Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
मुदा सुरौघैस्त्वमुदारसम्मदै- रुदीर्य दामोदर इत्यभिष्टुतः । मृदुदरः स्वैरमुलूखले लग- न्नदूरतो द्वौ ककुभावुदैक्षथाः ॥1॥
कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः । महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ । विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥3॥
भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदांधचेतसौ । इमौ भवद्भक्त्युपशांतिसिद्धये मुनिर्जगौ शांतिमृते कुतः सुखम् ॥4॥
युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् । इतीरेतौ तौ भवदीक्षणस्पृहां गतौ व्रजांते ककुभौ बभूवतुः ॥5॥
अतंद्रमिंद्रद्रुयुगं तथाविधं समेयुषा मंथरगामिना त्वया । तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥6॥
अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । महात्विषा यक्षयुगेन तत्क्षणा- दभाजि गोविंद भवानपि स्तवैः ॥7॥
इहान्यभक्तोऽपि समेष्यति क्रमात् भवंतमेतौ खलु रुद्रसेवकौ । मुनिप्रसादाद्भव्दंघ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥8॥
ततस्तरूद्दारणदारुणारव- प्रकंपिसंपातिनि गोपमंडले । विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नंदेन भवान् विमोक्षदः ॥9॥
महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना । इति ब्रुवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्वर पाहि मां गदात् ॥10॥
Browse Related Categories: