Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सैरंध्र्यास्तदनु चिरं स्मरातुराया यातोऽभूः सुललितमुद्धवेन सार्धम् । आवासं त्वदुपगमोत्सवं सदैव ध्यायंत्याः प्रतिदिनवाससज्जिकायाः ॥1॥
उपगते त्वयि पूर्णमनोरथां प्रमदसंभ्रमकंप्रपयोधराम् । विविधमाननमादधतीं मुदा रहसि तां रमयांचकृषे सुखम् ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
पृष्टा वरं पुनरसाववृणोद्वराकी भूयस्त्वया सुरतमेव निशांतरेषु । सायुज्यमस्त्विति वदेत् बुध एव कामं सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥3॥
ततो भवान् देव निशासु कासुचिन्मृगीदृशं तां निभृतं विनोदयन् । अदादुपश्लोक इति श्रुतं सुतं स नारदात् सात्त्वततंत्रविद्बबभौ ॥4॥
अक्रूरमंदिरमितोऽथ बलोद्धवाभ्या- मभ्यर्चितो बहु नुतो मुदितेन तेन । एनं विसृज्य विपिनागतपांडवेय- वृत्तं विवेदिथ तथा धृतराष्ट्र्चेष्टाम् ॥5॥
विघाताज्जामातुः परमसुहृदो भोजनृपते- र्जरासंधे रुंधत्यनवधिरुषांधेऽथ मथुराम् । रथाद्यैर्द्योर्लब्धैः कतिपयबलस्त्वं बलयुत- स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥6॥
बद्धं बलादथ बलेन बलोत्तरं त्वं भूयो बलोद्यमरसेन मुमोचिथैनम् । निश्शेषदिग्जयसमाहृतविश्वसैन्यात् कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥7॥
भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो युद्धं त्वया व्यधित षोडशकृत्व एवम् । अक्षौहिणीः शिव शिवास्य जघंथ विष्णो संभूय सैकनवतित्रिशतं तदानीम् ॥8॥
अष्टादशेऽस्य समरे समुपेयुषि त्वं दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या । त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये तत्राऽथ योगबलतः स्वजनाननैषीः ॥9॥
पदभ्यां त्वां पद्ममाली चकित इव पुरान्निर्गतो धावमानो म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः । सुप्तेनांघ्र्याहतेन द्रुतमथ मुचुकुंदेन भस्मीकृतेऽस्मिन् भूपायास्मै गुहांते सुललितवपुषा तस्थिषे भक्तिभाजे ॥10॥
ऐक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककांक्षी हा देवेति स्तुवंतं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् । मुक्तेस्तुल्यां च भक्तिं धुतसकलमलां मोक्षमप्याशु दत्वा कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रात्थ लोकप्रतीत्यै ॥11॥
तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां मगधपतिना मार्गे सैन्यैः पुरेव निवारितः । चरमविजयं दर्पायास्मै प्रदाय पलायितो जलधिनगरीं यातो वातालयेश्वर पाहि माम् ॥12॥
Browse Related Categories: