Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालांतरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम्। गंडोद्यन्मकराभकुंडलयुगं कंठोज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे॥1॥
केयूरांगदकंकणोत्तममहारत्नांगुलीयांकित- श्रीमद्बाहुचतुष्कसंगतगदाशंखारिपंकेरुहाम् । कांचित् कांचनकांचिलांच्छितलसत्पीतांबरालंबिनी- मालंबे विमलांबुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
यत्त्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कांतं कांतिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौंदर्योत्तरतोऽपि सुंदरतरं त्वद्रूपमाश्चर्यतोऽ- प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥3॥
तत्तादृङ्मधुरात्मकं तव वपुः संप्राप्य संपन्मयी सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि । तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक - प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥4॥
लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे- त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते । ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना- स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥5॥
एवंभूतमनोज्ञतानवसुधानिष्यंदसंदोहनं त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् । सद्यः प्रेरयते मतिं मदयते रोमांचयत्यंगकं व्यासिंचत्यपि शीतवाष्पविसरैरानंदमूर्छोद्भवैः ॥6॥
एवंभूततया हि भक्त्यभिहितो योगस्स योगद्वयात् कर्मज्ञानमयात् भृशोत्तमतरो योगीश्वरैर्गीयते । सौंदर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥7॥
निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः । तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥8॥
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला बोधे भक्तिपथेऽथवाऽप्युचिततामायांति किं तावता । क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन- श्चित्तार्द्रत्वमृते विचिंत्य बहुभिस्सिद्ध्यंति जन्मांतरैः ॥9॥
त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं सिद्ध्यंती विमलप्रबोधपदवीमक्लेशतस्तन्वती । सद्यस्सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद- प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥10॥
Browse Related Categories: