Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
प्रातः स्मरामि ललिता वदनारविंदं बिंबाधरं पृथुल मौक्तिक शोभिनासम् । आकर्णदीर्घनयनं मणिकुंडलाढ्यं मंदस्मितं मृगमदोज्ज्वल फालदेशम् ॥ 1 ॥
प्रातर्भजामि ललिता भुजकल्पवल्लीं रक्तांगुलीय लसदंगुलि पल्लवाढ्याम् । माणिक्य हेमवलयांगद शोभमानां पुंड्रेक्षुचाप कुसुमेषु सृणीर्दधानाम् ॥ 2 ॥
प्रातर्नमामि ललिता चरणारविंदं भक्तेष्ट दाननिरतं भवसिंधुपोतम् । पद्मासनादि सुरनायक पूजनीयं पद्मांकुशध्वज सुदर्शन लांछनाढ्यम् ॥ 3 ॥
प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यंतवेद्य विभवां करुणानवद्याम् । विश्वस्य सृष्टविलय स्थितिहेतुभूतां विद्येश्वरीं निगमवाङ्ममनसातिदूराम् ॥ 4 ॥
प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति । श्रीशांभवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ 5 ॥
यः श्लोकपंचकमिदं ललितांबिकायाः सौभाग्यदं सुललितं पठति प्रभाते । तस्मै ददाति ललिता झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनंतकीर्तिम् ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.