Adi Shankaracharya · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
न भूमिर्न तोयं न तेजो न वायुः न खं नेंद्रियं वा न तेषां समूहः अनेकांतिकत्वात्सुषुप्त्येकसिद्धः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 1 ॥
न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोपि अनात्माश्रयाहं ममाध्यासहाना- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 2 ॥
न माता पिता वा न देवा न लोका न वेदा न यज्ञा न तीर्थ ब्रुवंति सुषुप्तौ निरस्तातिशून्यात्मकत्वा- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 3 ॥
न सांख्यं न शैवं न तत्पांचरात्रं न जैनं न मीमांसकादेर्मतं वा विशिष्टानुभूत्या विशुद्धात्मकत्वा- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 4 ॥
न चोर्ध्वं न चाधो न चांतर्न बाह्यं न मध्यं न तिर्यन्न पूर्वाऽपरा दिक् वियद्व्यापकत्वादखंडैकरूपः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 5 ॥
न शुक्लं न कृष्णं न रक्तं न पीतं न कुब्जं न पीनं न ह्रस्वं न दीर्घं अरूपं तथा ज्योतिराकारकत्वा- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 6 ॥
न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपंचः स्वरूपावबोधी विकल्पासहिष्णुः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 7 ॥
न जाग्रन्न मे स्वप्नको वा सुषुप्तिः न विश्वो न वा तैजसः पाज्ञको वा अविद्यात्मकत्वात्त्रयाणं तुरीयः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
अपि व्यापकत्वाद्धितत्वप्रयोगा- त्स्वतः सिद्धभावादनन्याश्रयत्वात् जगत्तुच्छमेतत्समस्तं तदन्य- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 9 ॥
न चैकं तदन्यद्द्वितीयं कुतः स्यात् न केवलत्वं न चाकेवलत्वं न शून्यं न चाशून्यमद्वैतकत्वा- कथं सर्ववेदांतसिद्धिं ब्रवीमि ॥ 10 ॥
Browse Related Categories: