Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
पंचस्तवि – 2 चर्चास्तवः >>
सौंदर्यविभ्रमभुवो भुवनाधिपत्य- -संकल्पकल्पतरवस्त्रिपुरे जयंति । एते कवित्वकुमदप्रकरावबोध- -पूर्णेंदवस्त्वयि जगज्जननि प्रणामाः ॥ 1 ॥
देवि स्तुतिव्यतिकरे कृतबुद्धयस्ते वाचस्पति प्रभृतयोऽपि जडी भवंति । तस्मान्निसर्गजडिमा कतमोऽहमत्र स्तोत्रं तव त्रिपुरतापनपत्नि कर्तुम् ॥ 2 ॥
मातस्तथापि भवतीं भवतीव्रताप- -विच्छित्तये स्तुतिमहार्णव कर्णधारः । स्तोतुं भवानि स भवच्चरणारविंद- -भक्तिग्रहः किमपि मां मुखरी करोति ॥ 3 ॥
सूते जगंति भवती भवती बिभर्ति जागर्ति तत्क्षयकृते भवती भवानि । मोहं भिनत्ति भवती भवती रुणद्धि लीलायितं जयति चित्रमिदं भवत्याः ॥ 4 ॥
यस्मिन्मनागपि नवांबुजपत्रगौरीं गौरीं प्रसादमधुरां दृशमादधासि । तस्मिन्निरंतरमनंगशरावकीर्ण- -सीमंतिनीनयनसंततयः पतंति ॥ 5 ॥
पृथ्वीभुजोऽप्युदयनप्रभवस्य तस्य विद्याधर प्रणति चुंबित पादपीठः । तच्चक्रवर्तिपदवीप्रणयः स एषः त्वत्पादपंकजरजः कणजः प्रसादः ॥ 6 ॥
त्वत्पादपंकजरज प्रणिपातपूर्वैः पुण्यैरनल्पमतिभिः कृतिभिः कवींद्रैः । क्षीरक्षपाकरदुकूलहिमावदाता कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
कल्पद्रुमप्रसवकल्पितचित्रपूजां उद्दीपित प्रियतमामदरक्तगीतिम् । नित्यं भवानि भवतीमुपवीणयंति विद्याधराः कनकशैलगुहागृहेषु ॥ 8 ॥
लक्ष्मीवशीकरणकर्मणि कामिनीनां आकर्षणव्यतिकरेषु च सिद्धमंत्रः । नीरंध्रमोहतिमिरच्छिदुरप्रदीपो देवि त्वदंघ्रिजनितो जयति प्रसादः ॥ 9 ॥
देवि त्वदंघ्रिनखरत्नभुवो मयूखाः प्रत्यग्रमौक्तिकरुचो मुदमुद्वहंति । सेवानतिव्यतिकरे सुरसुंदरीणां सीमंतसीम्नि कुसुमस्तबकायितं यैः ॥ 10 ॥
मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तिदीप्तं मध्ये ललाटममरायुधरश्मिचित्रम् । हृच्चक्रचुंबि हुतभुक्कणिकानुकारि ज्योतिर्यदेतदिदमंब तव स्वरूपम् ॥ 11 ॥
रूपं तव स्फुरितचंद्रमरीचिगौरं आलोकते शिरसि वागधिदैवतं यः । निःसीमसूक्तिरचनामृतनिर्झरस्य तस्य प्रसादमधुराः प्रसरंति वाचः ॥ 12 ॥
सिंदूरपांसुपटलच्छुरितामिव द्यां त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् । यः पश्यति क्षणमपि त्रिपुरे विहाय व्रीडां मृडानि सुदृशस्तमनुद्रवंति ॥ 13 ॥
मातर्मुहूर्तमपि यः स्मरति स्वरूपं लाक्षारसप्रसरतंतुनिभं भवत्याः । ध्यायंत्यनन्यमनसस्तमनंगतप्ताः प्रद्युम्नसीम्नि सुभगत्वगुणं तरुण्यः ॥ 14 ॥
योऽयं चकास्ति गगनार्णवरत्नमिंदुः योऽयं सुरासुरगुरुः पुरुषः पुराणः । यद्वाममर्धमिदमंधकसूदनस्य देवि त्वमेव तदिति प्रतिपादयंति ॥ 15 ॥
इच्छानुरूपमनुरूपगुणप्रकर्ष संकर्षिणि त्वमभिमृश्य यदा बिभर्षि । जायेत स त्रिभुवनैक गुरुस्तदानीं देवः शिवोऽपि भुवनत्रयसूत्रधारः ॥ 16 ॥
ध्यातासि हैमवति येन हिमांशुरश्मि- -मालामलद्युतिरकल्मषमानसेन । तस्याविलंबमनवद्यमनंतकल्पं अल्पैर्दिनैः सृजसि सुंदरि वाग्विलासम् ॥ 17 ॥
आधारमारुतनिरोधवशेन येषां सिंदूररंजितसरोजगुणानुकारि । दीप्तं हृदि स्फुरति देवि वपुस्त्वदीयं ध्यायंति तानिह समीहितसिद्धिसार्थाः ॥ 18 ॥
ये चिंतयंत्यरुणमंडलमध्यवर्ति रूपं तवांब नवयावकपंकपिंगम् । तेषां सदैव कुसुमायुधबाणभिन्न- -वक्षःस्थला मृगदृशो वशगा भवंति ॥ 19 ॥
त्वामैंदवीमिव कलामनुफालदेशं उद्भासितांबरतलामवलोकयंतः । सद्यो भवानि सुधियः कवयो भवंति त्वं भावनाहितधियां कुलकामधेनुः ॥ 20 ॥
शर्वाणि सर्वजनवंदितपादपद्मे पद्मच्छदद्युतिविडंबितनेत्रलक्ष्मि । निष्पापमूर्तिजनमानसराजहंसि हंसि त्वमापदमनेकविधां जनस्य ॥ 21 ॥
उत्तप्तहेमरुचिरे त्रिपुरे पुनीहि चेतश्चिरंतनमघौघवनं लुनीहि । कारागृहे निगलबंधनयंत्रितस्य त्वत्संस्मृतौ झटिति मे निगलास्त्रुटंति ॥ 22 ॥
त्वां व्यापिनीति सुमना इति कुंडलीति त्वां कामिनीति कमलेति कलावतीति । त्वां मालिनीति ललितेत्यपराजितेति देवि स्तुवंति विजयेति जयेत्युमेति ॥ 23 ॥
उद्दामकामपरमार्थसरोजखंड- चंडद्युतिद्युतिमपासितषड्विकाराम् । मोहद्विपेंद्रकदनोद्यतबोधसिंह- -लीलागुहां भगवतीं त्रिपुरां नमामि ॥ 24 ॥
गणेशवटुकस्तुता रतिसहायकामान्विता स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता । अनंगकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः कदंबवनमध्यगा त्रिपुरसुंदरी पातु नः ॥ 25 ॥
रुद्राणि विद्रुममयीं प्रतिमामिव त्वां ये चिंतयंत्यरुणकांतिमनन्यरूपाम् । तानेत्य पक्ष्मलदृशः प्रसभं भजंते कंठावसक्तमृदुबाहुलतास्तरुण्यः ॥ 26 ॥
त्वद्रूपैकनिरूपणप्रणयिताबंधो दृशोस्त्वद्गुण- -ग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि । त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तितं वाचि मे कुत्रापि त्वदुपासनव्यसनिता मे देवि मा शाम्यतु ॥ 27 ॥
त्वद्रूपमुल्लसितदाडिमपुष्परक्तं उद्भावयेन्मदनदैवतमक्षरं यः । तं रूपहीनमपि मन्मथनिर्विशेषं आलोकयंत्युरुनितंबतटास्तरुण्यः ॥ 28 ॥
ब्रह्मेंद्ररुद्रहरिचंद्रसहस्ररश्मि- -स्कंदद्विपाननहुताशनवंदितायै । वागीश्वरि त्रिभुवनेश्वरि विश्वमातः अंतर्बहिश्च कृतसंस्थितये नमस्ते ॥ 29 ॥
कस्तोत्रमेतदनुवासरमीश्वरायाः श्रेयस्करं पठति वा यदि वा शृणोति । तस्येप्सितं फलति राजभिरीड्यतेऽसौ जायेत स प्रियतमो मदिरेक्षणानाम् ॥ 30 ॥
इति श्रीकालिदास विरचित पंचस्तव्यां द्वितीयः चर्चास्तवः ।
Browse Related Categories: