Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सहस्रादित्यसंकाशं सहस्रवदनं परम् । सहस्रदोस्सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ 1 ॥
हसंतं हारकेयूर मकुटांगदभूषणैः । शोभनैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥ 2 ॥
स्राकारसहितं मंत्रं वदनं शत्रुनिग्रहम् । सर्वरोगप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ 3 ॥
रणत्किंकिणिजालेन राक्षसघ्नं महाद्भुतम् । व्युप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ 4 ॥
हुंकारभैरवं भीमं प्रणातार्तिहरं प्रभुम् । सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ 5 ॥
फट्कारास्तमनिर्देश्य दिव्यमंत्रेणसंयुतम् । शिवं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ 6 ॥
एतैष्षड्भिः स्तुतो देवः प्रसन्नः श्रीसुदर्शनः । रक्षां करोति सर्वात्मा सर्वत्र विजयी भवेत् ॥ 7 ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts