Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ महामायायै नमः । ॐ महाविद्यायै नमः । ॐ महायोगायै नमः । ॐ महोत्कटायै नमः । ॐ माहेश्वर्यै नमः । ॐ कुमार्यै नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मरूपिण्यै नमः । ॐ वागीश्वर्यै नमः । ॐ योगरूपायै नमः । 10 ।
ॐ योगिनीकोटिसेवितायै नमः । ॐ जयायै नमः । ॐ विजयायै नमः । ॐ कौमार्यै नमः । ॐ सर्वमंगलायै नमः । ॐ हिंगुलायै नमः । ॐ विलास्यै नमः । ॐ ज्वालिन्यै नमः । ॐ ज्वालरूपिण्यै नमः । ॐ ईश्वर्यै नमः । 20 ।
ॐ क्रूरसंहार्यै नमः । ॐ कुलमार्गप्रदायिन्यै नमः । ॐ वैष्णव्यै नमः । ॐ सुभगाकारायै नमः । ॐ सुकुल्यायै नमः । ॐ कुलपूजितायै नमः । ॐ वामांगायै नमः । ॐ वामचारायै नमः । ॐ वामदेवप्रियायै नमः । ॐ डाकिन्यै नमः । 30 ।
ॐ योगिनीरूपायै नमः । ॐ भूतेश्यै नमः । ॐ भूतनायिकायै नमः । ॐ पद्मावत्यै नमः । ॐ पद्मनेत्रायै नमः । ॐ प्रबुद्धायै नमः । ॐ सरस्वत्यै नमः । ॐ भूचर्यै नमः । ॐ खेचर्यै नमः । ॐ मायायै नमः । 40 ।
ॐ मातंग्यै नमः । ॐ भुवनेश्वर्यै नमः । ॐ कांतायै नमः । ॐ पतिव्रतायै नमः । ॐ साक्ष्यै नमः । ॐ सुचक्षुषे नमः । ॐ कुंडवासिन्यै नमः । ॐ उमायै नमः । ॐ कुमार्यै नमः । ॐ लोकेश्यै नमः । 50 ।
ॐ सुकेश्यै नमः । ॐ पद्मरागिण्यै नमः । ॐ इंद्राण्यै नमः । ॐ ब्रह्मचंडाल्यै नमः । ॐ चंडिकायै नमः । ॐ वायुवल्लभायै नमः । ॐ सर्वधातुमय्यै नमः । ॐ मूर्तये नमः । ॐ जलरूपायै नमः । ॐ जलोदर्यै नमः । 60 ।
ॐ आकाश्यै नमः । ॐ रणगायै नमः । ॐ नृकपालविभूषणायै नमः । ॐ नर्मदायै नमः । ॐ मोक्षदायै नमः । ॐ धर्मकामार्थदायिन्यै नमः । ॐ गायत्र्यै नमः । ॐ सावित्र्यै नमः । ॐ त्रिसंध्यायै नमः । ॐ तीर्थगामिन्यै नमः । 70 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ अष्टम्यै नमः । ॐ नवम्यै नमः । ॐ दशम्यै नमः । ॐ एकादश्यै नमः । ॐ पौर्णमास्यै नमः । ॐ कुहूरूपायै नमः । ॐ तिथिमूर्तिस्वरूपिण्यै नमः । ॐ सुरारिनाशकार्यै नमः । ॐ उग्ररूपायै नमः । ॐ वत्सलायै नमः । 80 ।
ॐ अनलायै नमः । ॐ अर्धमात्रायै नमः । ॐ अरुणायै नमः । ॐ पीतलोचनायै नमः । ॐ लज्जायै नमः । ॐ सरस्वत्यै नमः । ॐ विद्यायै नमः । ॐ भवान्यै नमः । ॐ पापनाशिन्यै नमः । ॐ नागपाशधरायै नमः । 90 ।
ॐ मूर्तये नमः । ॐ अगाधायै नमः । ॐ धृतकुंडलायै नमः । ॐ क्षत्ररूपायै नमः । ॐ क्षयकर्यै नमः । ॐ तेजस्विन्यै नमः । ॐ शुचिस्मितायै नमः । ॐ अव्यक्तायै नमः । ॐ व्यक्तलोकायै नमः । ॐ शंभुरूपायै नमः । 100 ।
ॐ मनस्विन्यै नमः । ॐ मातंग्यै नमः । ॐ मत्तमातंग्यै नमः । ॐ सदामहादेवप्रियायै नमः । ॐ दैत्यघ्न्यै नमः । ॐ वाराह्यै नमः । ॐ सर्वशास्त्रमय्यै नमः । ॐ शुभायै नमः । 108 ।
इति श्री भुवनेश्वर्यष्टोत्तरशतनामावलिः ।
Browse Related Categories: