Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अष्टोत्तरशतं नाम्नां विष्णोरतुलतेजसः । यस्य श्रवणमात्रेण नरो नारायणो भवेत् ॥ 1 ॥
विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः । [वृषापतिः] दामोदरो दीनबंधुरादिदेवोऽदितेस्तुतः ॥ 2 ॥
पुंडरीकः परानंदः परमात्मा परात्परः । परशुधारी विश्वात्मा कृष्णः कलिमलापहा ॥ 3 ॥
कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः । हरो हरप्रियः स्वामी वैकुंठो विश्वतोमुखः ॥ 4 ॥
हृषीकेशोऽप्रमेयात्मा वराहो धरणीधरः । वामनो वेदवक्ता च वासुदेवः सनातनः ॥ 5 ॥
रामो विरामो विरजो रावणारी रमापतिः । वैकुंठवासी वसुमान् धनदो धरणीधरः ॥ 6 ॥
धर्मेशो धरणीनाथो ध्येयो धर्मभृतांवरः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ 7 ॥
सर्वगः सर्ववित्सर्वः शरण्यः साधुवल्लभः । [सर्वदः] कौसल्यानंदनः श्रीमान् राक्षसःकुलनाशकः ॥ 8 ॥
जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा । जानकीवल्लभो देवो जयरूपो जलेश्वरः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा । शेषशायी पन्नगारिवाहनो विष्टरश्रवः ॥ 10 ॥
माधवो मथुरानाथो मुकुंदो मोहनाशनः । दैत्यारिः पुंडरीकाक्षो ह्यच्युतो मधुसूदनः ॥ 11 ॥
सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सलः । नित्यो निरामयश्शुद्धो वरदेवो जगत्प्रभुः ॥ 12 ॥ [नरदेवो]
हयग्रीवो जितरिपुरुपेंद्रो रुक्मिणीपतिः । सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ॥ 13 ॥
सौम्यः सौम्यप्रदः स्रष्टा विष्वक्सेनो जनार्दनः । यशोदातनयो योगी योगशास्त्रपरायणः ॥ 14 ॥
रुद्रात्मको रुद्रमूर्तिः राघवो मधुसूधनः । [रुद्रसूदनः] इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ 15 ॥
सर्वपापहरं पुण्यं दिव्योरतुलतेजसः । दुःखदारिद्र्यदौर्भाग्यनाशनं सुखवर्धनम् ॥ 16 ॥
सर्वसंपत्करं सौम्यं महापातकनाशनम् । प्रातरुत्थाय विपेंद्र पठेदेकाग्रमानसः ॥ 17 ॥
तस्य नश्यंति विपदां राशयः सिद्धिमाप्नुयात् ॥ 18 ॥
इति श्री विष्णोः अष्टोत्तरशतनाम स्तोत्रम् ॥
Browse Related Categories: