Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
घुष्यते यस्य नगरे रंगयात्रा दिने दिने । तमहं शिरसा वंदे राजानं कुलशेखरम् ॥
श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुंठनकोविदेति । नाथेति नागशयनेति जगन्निवासे- -त्यालापनं प्रतिपदं कुरु मे मुकुंद ॥ 1 ॥
जयतु जयतु देवो देवकीनंदनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलांगो जयतु जयतु पृथ्वीभारनाशो मुकुंदः ॥ 2 ॥
मुकुंद मूर्ध्ना प्रणिपत्य याचे भवंतमेकांतमियंतमर्थम् । अविस्मृतिस्त्वच्चरणारविंदे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ 3 ॥
नाहं वंदे तव चरणयोर्द्वंद्वमद्वंद्वहेतोः कुंभीपाकं गुरुमपि हरे नारकं नापनेतुम् । रम्यारामामृदुतनुलता नंदने नापि रंतुं भावे भावे हृदयभवने भावयेयं भवंतम् ॥ 4 ॥
नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद्यद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् । एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मांतरेऽपि त्वत्पादांभोरुहयुगगता निश्चला भक्तिरस्तु ॥ 5 ॥
दिवि वा भुवि वा ममास्तु वासो नरके वा नरकांतक प्रकामम् । अवधीरित शारदारविंदौ चरणौ ते मरणेऽपि चिंतयामि ॥ 6 ॥
कृष्ण त्वदीय पदपंकजपंजरांत- -मद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कंठावरोधनविधौ स्मरणं कुतस्ते ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
चिंतयामि हरिमेव संततं मंदमंद हसिताननांबुजं नंदगोपतनयं परात्परं नारदादिमुनिबृंदवंदितम् ॥ 8 ॥
करचरणसरोजे कांतिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे । हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः खेदमद्य त्यजामि ॥ 9 ॥
सरसिजनयने सशंखचक्रे मुरभिदि मा विरम स्वचित्त रंतुम् । सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ 10 ॥
मा भीर्मंदमनो विचिंत्य बहुधा यामीश्चिरं यातनाः नामी नः प्रभवंति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ 11 ॥
भवजलधिगतानां द्वंद्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥ 12 ॥
भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गाः कातरत्वम् । सरसिजदृशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ 13 ॥
तृष्णातोये मदनपवनोद्धूत मोहोर्मिमाले दारावर्ते तनयसहजग्राहसंघाकुले च । संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् पादांभोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ 14 ॥
माद्राक्षं क्षीणपुण्यान् क्षणमपि भवतो भक्तिहीनान्पदाब्जे माश्रौषं श्राव्यबंधं तव चरितमपास्यान्यदाख्यानजातम् । मास्मार्षं माधव त्वामपि भुवनपते चेतसापह्नुवाना- -न्माभूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मांतरेऽपि ॥ 15 ॥
जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वंद्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु । कृष्णं लोकय लोचनद्वय हरेर्गच्छांघ्रियुग्मालयं जिघ्र घ्राण मुकुंदपादतुलसीं मूर्धन्नमाधोक्षजम् ॥ 16 ॥
हे लोकाः शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां योगज्ञाः समुदाहरंति मुनयो यां याज्ञवल्क्यादयः । अंतर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां तत्पीतं परमौषधं वितनुते निर्वाणमात्यंतिकम् ॥ 17 ।
हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि संक्षेपतः संसारार्णवमापदूर्मिबहुलं सम्यक्प्रविश्य स्थिताः । नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं मंत्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ 18 ॥
पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिंगोऽलघु- -स्तेजो निःश्वसनं मरुत्तनुतरं रंध्रं सुसूक्ष्मं नभः । क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुराः दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ 19 ॥
बद्धेनांजलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कंठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पांबुना । नित्यं त्वच्चरणारविंदयुगल ध्यानामृतास्वादिना- -मस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ॥ 20 ॥
हे गोपालक हे कृपाजलनिधे हे सिंधुकन्यापते हे कंसांतक हे गजेंद्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुंडरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ 21 ॥
भक्तापायभुजंगगारुडमणिस्त्रैलोक्यरक्षामणिः गोपीलोचनचातकांबुदमणिः सौंदर्यमुद्रामणिः । यः कांतामणि रुक्मिणी घनकुचद्वंद्वैकभूषामणिः श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ 22 ॥
शत्रुच्छेदैकमंत्रं सकलमुपनिषद्वाक्यसंपूज्यमंत्रं संसारोत्तारमंत्रं समुपचिततमः संघनिर्याणमंत्रम् । सर्वैश्वर्यैकमंत्रं व्यसनभुजगसंदष्टसंत्राणमंत्रं जिह्वे श्रीकृष्णमंत्रं जप जप सततं जन्मसाफल्यमंत्रम् ॥ 23 ॥
व्यामोह प्रशमौषधं मुनिमनोवृत्ति प्रवृत्त्यौषधं दैत्येंद्रार्तिकरौषधं त्रिभुवनी संजीवनैकौषधम् । भक्तात्यंतहितौषधं भवभयप्रध्वंसनैकौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ 24 ॥
आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि । तीर्थानामवगाहनानि च गजस्नानं विना यत्पद- -द्वंद्वांभोरुहसंस्मृतिर्विजयते देवः स नारायणः ॥ 25 ॥
श्रीमन्नाम प्रोच्य नारायणाख्यं के न प्रापुर्वांछितं पापिनोऽपि । हा नः पूर्वं वाक्प्रवृत्ता न तस्मिन् तेन प्राप्तं गर्भवासादिदुःखम् ॥ 26 ॥
मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीय मदनुग्रह एष एव । त्वद्भृत्यभृत्य परिचारक भृत्यभृत्य भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ 27 ॥
नाथे नः पुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति । यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं सेवायै मृगयामहे नरमहो मूका वराका वयम् ॥ 28 ॥
मदन परिहर स्थितिं मदीये मनसि मुकुंदपदारविंदधाम्नि । हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ 29 ॥
तत्त्वं ब्रुवाणानि परं परस्मा- -न्मधु क्षरंतीव सतां फलानि । प्रावर्तय प्रांजलिरस्मि जिह्वे नामानि नारायण गोचराणि ॥ 30 ॥
इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसंधिजर्जरम् । किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ 31 ॥
दारा वाराकरवरसुता ते तनूजो विरिंचिः स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः । मुक्तिर्माया जगदविकलं तावकी देवकी ते माता मित्रं बलरिपुसुतस्त्वय्यतोऽन्यन्न जाने ॥ 32 ॥
कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्यहं कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः । कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम् ॥ 33 ॥
तत्त्वं प्रसीद भगवन् कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम् । संसारसागरनिमग्नमनंतदीन- -मुद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ 34 ॥
नमामि नारायणपादपंकजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ 35 ॥
श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे । श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥ 36 ॥
अनंत वैकुंठ मुकुंद कृष्ण गोविंद दामोदर माधवेति । वक्तुं समर्थोऽपि न वक्ति कश्चि- -दहो जनानां व्यसनाभिमुख्यम् ॥ 37 ॥
ध्यायंति ये विष्णुमनंतमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् । समाहितानां सतताभयप्रदं ते यांति सिद्धिं परमां च वैष्णवीम् ॥ 38 ॥
क्षीरसागरतरंगशीकरा- -ऽऽसारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ 39 ॥
यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशरावभूताम् । तेनांबुजाक्षचरणांबुजषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥ 40 ॥
इति कुलशेखर प्रणीतं मुकुंदमाला ।
Browse Related Categories: