Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
या कुंदेंदु तुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदंडमंडितकरा या श्वेतपद्मासना । या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैस्सदा पूजिता सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ 1 ॥
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभै रक्षमालांदधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण । भासा कुंदेंदुशंखस्फटिकमणिनिभा भासमानाzसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2 ॥
सुरासुरैस्सेवितपादपंकजा करे विराजत्कमनीयपुस्तका । विरिंचिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ 3 ॥
सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया । घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ 4 ॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥ 5 ॥
सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः । शांतरूपे शशिधरे सर्वयोगे नमो नमः ॥ 6 ॥
नित्यानंदे निराधारे निष्कलायै नमो नमः । विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ 7 ॥
शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः । शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
मुक्तालंकृत सर्वांग्यै मूलाधारे नमो नमः । मूलमंत्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ 9 ॥
मनोन्मनि महाभोगे वागीश्वरि नमो नमः । वाग्म्यै वरदहस्तायै वरदायै नमो नमः ॥ 10 ॥
वेदायै वेदरूपायै वेदांतायै नमो नमः । गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ 11 ॥
सर्वज्ञाने सदानंदे सर्वरूपे नमो नमः । संपन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥ 12 ॥
योगानार्य उमादेव्यै योगानंदे नमो नमः । दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ 13 ॥
अर्धचंद्रजटाधारि चंद्रबिंबे नमो नमः । चंद्रादित्यजटाधारि चंद्रबिंबे नमो नमः ॥ 14 ॥
अणुरूपे महारूपे विश्वरूपे नमो नमः । अणिमाद्यष्टसिद्धायै आनंदायै नमो नमः ॥ 15 ॥
ज्ञान विज्ञान रूपायै ज्ञानमूर्ते नमो नमः । नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ॥ 16 ॥
पद्मजा पद्मवंशा च पद्मरूपे नमो नमः । परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥ 17 ॥
महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः । ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥ 18 ॥
कमलाकरपुष्पा च कामरूपे नमो नमः । कपालिकर्मदीप्तायै कर्मदायै नमो नमः ॥ 19 ॥
सायं प्रातः पठेन्नित्यं षण्मासात्सिद्धिरुच्यते । चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥ 20 ॥
इत्थं सरस्वती स्तोत्रमगस्त्यमुनि वाचकम् । सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ 21 ॥
Browse Related Categories: