Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अस्य श्रीसिद्धलक्ष्मीस्तोत्रमंत्रस्य हिरण्यगर्भ ऋषिः अनुष्टुप् छंदः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं मम सर्वक्लेशपीडापरिहारार्थं सर्वदुःखदारिद्र्यनाशनार्थं सर्वकार्यसिद्ध्यर्थं श्रीसिद्धिलक्ष्मीस्तोत्र पाठे विनियोगः ॥
ऋष्यादिन्यासः ॐ हिरण्यगर्भ ऋषये नमः शिरसि । अनुष्टुप्छंदसे नमो मुखे । श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमो हृदिः । श्रीं बीजाय नमो गुह्ये । ह्रीं शक्तये नमः पादयोः । क्लीं कीलकाय नमो नाभौ । विनियोगाय नमः सर्वांगेषु ॥
करन्यासः ॐ श्रीं सिद्धलक्ष्म्यै अंगुष्ठाभ्यां नमः । ॐ ह्रीं विष्णुतेजसे तर्जनीभ्यां नमः । ॐ क्लीं अमृतानंदायै मध्यमाभ्यां नमः । ॐ श्रीं दैत्यमालिन्यै अनामिकाभ्यां नमः । ॐ ह्रीं तेजः प्रकाशिन्यै कनिष्ठिकाभ्यां नमः । ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै करतल करपृष्ठाभ्यां नमः ॥
अंगन्यासः ॐ श्रीं सिद्धलक्ष्म्यै हृदयाय नमः । ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा । ॐ क्लीं अमृतानंदायै शिखायै वषट् । ॐ श्रीं दैत्यमालिन्यै कवचाय हुम् । ॐ ह्रीं तेजः प्रकाशिन्यै नेत्रत्रयाय वौषट् । ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै अस्त्राय फट् ॥ ॐ श्रीं ह्रीं क्लीं श्रीं सिद्धलक्ष्म्यै नमः इति दिग्बंधः ॥
अथ ध्यानम् ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् । त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम् ॥ 1 ॥
पीतांबरधरां देवीं नानालंकारभूषिताम् । तेजःपुंजधरीं श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ 2 ॥
अथ स्तोत्रम् ॐकारं लक्ष्मीरूपं तु विष्णुं वाग्भवमव्ययम् । विष्णुमानंदमव्यक्तं ह्रींकारं बीजरूपिणीम् ॥ 3 ॥
Offered for worship and study, not as prediction. Non-commercial.
क्लीं अमृतानंदिनीं भद्रां सत्यानंददायिनीम् । श्रीं दैत्यशमनीं शक्तिं मालिनीं शत्रुमर्दिनीम् ॥ 4 ॥
तेजः प्रकाशिनीं देवीं वरदां शुभकारिणीम् । ब्राह्मीं च वैष्णवीं रौद्रीं कालिकारूपशोभिनीम् ॥ 5 ॥
अकारे लक्ष्मीरूपं तु उकारे विष्णुमव्ययम् । मकारः पुरुषोऽव्यक्तो देवी प्रणव उच्यते ॥ 6 ॥
सूर्यकोटिप्रतीकाशं चंद्रकोटिसमप्रभम् । तन्मध्ये निकरं सूक्ष्मं ब्रह्मरुपं व्यवस्थितम् ॥ 7 ॥
ॐकारं परमानंदं सदैव सुरसुंदरीम् । सिद्धलक्ष्मी मोक्षलक्ष्मी आद्यलक्ष्मी नमोऽस्तु ते ॥ 8 ॥
श्रींकारं परमं सिद्धं सर्वबुद्धिप्रदायकम् । सौभाग्याऽमृता कमला सत्यलक्ष्मी नमोऽस्तु ते ॥ 9 ॥
ह्रींकारं परमं शुद्धं परमैश्वर्यदायकम् । कमला धनदा लक्ष्मी भोगलक्ष्मी नमोऽस्तु ते ॥ 10 ॥
क्लींकारं कामरूपिण्यं कामनापरिपूर्तिदम् । चपला चंचला लक्ष्मी कात्यायनी नमोऽस्तु ते ॥ 11 ॥
श्रींकारं सिद्धिरूपिण्यं सर्वसिद्धिप्रदायकम् । पद्माननां जगन्मात्रे अष्टलक्ष्मीं नमोऽस्तु ते ॥ 12 ॥
सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरि नारायणी नमोऽस्तु ते ॥ 13 ॥
प्रथमं त्र्यंबका गौरी द्वितीयं वैष्णवी तथा । तृतीयं कमला प्रोक्ता चतुर्थं सुंदरी तथा ॥ 14 ॥
पंचमं विष्णुशक्तिश्च षष्ठं कात्यायनी तथा । वाराही सप्तमं चैव ह्यष्टमं हरिवल्लभा ॥ 15 ॥
नवमं खड्गिनी प्रोक्ता दशमं चैव देविका । एकादशं सिद्धलक्ष्मीर्द्वादशं हंसवाहिनी ॥ 16 ॥
उत्तरन्यासः ॐ श्रीं सिद्धलक्ष्म्यै हृदयाय नमः । ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा । ॐ क्लीं अमृतानंदायै शिखायै वषट् । ॐ श्रीं दैत्यमालिन्यै कवचाय हुम् । ॐ ह्रीं तेजः प्रकाशिन्यै नेत्रत्रयाय वौषट् । ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै अस्त्राय फट् ॥ ॐ श्रीं ह्रीं क्लीं श्रीं सिद्धलक्ष्म्यै नमः इति दिग्विमोकः ॥
अथ फलशृतिः एतत् स्तोत्रवरं देव्या ये पठंति सदा नराः । सर्वापद्भ्यो विमुच्यंते नात्र कार्या विचारणा ॥ 17 ॥
एकमासं द्विमासं च त्रिमासं च चतुस्थथा । पंचमासं च षण्मासं त्रिकालं यः सदा पठेत् ॥ 18 ॥
ब्राह्मणः क्लेशितो दुःखी दारिद्र्यभयपीडितः । जन्मांतर सहस्रोत्थैर्मुच्यते सर्वकिल्बषैः ॥ 19 ॥
दरिद्रो लभते लक्ष्मीमपुत्रः पुत्रवान् भवेत् । धन्यो यशस्वी शत्रुघ्नो वह्निचौरभयेषु च ॥ 20 ॥
शाकिनी भूत वेताल सर्प व्याघ्र निपातने । राजद्वारे सभास्थाने कारागृहनिबंधने ॥ 21 ॥
ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारकम् । स्तुवंतु ब्राह्मणाः नित्यं दारिद्र्यं न च बाधते ॥ 22 ॥
सर्वपापहरा लक्ष्मीः सर्वसिद्धिप्रदायिनीम् । साधकाः लभते सर्वं पठेत् स्तोत्रं निरंतरम् ॥ 23 ॥
प्रार्थना या श्रीः पद्मवने कदंबशिखरे राजगृहे कुंजरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते । शंखे दैवकुले नरेंद्रभवने गंगातटे गोकुले सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गंभीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया । लक्ष्मीर्दिव्यैर्गजेंद्रैर्मणिगणखचितैः स्नापिता हेमकुंभैः नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमांगल्ययुक्ता ॥
इति श्रीब्रह्मपुराणे ईश्वरविष्णुसंवादे श्री सिद्धलक्ष्मी स्तोत्रम् ॥
Browse Related Categories: