Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
जातस्य ध्रुवकुल एव तुंगकीर्ते- रंगस्य व्यजनि सुतः स वेननामा । यद्दोषव्यथितमतिः स राजवर्य- स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥1॥
पापोऽपि क्षितितलपालनाय वेनः पौराद्यैरुपनिहितः कठोरवीर्यः । सर्वेभ्यो निजबलमेव संप्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥2॥
संप्राप्ते हितकथनाय तापसौघे मत्तोऽन्यो भुवनपतिर्न कश्चनेति । त्वन्निंदावचनपरो मुनीश्वरैस्तैः शापाग्नौ शलभदशामनायि वेनः ॥3॥
तन्नाशात् खलजनभीरुकैर्मुनींद्रै- स्तन्मात्रा चिरपरिरक्षिते तदंगे । त्यक्ताघे परिमथितादथोरुदंडा- द्दोर्दंडे परिमथिते त्वमाविरासीः ॥4॥
विख्यातः पृथुरिति तापसोपदिष्टैः सूताद्यैः परिणुतभाविभूरिवीर्यः । वेनार्त्या कबलितसंपदं धरित्री- माक्रांतां निजधनुषा समामकार्षीः ॥5॥
भूयस्तां निजकुलमुख्यवत्सयुक्त्यै- र्देवाद्यैः समुचितचारुभाजनेषु । अन्नादीन्यभिलषितानि यानि तानि स्वच्छंदं सुरभितनूमदूदुहस्त्वम् ॥6॥
आत्मानं यजति मखैस्त्वयि त्रिधाम- न्नारब्धे शततमवाजिमेधयागे । स्पर्धालुः शतमख एत्य नीचवेषो हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥7॥
देवेंद्रं मुहुरिति वाजिनं हरंतं वह्नौ तं मुनिवरमंडले जुहूषौ । रुंधाने कमलभवे क्रतोः समाप्तौ साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
तद्दत्तं वरमुपलभ्य भक्तिमेकां गंगांते विहितपदः कदापि देव । सत्रस्थं मुनिनिवहं हितानि शंस- न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥9॥
विज्ञानं सनकमुखोदितं दधानः स्वात्मानं स्वयमगमो वनांतसेवी । तत्तादृक्पृथुवपुरीश सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् ॥10॥
Browse Related Categories: