Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
नमामीश्वरं सच्चिदानंदरूपं लसत्कुंडलं गोकुले भ्राजमानम् । यशोदाभियोलूखलाद्धावमानं परामृष्टमत्यंततो द्रुत्य गोप्या ॥ 1 ॥
रुदंतं मुहुर्नेत्रयुग्मं मृजंतं करांभोजयुग्मेन सातंकनेत्रम् । मुहुः श्वासकंपत्रिरेखांककंठ- स्थितग्रैव-दामोदरं भक्तिबद्धम् ॥ 2 ॥
इतीदृक् स्वलीलाभिरानंदकुंडे स्वघोषं निमज्जंतमाख्यापयंतम् । तदीयेषिताज्ञेषु भक्तैर्जितत्वं पुनः प्रेमतस्तं शतावृत्ति वंदे ॥ 3 ॥
वरं देव मोक्षं न मोक्षावधिं वा न चान्यं वृणेऽहं वरेषादपीह । इदं ते वपुर्नाथ गोपालबालं सदा मे मनस्याविरास्तां किमन्यैः ॥ 4 ॥
इदं ते मुखांभोजमत्यंतनीलैर्- वृतं कुंतलैः स्निग्ध-रक्तैश्च गोप्या । मुहुश्चुंबितं बिंबरक्तधरं मे मनस्याविरास्तां अलं लक्षलाभैः ॥ 5 ॥
नमो देव दामोदरानंत विष्णो प्रसीद प्रभो दुःखजालाब्धिमग्नम् । कृपादृष्टिवृष्ट्यातिदीनं बतानु गृहाणेश मां अज्ञमेध्यक्षिदृश्यः ॥ 6 ॥
कुबेरात्मजौ बद्धमूर्त्यैव यद्वत् त्वया मोचितौ भक्तिभाजौ कृतौ च । तथा प्रेमभक्तिं स्वकं मे प्रयच्छ न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ 7 ॥
नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने त्वदीयोदरायाथ विश्वस्य धाम्ने । नमो राधिकायै त्वदीयप्रियायै नमोऽनंतलीलाय देवाय तुभ्यम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
इति श्रीमद्पद्मपुराणे श्री दामोदराष्टाकं संपूर्णम् ॥
Browse Related Categories: