Ashtakams · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
(प्रहर्षणीवृत्तम् -) तज्ज्ञानं प्रशमकरं यदिंद्रियाणां तज्ज्ञेयं यदुपनिषत्सु निश्चितार्थम् । ते धन्या भुवि परमार्थनिश्चितेहाः शेषास्तु भ्रमनिलये परिभ्रमंतः ॥ 1॥
(वसंततिलकावृत्तम् -) आदौ विजित्य विषयान्मदमोहराग- द्वेषादिशत्रुगणमाहृतयोगराज्याः । ज्ञात्वा मतं समनुभूयपरात्मविद्या- कांतासुखं वनगृहे विचरंति धन्याः ॥ 2॥
त्यक्त्वा गृहे रतिमधोगतिहेतुभूताम् आत्मेच्छयोपनिषदर्थरसं पिबंतः । वीतस्पृहा विषयभोगपदे विरक्ता धन्याश्चरंति विजनेषु विरक्तसंगाः ॥ 3॥
त्यक्त्वा ममाहमिति बंधकरे पदे द्वे मानावमानसदृशाः समदर्शिनश्च । कर्तारमन्यमवगम्य तदर्पितानि कुर्वंति कर्मपरिपाकफलानि धन्याः ॥ 4॥
त्यक्त्वीषणात्रयमवेक्षितमोक्षमर्गा भैक्षामृतेन परिकल्पितदेहयात्राः । ज्योतिः परात्परतरं परमात्मसंज्ञं धन्या द्विजारहसि हृद्यवलोकयंति ॥ 5॥
नासन्न सन्न सदसन्न महसन्नचाणु न स्त्री पुमान्न च नपुंसकमेकबीजम् । यैर्ब्रह्म तत्सममुपासितमेकचित्तैः धन्या विरेजुरित्तरेभवपाशबद्धाः ॥ 6॥
अज्ञानपंकपरिमग्नमपेतसारं दुःखालयं मरणजन्मजरावसक्तम् । संसारबंधनमनित्यमवेक्ष्य धन्या ज्ञानासिना तदवशीर्य विनिश्चयंति ॥ 7॥
शांतैरनन्यमतिभिर्मधुरस्वभावैः एकत्वनिश्चितमनोभिरपेतमोहैः । साकं वनेषु विजितात्मपदस्वरुपं तद्वस्तु सम्यगनिशं विमृशंति धन्याः ॥ 8॥
Offered for worship and study, not as prediction. Non-commercial.
(मालिनीवृत्तम् -) अहिमिव जनयोगं सर्वदा वर्जयेद्यः कुणपमिव सुनारीं त्यक्तुकामो विरागी । विषमिव विषयान्यो मन्यमानो दुरंतान् जयति परमहंसो मुक्तिभावं समेति ॥ 9॥
(शार्दूलविक्रीडितवृत्तम् -) संपूर्णं जगदेव नंदनवनं सर्वेऽपि कल्पद्रुमा गांगं वरि समस्तवारिनिवहः पुण्याः समस्ताः क्रियाः । वाचः प्राकृतसंस्कृताः श्रुतिशिरोवाराणसी मेदिनी सर्वावस्थितिरस्य वस्तुविषया दृष्टे परब्रह्मणि ॥ 10॥
॥ इति श्रीमद् शंकराचार्यविरचितं धन्याष्टकं समाप्तम् ॥
Browse Related Categories: