Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् । सुरद्विषां प्राणविनाशि विष्णोः चक्रं सदाऽहं शरणं प्रपद्ये ॥ 1 ॥
विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहंता । तं पांचजन्यं शशिकोटिशुभ्रं शंखं सदाऽहं शरणं प्रपद्ये ॥ 2 ॥
हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलैकहंत्रीम् । वैकुंठवामाग्रकराग्रमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ 3 ॥
यज्ज्यानिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः । भवंति दैत्याशनिबाणवर्षैः शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ 4 ॥
रक्षोऽसुराणां कठिनोग्रकंठ- -च्छेदक्षरत्क्षोणित दिग्धसारम् । तं नंदकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये ॥ 5 ॥
इमं हरेः पंचमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते । समस्त दुःखानि भयानि सद्यः पापानि नश्यंति सुखानि संति ॥ 6 ॥
वने रणे शत्रु जलाग्निमध्ये यदृच्छयापत्सु महाभयेषु । पठेत्विदं स्तोत्रमनाकुलात्मा सुखीभवेत्तत्कृत सर्वरक्षः ॥ 7 ॥
सचक्रशंखं सगदासिशार्ङ्गं [यच्चक्रशंखं गदखड्गशारंगिणं] पीतांबरं कौस्तुभ-वत्स-चिह्नम् । [कौस्तुभ-वत्स-लांछितम्] श्रिया समेतोज्ज्वल शोभितांगं विष्णुं सदाऽहं शरणं प्रपद्ये ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
जले रक्षतु वाराहः स्थले रक्षतु वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥
इति पंचायुध स्तोत्रम् ॥
Browse Related Categories: