Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ श्रीवेंकटेशः श्रीनिवासो लक्ष्मी पतिरनामयः । अमृतांशो जगद्वंद्यो गोविंद श्शाश्वतः प्रभुः ॥ 1 ॥
शेषाद्रिनिलयो देवः केशवो मधुसूदनः अमृतो माधवः कृष्णः श्रीहरिर् ज्ञानपंजरः ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
श्रीवत्सवक्षाः सर्वेशो गोपालः पुरुषोत्तमः । गोपीश्वरः परंज्योति-र्वैकुंठपति-रव्ययः ॥ 3 ॥
सुधातनु-र्यादवेंद्रो नित्ययौवनरूपवान् । चतुर्वेदात्मको विष्णु-रच्युतः पद्मिनीप्रियः ॥ 4 ॥
धरापति-स्सुरपति-र्निर्मलो देव पूजितः । चतुर्भुज-श्चक्रधर-स्त्रिधामा त्रिगुणाश्रयः ॥ 5 ॥ निर्विकल्पो निष्कलंको निरांतको निरंजनः । निराभासो नित्यतृप्तो निर्गुणो निरुपद्रवः ॥ 6 ॥
गदाधर-श्शार्ङ्गपाणि-र्नंदकी शंखधारकः । अनेकमूर्ति-रव्यक्तः कटिहस्तो वरप्रदः ॥ 7 ॥ अनेकात्मा दीनबंधु-रार्तलोकाभयप्रदः । आकाशराजवरदो योगिहृत्पद्ममंदिरः ॥ 8 ॥
दामोदरो जगत्पालः पापघ्नो भक्तवत्सलः । त्रिविक्रम-श्शिंशुमारो जटामकुटशोभितः ॥ 9 ॥
शंखमध्योल्लसन्मंजु किंकिणाढ्यकरंढकः । नीलमेघश्यामतनु-र्बिल्वपत्रार्चनप्रियः ॥ 10 ॥
जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः । चिंतितार्थप्रदो जिष्णु-र्दाशार्हो दशरूपवान् ॥ 11 ॥
देवकीनंदन-श्शौरि-र्हयग्रीवो जनार्दनः । कन्याश्रवणतारेज्यः पीतांबरधरोऽनघः ॥ 12 ॥
वनमाली पद्मनाभो मृगयासक्त मानसः । अश्वारूढः खड्गधारी धनार्जन समुत्सुकः ॥ 13 ॥
घनसारलसन्मध्य कस्तूरी तिलकोज्ज्वलः । सच्चिदानंदरूपश्च जगन्मंगलदायकः ॥ 14 ॥ यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः । परमार्थप्रदः शांतः श्रीमान् दोर्दंडविक्रमः ॥ 15 ॥ परात्परः परंब्रह्म श्रीविभु-र्जगदीश्वरः । एवं श्रीवेंकटेशस्य नाम्ना-मष्टोत्तरं शतम् ॥
पठतां शृण्वतां भक्त्या सर्वाभीष्टप्रदं शुभम् । त्रिसंध्यं यः पघेन्निष्यं सर्वान् कामिवाप्नु यात् ॥
॥ श्री वेंकटेश्वरार्पणमस्तु ॥
Browse Related Categories: