Sri Rama · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीमद्वाल्मीकीय रामायणे बालकांडम् । अथ प्रथमस्सर्गः ।
तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥ 1 ॥
कोऽन्वस्मिन्सांप्रतं लोके गुणवान् कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ 2 ॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः । विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ 3 ॥
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः । कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ 4 ॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे । महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ 5 ॥
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः । श्रूयतामिति चामंत्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ 6 ॥
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः । मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥ 7 ॥
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः । विपुलांसो महाबाहुः कंबुग्रीवो महाहनुः ॥ 9 ॥
महोरस्को महेष्वासो गूढजत्रुररिंदमः । आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ 10 ॥
समः समविभक्तांगः स्निग्धवर्णः प्रतापवान् । पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥ 11 ॥
धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् ॥ 12 ॥
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः । रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥ 13 ॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । वेदवेदांगतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥ 14 ॥
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान्प्रतिभानवान् । सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥ 15 ॥
सर्वदाभिगतः सद्भिः समुद्र इव सिंधुभिः । आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः ॥ 16 ॥
स च सर्वगुणोपेतः कौसल्यानंदवर्धनः । समुद्र इव गांभीर्ये धैर्येण हिमवानिव ॥ 17 ॥
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः । कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ 18 ॥
धनदेन समस्त्यागे सत्ये धर्म इवापरः । तमेवं गुणसंपन्नं रामं सत्यपराक्रमम् ॥ 19 ॥
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् । प्रकृतीनां हितैर्युक्तं प्रकृति प्रिय काम्यया ॥ 20 ॥
यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः । तस्याभिषेकसंभारान् दृष्ट्वा भार्याऽथ कैकयी ॥ 21 ॥
पूर्वं दत्तवरा देवी वरमेनमयाचत । विवासनं च रामस्य भरतस्याभिषेचनम् ॥ 22 ॥
स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामास सुतं रामं दशरथः प्रियम् ॥ 23 ॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् ॥ 24 ॥
तं व्रजंतं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद्विनयसंपन्नः सुमित्रानंदवर्धनः ॥ 25 ॥
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् । रामस्य दयिता भार्या नित्यं प्राणसमाहिता ॥ 26 ॥
जनकस्य कुले जाता देवमायेव निर्मिता । सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः ॥ 27 ॥
सीताऽप्यनुगता रामं शशिनं रोहिणी यथा । पौरैरनुगतो दूरं पित्रा दशरथेन च ॥ 28 ॥
शृंगिबेरपुरे सूतं गंगाकूले व्यसर्जयत् । गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ 29 ॥
गुहेन सहितो रामः लक्ष्मणेन च सीतया । ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ॥ 30 ॥
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् । रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥ 31 ॥
देवगंधर्वसंकाशास्तत्र ते न्यवसन्सुखम् । चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ॥ 32 ॥
राजा दशरथः स्वर्गं जगाम विलपन्सुतम् । मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः ॥ 33 ॥
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः । स जगाम वनं वीरो रामपादप्रसादकः ॥ 34 ॥
गत्वा तु स महात्मानं रामं सत्यपराक्रमम् । अयाचद्भ्रातरं रामं आर्यभावपुरस्कृतः ॥ 35 ॥
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् । रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥ 36 ॥
न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः । पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥ 37 ॥
निवर्तयामास ततो भरतं भरताग्रजः । स काममनवाप्यैव रामपादावुपस्पृशन् ॥ 38 ॥
नंदिग्रामेऽकरोद्राज्यं रामागमनकांक्षया । गते तु भरते श्रीमान् सत्यसंधो जितेंद्रियः ॥ 39 ॥
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रो दंडकान्प्रविवेश ह ॥ 40 ॥
प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभंगं ददर्श ह ॥ 41 ॥
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा । अगस्त्यवचनाच्चैव जग्राहैंद्रं शरासनम् ॥ 42 ॥
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ । वसतस्तस्य रामस्य वने वनचरैः सह ॥ 43 ॥
ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् । स तेषां प्रतिशुश्राव राक्षसानां तथा वने ॥ 44 ॥
प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् । ऋषीणामग्निकल्पानां दंडकारण्यवासिनाम् ॥ 45 ॥
तेन तत्रैव वसता जनस्थाननिवासिनी । विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ 46 ॥
ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥ 47 ॥
निजघान रणे रामस्तेषां चैव पदानुगान् । वने तस्मिन्निवसता जनस्थाननिवासिनाम् ॥ 48 ॥
रक्षसां निहतान्यासन्सहस्राणि चतुर्दश । ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥ 49 ॥
सहायं वरयामास मारीचं नाम राक्षसम् । वार्यमाणः सुबहुशो मारीचेन स रावणः ॥ 50 ॥
न विरोधो बलवता क्षमो रावण तेन ते । अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥ 51 ॥
जगाम सहमारीचः तस्याश्रमपदं तदा । तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥ 52 ॥
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् । गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥ 53 ॥
राघवः शोकसंतप्तो विललापाकुलेंद्रियः । ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥ 54 ॥
मार्गमाणो वने सीतां राक्षसं संददर्श ह । कबंधं नाम रूपेण विकृतं घोरदर्शनम् ॥ 55 ॥
तं निहत्य महाबाहुः ददाह स्वर्गतश्च सः । स चास्य कथयामास शबरीं धर्मचारिणीम् ॥ 56 ॥
श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् । सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ 57 ॥
शबर्या पूजितः सम्यग्रामो दशरथात्मजः । पंपातीरे हनुमता संगतो वानरेण ह ॥ 58 ॥
हनुमद्वचनाच्चैव सुग्रीवेण समागतः । सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ 59 ॥
आदितस्तद्यथावृत्तं सीतयाश्च विशेषतः । सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥ 60 ॥
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् । ततो वानरराजेन वैरानुकथनं प्रति ॥ 61 ॥
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च । प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥ 62 ॥
वालिनश्च बलं तत्र कथयामास वानरः । सुग्रीवः शंकितश्चासीन्नित्यं वीर्येण राघवे ॥ 63 ॥
राघवः प्रत्ययार्थं तु दुंदुभेः कायमुत्तमम् । दर्शयामास सुग्रीवो महापर्वत सन्निभम् ॥ 64 ॥
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः । पादांगुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥ 65 ॥
बिभेद च पुनः सालान्सप्तैकेन महेषुणा । गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ॥ 66 ॥
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः । किष्किंधां रामसहितो जगाम च गुहां तदा ॥ 67 ॥
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिंगलः । तेन नादेन महता निर्जगाम हरीश्वरः ॥ 68 ॥
अनुमान्य तदा तारां सुग्रीवेण समागतः । निजघान च तत्रैनं शरेणैकेन राघवः ॥ 69 ॥
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे । सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ 70 ॥
स च सर्वान्समानीय वानरान्वानरर्षभः । दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ 71 ॥
ततो गृध्रस्य वचनात्संपातेर्हनुमान्बली । शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ 72 ॥
तत्र लंकां समासाद्य पुरीं रावणपालिताम् । ददर्श सीतां ध्यायंतीं अशोकवनिकां गताम् ॥ 73 ॥
निवेदयित्वाऽभिज्ञानं प्रवृत्तिं च निवेद्य च । समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ 74 ॥
पंच सेनाग्रगान्हत्वा सप्त मंत्रिसुतानपि । शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ 75 ॥
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् । मर्षयन्राक्षसान्वीरो यंत्रिणस्तान्यदृच्छया ॥ 76 ॥
ततो दग्ध्वा पुरीं लंकां ऋते सीतां च मैथिलीम् । रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥ 77 ॥
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् । न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ 78 ॥
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः । समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ 79 ॥
दर्शयामास चात्मानं समुद्रः सरितां पतिः । समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ 80 ॥
तेन गत्वा पुरीं लंकां हत्वा रावणमाहवे । रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥ 81 ॥
तामुवाच
ततो रामः परुषं जनसंसदि । अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥ 82
ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् । बभौ रामः संप्रहृष्टः पूजितः सर्वदैवतैः ॥ 83 ॥
कर्मणा तेन महता त्रैलोक्यं सचराचरम् । सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ 84 ॥
अभिषिच्य च लंकायां राक्षसेंद्रं विभीषणम् । कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ 85 ॥
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् । अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥ 86 ॥
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः । भरतस्यांतिकं रामो हनूमंतं व्यसर्जयत् ॥ 87 ॥
पुनराख्यायिकां जल्पन्सुग्रीवसहितश्च सः । पुष्पकं तत्समारुह्य नंदिग्रामं ययौ तदा ॥ 88 ॥
नंदिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः । रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ 89 ॥
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः । निरामयो ह्यरोगश्च दुर्भिक्ष भयवर्जितः ॥ 90 ॥
न पुत्रमरणं किंचिद्द्रक्ष्यंति पुरुषाः क्वचित् । नार्यश्चाविधवा नित्यं भविष्यंति पतिव्रताः ॥ 91 ॥
न चाग्निजं भयं किंचिन्नाप्सु मज्जंति जंतवः । न वातजं भयं किंचिन्नापि ज्वरकृतं तथा ॥ 92 ॥
न चापि क्षुद्भयं तत्र न तस्करभयं तथा । नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥ 93 ॥
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा । अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥ 94 ॥
गवां कोट्ययुतं दत्वा ब्रह्मलोकं प्रयास्यति । असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः ॥ 95 ॥
राजवंशान् शतगुणान् स्थापयिष्यति राघवः । चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥ 96 ॥
दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ 97 ॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् । यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ 98 ॥
एतदाख्यानमायुष्यं पठन्रामायणं नरः । सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ 99 ॥
पठन् द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात् । वणिग्जनः पण्यफलत्वमीयात् जनश्च शूद्रोऽपि महत्त्वमीयात् ॥ 100 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे नारदवाक्यं नाम प्रथमः सर्गः ॥
Browse Related Categories: