः । (ध्यानगम्योभवत्) ततः प्रभातसमये राजा च स्वजनैः सह ॥ 43॥
उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति । बद्धौ महाजनौ शीघ्रं मोचय द्वौ वणिक्सुतौ ॥ 44॥
इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ । समानीय नृपस्याग्रे प्राहुस्ते विनयान्विताः ॥ 45॥
आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगडबंधनात् । ततो महाजनौ नत्वा चंद्रकेतुं नृपोत्तमम् ॥ 46॥
स्मरंतौ पूर्व वृत्तांतं नोचतुर्भयविह्वलौ । राजा वणिक्सुतौ वीक्ष्य वचः प्रोवाच सादरम् ॥ 47॥
देवात् प्राप्तं महद्दुःखमिदानीं नास्ति वै भयम् । तदा निगडसंत्यागं क्षौरकर्माद्यकारयत् ॥ 48॥
वस्त्रालंकारकं दत्त्वा परितोष्य नृपश्च तौ । पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोषयद् भृशम् ॥ 49॥ (वचसातोषयद्भृशम्)
पुरानीतं तु यद् द्रव्यं द्विगुणीकृत्य दत्तवान् । प्रोवाच च ततो राजा गच्छ साधो निजाश्रमम् ॥ 50॥ (प्रोवाचतौ)
राजानं प्रणिपत्याह गंतव्यं त्वत्प्रसादतः । इत्युक्त्वा तौ महावैश्यौ जग्मतुः स्वगृहं प्रति ॥ 51॥ (महावैश्यो)
॥ इति श्रीस्कंद पुराणे रेवाखंडे श्रीसत्यनारायण व्रतकथायां तृतीयोऽध्यायः ॥ 3 ॥
अथ चतुर्थोऽध्यायः
सूत उवाच
यात्रां तु कृतवान् साधुर्मंगलायनपूर्विकाम् । ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं-यँयौ ॥ 1
कियद् दूरे गते साधो सत्यनारायणः प्रभुः । जिज्ञासां कृतवान् साधौ किमस्ति तव नौस्थितम् ॥ 2॥
ततो महाजनौ मत्तौ हेलया च प्रहस्य वै । (मतौ) कथं पृच्छसि भो दंडिन् मुद्रां नेतुं किमिच्छसि ॥ 3॥
लतापत्रादिकं चैव वर्तते तरणौ मम । निष्ठुरं च वचः श्रुत्वा सत्यं भवतु ते वचः ॥ 4॥
एवमुक्त्वा गतः शीघ्रं दंडी तस्य समीपतः । कियद् दूरे ततो गत्वा स्थितः सिंधु समीपतः ॥ 5॥
गते दंडिनि साधुश्च कृतनित्यक्रियस्तदा । उत्थितां तरणीं दृष्ट्वा विस्मयं परमं-यँयौ ॥ 6॥
दृष्ट्वा लतादिकं चैव मूर्च्छितो न्यपतद् भुवि । लब्धसंज्ञो वणिक्पुत्रस्ततश्चिंतान्वितोऽभवत् ॥ 7॥ (वणिक्पुत्रस्ततश्चिंतान्वितोभवत्)
तदा तु दुहितुः कांतो वचनं चेदमब्रवीत् । किमर्थं क्रियते शोकः शापो दत्तश्च दंडिना ॥ 8॥
शक्यते तेन सर्वं हि कर्तुं चात्र न संशयः । (शक्यतेने न) अतस्तच्छरणं-याँमो वांछतार्थो भविष्यति ॥ 9॥ (वांछितार्थो)
जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा । दृष्ट्वा च दंडिनं भक्त्या नत्वा प्रोवाच सादरम् ॥ 10॥
क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ । एवं पुनः पुनर्नत्वा महाशोकाकुलोऽभवत् ॥ 11॥ (महाशोकाकुलोभवत्)
प्रोवाच वचनं दंडी विलपंतं-विँलोक्य च । मा रोदीः शऋणुमद्वाक्यं मम पूजाबहिर्मुखः ॥ 12॥
ममाज्ञया च दुर्बुद्धे लब्धं दुःखं मुहुर्मुहुः । तच्छ्रुत्वा भगवद्वाक्यं स्तुतिं कर्तुं समुद्यतः ॥ 13॥
साधुरुवाच
त्वन्मायामोहिताः सर्वे ब्रह्माद्यास्त्रिदिवौकसः । न जानंति गुणान् रूपं तवाश्चर्यमिदं प्रभो ॥ 14
मूढोऽहं त्वां कथं जाने मोहितस्तवमायया । (मूढोहं) प्रसीद पूजयिष्यामि यथाविभवविस्तरैः ॥ 15॥
पुरा वित्तं च तत् सर्वं त्राहि मां शरणागतम् । श्रुत्वा भक्तियुतं-वाँक्यं परितुष्टो जनार्दनः ॥ 16॥
वरं च वांछितं दत्त्वा तत्रैवांतर्दधे हरिः । ततो नावं समारूह्य दृष्ट्वा वित्तप्रपूरिताम् ॥ 17॥
कृपया सत्यदेवस्य सफलं-वांँछितं मम । इत्युक्त्वा स्वजनैः सार्धं पूजां कृत्वा यथाविधि ॥ 18॥
हर्षेण चाभवत् पूर्णःसत्यदेवप्रसादतः । नावं संयोँज्य यत्नेन स्वदेशगमनं कृतम् ॥ 19॥
साधुर्जामातरं प्राह पश्य रत्नपुरीं मम । दूतं च प्रेषयामास निजवित्तस्य रक्षकम् ॥ 20॥
ततोऽसौ नगरं गत्वा साधुभार्यां-विँलोक्य च । (दूतोसौ) प्रोवाच वांछितं-वाँक्यं नत्वा बद्धांजलिस्तदा ॥ 21॥
निकटे नगरस्यैव जामात्रा सहितो वणिक् । आगतो बंधुवर्गैश्च वित्तैश्च बहुभिर्युतः ॥ 22॥
श्रुत्वा दूतमुखाद्वाक्यं महाहर्षवती सती । सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति ॥ 23॥
व्रजामि शीघ्रमागच्छ साधुसंदर्शनाय च । इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य च ॥ 24॥
प्रसादं च परित्यज्य गता साऽपि पतिं प्रति । (सापि) तेन रुष्टाः सत्यदेवो भर्तारं तरणिं तथा ॥ 25॥ (रुष्टः, तरणीं)
संहृत्य च धनैः सार्धं जले तस्यावमज्जयत् । ततः कलावती कन्या न विलोक्य निजं पतिम् ॥ 26॥
शोकेन महता तत्र रुदंती चापतद् भुवि । (रुदती) दृष्ट्वा तथाविधां नावं कन्यां च बहुदुःखिताम् ॥ 27॥
भीतेन मनसा साधुः किमाश्चर्यमिदं भवेत् । चिंत्यमानाश्च ते सर्वे बभूवुस्तरिवाहकाः ॥ 28॥
ततो लीलावती कन्यां दृष्ट्वा सा विह्वलाऽभवत् । विललापातिदुःखेन भर्तारं चेदमब्रवीत ॥ 29॥
इदानीं नौकया सार्धं कथं सोऽभूदलक्षितः । न जाने कस्य देवस्य हेलया चैव सा हृता ॥ 30॥
सत्यदेवस्य माहात्म्यं ज्ञातुं-वाँ केन शक्यते । इत्युक्त्वा विललापैव ततश्च स्वजनैः सह ॥ 31॥
ततो लीलावती कन्यां क्रौडे कृत्वा रुरोद ह । ततःकलावती कन्या नष्टे स्वामिनि दुःखिता ॥ 32॥
गृहीत्वा पादुके तस्यानुगतुं च मनोदधे । (पादुकां) कन्यायाश्चरितं दृष्ट्वा सभार्यः सज्जनो वणिक् ॥ 33॥
अतिशोकेन संतप्तश्चिंतयामास धर्मवित् । हृतं-वाँ सत्यदेवेन भ्रांतोऽहं सत्यमायया ॥ 34॥
सत्यपूजां करिष्यामि यथाविभवविस्तरैः । इति सर्वान् समाहूय कथयित्वा मनोरथम् ॥ 35॥
नत्वा च दंडवद् भूमौ सत्यदेवं पुनः पुनः । ततस्तुष्टः सत्यदेवो दीनानां परिपालकः ॥ 36॥
जगाद वचनं चैनं कृपया भक्तवत्सलः । त्यक्त्वा प्रसादं ते कन्या पतिं द्रष्टुं समागता ॥ 37॥
अतोऽदृष्टोऽभवत्तस्याः कन्यकायाः पतिर्ध्रुवम् । गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुनः ॥ 38॥ (सायाति)
लब्धभर्त्री सुता साधो भविष्यति न संशयः । कन्यका तादृशं-वाँक्यं श्रुत्वा गगनमंडलात् ॥ 39॥
क्षिप्रं तदा गृहं गत्वा प्रसादं च बुभोज सा । पश्चात् सा पुनरागत्य ददर्श स्वजनं पतिम् ॥ 40॥ (सापश्चात्पुनरागत्य, सजनं)
ततः कलावती कन्या जगाद पितरं प्रति । इदानीं च गृहं-याँहि विलंबं कुरुषे कथम् ॥ 41॥
तच्छ्रुत्वा कन्यकावाक्यं संतुष्टोऽभूद्वणिक्सुतः । पूजनं सत्यदेवस्य कृत्वा विधिविधानतः ॥ 42॥
धनैर्बंधुगणैः सार्धं जगाम निजमंदिरम् । पौर्णमास्यां च संक्रांतौ कृतवान् सत्यस्य पूजनम् ॥ 43॥ (सत्यपूजनम्)
इहलोके सुखं भुक्त्वा चांते सत्यपुरं-यँयौ ॥ 44॥
॥ इति श्रीस्कंद पुराणे रेवाखंडे श्रीसत्यनारायण व्रतकथायां चतुर्थोऽध्यायः ॥ 4 ॥
अथ पंचमोऽध्यायः
सूत उवाच
अथान्यच्च प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः । आसीत् तुंगध्वजो राजा प्रजापालनतत्परः ॥ 1
प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः । एकदा स वनं गत्वा हत्वा बहुविधान् पशून् ॥ 2॥
आगत्य वटमूलं च दृष्ट्वा सत्यस्य पूजनम् । (चापश्यत्) गोपाः कुर्वंति संतुष्टा भक्तियुक्ताः स बांधवाः ॥ 3॥
राजा दृष्ट्वा तु दर्पेण न गतो न ननाम सः । ततो गोपगणाः सर्वे प्रसादं नृपसन्निधौ ॥ 4॥
संस्थाप्य पुनरागत्य भुक्तत्वा सर्वे यथेप्सितम् । ततः प्रसादं संत्यज्य राजा दुःखमवाप सः ॥ 5॥
तस्य पुत्रशतं नष्टं धनधान्यादिकं च यत् । सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम् ॥ 6॥
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् । मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ ॥ 7॥
ततोऽसौ सत्यदेवस्य पूजां गोपगणैःसह । भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृपः ॥ 8॥
सत्यदेवप्रसादेन धनपुत्रान्वितोऽभवत् । इहलोके सुखं भुक्तत्वा चांते सत्यपुरं-यँयौ ॥ 9॥
य इदं कुरुते सत्यव्रतं परमदुर्लभम् । शऋणोति च कथां पुण्यां भक्तियुक्तः फलप्रदाम् ॥ 10॥
धनधान्यादिकं तस्य भवेत् सत्यप्रसादतः । दरिद्रो लभते वित्तं बद्धो मुच्येत बंधनात् ॥ 11॥
भीतो भयात् प्रमुच्येत सत्यमेव न संशयः । ईप्सितं च फलं भुक्त्वा चांते सत्यपुरंव्रँजेत् ॥ 12॥
इति वः कथितं-विँप्राः सत्यनारायणव्रतम् । यत् कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 13॥
विशेषतः कलियुगे सत्यपूजा फलप्रदा । केचित् कालं-वँदिष्यंति सत्यमीशं तमेव च ॥ 14॥
सत्यनारायणं केचित् सत्यदेवं तथापरे । नानारूपधरो भूत्वा सर्वेषामीप्सितप्रदम् ॥ 15॥ (सर्वेषामीप्सितप्रदः)
भविष्यति कलौ सत्यव्रतरूपी सनातनः । श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम् ॥ 16॥
य इदं पठते नित्यं शऋणोति मुनिसत्तमाः । तस्य नश्यंति पापानि सत्यदेवप्रसादतः ॥ 17॥
व्रतं-यैँस्तु कृतं पूर्वं सत्यनारायणस्य च । तेषां त्वपरजन्मानि कथयामि मुनीश्वराः ॥ 18॥
शतानंदोमहाप्राज्ञःसुदामाब्राह्मणो ह्यभूत् । तस्मिंजन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह ॥ 19॥
काष्ठभारवहो भिल्लो गुहराजो बभूव ह । तस्मिंजन्मनि श्रीरामं सेव्य मोक्षं जगाम वै ॥ 20॥
उल्कामुखो महाराजो नृपो दशरथोऽभवत् । श्रीरंगनाथं संपूज्य श्रीवैकुंठं तदागमत् ॥ 21॥ (श्रीरामचंद्रसंप्राप्य)
र्धामिकः सत्यसंधश्च साधुर्मोरध्वजोऽभवत् । (साधुर्मोरध्वजोभवत्) देहार्धं क्रकचैश्छित्त्वा दत्वा मोक्षमवाप ह ॥ 22॥
तुंगध्वजो महाराजः स्वायंभुवोऽभवत् किल । (स्वायंभूरभवत्) सर्वान् भागवतान् कृत्वा श्रीवैकुंठं तदाऽगमत् ॥ 23॥ (कृत्त्वा, तदागमत्)
भूत्वा गोपाश्च ते सर्वे व्रजमंडलवासिनः । निहत्य राक्षसान् सर्वान् गोलोकं तु तदा ययुः ॥ 24॥
॥ इति श्रीस्कंदपुराणे रेवाखंडे श्रीसत्यनारायण व्रतकथायां पंचमोऽध्यायः ॥ 5 ॥
(after Katha, offer Mangala Nirajanam, and take Swami Tirtham, Phalam, Prasadam)
अकाल मृत्युहरणं सर्वव्याधि निवारणम् । समस्त पापक्षयकरं श्री सत्यनारायण पादोदकं पावनं शुभम् ॥ श्री रमासहित सत्यनारायण स्वामि प्रसादं शिरसा गृह्णामि ॥ श्री रमासहित सत्यनारायण स्वामिने नमः ॥
कलशोद्वासन य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् । ते ह॒ नाकं॑ महि॒मानः॑ सचंते । यत्र॒ पूर्वे॑ सा॒ध्याः संति॑ दे॒वाः ॥ श्री रमासहित सत्यनारायण स्वामिने नमः आवाहित सर्वेभ्यो देवेभ्यो नमः सर्वाभ्यो देवताभ्यो नमः यथा स्थानं प्रवेशयामि ॥ शोभनार्थे क्षेमाय पुनरागमनाय च ।
समस्त सन्मंगलानि भवंतु ॥ सर्वेजनाः सुखिनो भवंतु ॥ ॐ शांतिः शांतिः शांतिः ।
स्वस्ति ॥
Browse Related Categories: