Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
वेदांतडिंडिमास्तत्वमेकमुद्धोषयंति यत् । आस्तां पुरस्तांतत्तेजो दक्षिणामूर्तिसंज्ञितम् ॥ 1
आत्माऽनात्मा पदार्थौ द्वौ भोक्तृभोग्यत्वलक्षणौ । ब्रह्मेवाऽऽत्मान देहादिरिति वेदांतडिंडिमः ॥ 2
ज्ञानाऽज्ञाने पदार्थों द्वावात्मनो बंधमुक्तिदौ । ज्ञानान्मुक्ति निर्बंधोऽन्यदिति वेदांतडिंडिमः ॥ 3
ज्ञातृ ज्ञेयं पदार्थौ द्वौ भास्य भासकलक्षणौ । ज्ञाता ब्रह्म जगत् ज्ञेय मिति वेदांतडिंडिमः ॥ 4
सुखदुःखे पदार्थौ द्वौ प्रियविप्रियकारकौ । सुखं ब्रह्म जगहुःख मिति वेदांतडिंडिमः॥ 5
समष्टिव्यष्टिरूपौ द्वौ पदार्थौ सर्वसंमतौ । समष्टिरीश्वरो व्यष्टिर्जीवो वेदांतडिंडिमः ॥ 6
ज्ञानं कर्म पदार्थौ द्वौ वस्तुकत्रात्म तंत्रकौ । ज्ञानान्मोक्षो न कर्मभ्य इति वेदांतडिंडिमः ॥ 7
श्रोतव्याऽश्रव्यरूपी द्वौ पदार्थों सुखदुःखदौ । श्रोतव्यं ब्रह्म नैवाऽन्य दिति वेदांतडिंडिमः॥ 8
चिंत्याऽचिंत्ये पदाथौ द्वौ विश्रांति श्रांतिदायकौ । चिंत्यं ब्रह्म परं नाऽन्य दिति वेदांतडिंडिमः॥ 9
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ध्येयाऽध्वेये पदार्थौ द्वौ द्वौ धीसमाध्यसमाधिदौ । ध्यातव्यं ब्रह्म नैवाऽन्य दिति वेदांतडिंडिमः॥ 10
योगिनो भोगिनो वाऽपि त्यागिनो रागिणोऽपि च । ज्ञानान्मोक्षो न संदेह इति वेदांतडिंडिमः ॥ 11
न वर्णाश्रम संकेतैः न कोपासनादिभिः। ब्रह्मज्ञानं विना मोक्षः इति वेदांतडिंडिमः ॥ 12
असत्यस्सर्वसंसारो रसामासादिदूषितः । उपेक्ष्यो ब्रह्म विज्ञेय मिति वेदांतडिंडिमः ॥ 13
वृथा क्रियां वृथाऽलापान् वृथावादान् मनोरथान् । त्यत्वैकं ब्रह्म विज्ञेय मिति वेदांतडिंडिमः ॥ 14
स्थितो ब्रह्मात्मना जीवो ब्रह्म जीवात्मना स्थितम् । इति संपश्यतां मुक्ति रिति वेदांतडिंडिमः॥ 15
जीवो ब्रह्मात्मना ज्ञेयो ज्ञेयं जीवात्मना परम् । मुक्तिस्त दैक्यविज्ञान मिति वेदांतडिंडिमः ॥ 16 सर्वात्मना परं ब्रह्म श्रोतुरात्मतया स्थितम् । नाऽऽयास स्तव विज्ञप्तौ इति वेदांतडिंडिमः ॥ 17
ऐहिकं चाऽऽमुध्मिकं च तापांतं कर्मसंचयम् । त्यत्वा ब्रह्मैव विज्ञेय मिति वेदांतडिंडिमः ॥ 18
अद्वैतद्वैतवादौ द्वौ सूक्ष्मस्थूलदशां गतौ । अद्वैतवादान्मोक्षस्स्या दिति वेदांतडिंडिमः ॥19
कर्मिणो विनिवर्तंते निवर्तंत उपासकाः। ज्ञानिनो न निवर्तंते इति वेदांतडिंडिमः ॥ 20
परोक्षाऽसत्फलं कर्मज्ञानं प्रत्यक्षसत्फलम् । ज्ञानमेवाऽभ्यसेत्तस्मात् इति वेदांतडिंडिमः ॥21
वृथा श्रमोऽयं विदुषा वृथाऽयं-कर्मिणां श्रमः । यदि न ब्रह्मविज्ञानं इति ॥ वेदांतडिंडिमः ॥ 22
अलं यागैरलं योगैरलं भोगै रलं धनैः । परस्मिन्ब्रह्मणि ज्ञात इति वेदांतडिंडिमः ॥23
अलं वेदैरलं शास्त्रैरलमं स्मृतिपुराणकैः । परमात्मनि विज्ञाते इति वेदांतडिंडिमः ॥ 24
नर्चा न यजुषोऽर्थोऽस्ति न सान्नर्थोऽति कश्चन । जाते ब्रह्मात्मविज्ञाने इति वेदांतडिंडिमः ॥ 25
कर्माणि चित्तशुद्ध्यर्थं मैकाग्र्यार्थ मुपासनम् । मोक्षार्थं ब्रह्मविज्ञान मिति वेदांतडिंडिमः ॥ 26
संचितागामिकर्माणि दह्यंते ज्ञानकर्मणा । प्रारब्धानुभवान्मोक्ष इति वेदांतडिंडिमः॥ 27
न पुण्यकर्मणा वृद्धिः न हानिः पापकर्मणा । नित्यासंगात्मनिष्ठानामिति वेदांतडिंडिमः॥ 28
दृग्दृश्यौ द्वौ पदार्थौ तौ परस्परविलक्षणौ । दृग्ब्रह्म दृश्यं माया स्यादिति वेदांतडिंडिमः ॥ 29
अविद्योपाधिको जीवो मायोपाधिक ईश्वरः । मायाऽविद्यागुणातीतः इति वेदांतडिंडिमः ॥ 30
बुद्धिपूर्वाऽबुद्धिपूर्वकृतानां पापकर्मणाम् । प्रायश्चित्तमहोज्ञान मिति वेदांतडिंडिमः ॥ 31
साकारं च निराकारं निर्गुणं च गुणात्मकम् । तत्त्वं तत्परमं ब्रह्म इति वेदांतडिंडिमः ॥ 32
द्विजत्वं विध्यनुष्ठानात् विप्रत्वं वेदपाठतः । ब्राह्मण्यं ब्रह्मविज्ञानात् इति वेदांतडिंडिमः ॥ 33
सर्वात्मना स्थितं ब्रह्म सर्वं ब्रह्मात्मना स्थितम् । न कार्यं कारणाद्भिन्न मिति वेदांतडिंडिमः ॥ 34
सत्तास्फुरणसौख्यानि भासंते सर्ववस्तुषु । तस्माद्ब्रह्ममयं सर्व मिति वेदांतडिंडिमः ॥ 35
अवस्थात्रितयं यस्य क्रीडाभूमितया स्थितम् । तदेव ब्रह्म जानीयात् इति वेदांतडिंडिमः॥ 36
यन्नाऽऽदौ यश्च नाऽस्त्यंते तन्मध्ये भातमप्यसत् । अतो मिथ्या जगत्सर्वमिति वेदांतडिंडिमः ॥ 37
यदस्त्यादौ यदस्त्यंते यन्मध्ये भाति तत्स्वयम् । प्रौकमिदं सत्य मिति वेदांतडिंडिमः ॥ 38
पुरुषार्थत्रयाविष्टाः पुरुषाः पशवो धृवम् । मोक्षार्थी पुरुषः श्रेष्ठः इति वेदांतडिंडिमः ॥ 39
घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च । तथा ब्रह्म जगत्सर्व मिति वेदांतडिंडिमः ॥ 40
षण्णिहत्य त्रयं हित्वा द्वयं भिस्वाऽखिलागतिम् । एकं बुद्धाऽऽश्रुते मोक्ष मिति वेदांतडिंडिमः ॥ 41
भित्वा षट् पंच भित्त्वाऽथ भिश्वाऽथ चतुरखिकम् । द्वयं हित्वा श्रयेदेक मिति वेदांतडिंडिमः ॥ 42
देहो नाह महं देही देहसाक्षीति निश्चयात् । जन्ममृत्युपहीणोऽसौ इति वेदांतडिंडिमः ॥ 43
प्राणोनाहमहं देवः प्राणस्साक्षीति निश्चयात् । क्षुत्पिपासोपशांति स्स्यात् इति वेदांतडिंडिमः ॥ 44
मनो नाऽह महं देवो मनस्साक्षीति निश्चयात् । शोकमोहापहानिरस्यात् वेदांतडिंडिमः ॥ 45
बुद्धिर्नाऽहमहं देवो बुद्धिसाक्षीति निश्चयात् । कर्तृभावनिर्वृत्तिस्स्यात् इति वेदांतडिंडिमः ॥ 46
नाज्ञानं स्यामहं देवोऽज्ञानसाक्षीति निश्चयात् । सर्वानर्थनिवृत्तिस्यात् इति वेदांतडिंडिमः ॥ 47
अहं साक्षीति यो विद्यात् विविच्यैवं पुन: पुनः । स एव मुक्तोऽसौ विद्वान् इति वेदांतडिंडिमः ॥ 48
नाहं माया न तत्कार्यं न साक्षी परमोऽस्म्यहम् । इति निस्संशयज्ञानात् मुक्तिर्वे वेदांतडिंडिमः ॥ 49
नाऽहं सर्व महं सर्वं मयि सर्वमिति स्फुटम् । ज्ञाते तत्वे कुतो दुःख मिति वेदांतडिंडिमः ॥ 50
देहादिपंचकोशस्था या सत्ता प्रतिभासते । सा सत्तास्स्त्मा न संदेह इति वेदांतडिंडिमः ॥ 51
देहादिपंचकोशस्था या स्फूर्ति रनुभूयते । सा स्फूर्तिरात्मा नैवाऽन्य दिति वेदांतडिंडिमः ॥ 52
देहादिपंचकोशस्था या प्रीतिरनुभूयते । सा प्रीतिरात्मा कूटस्थः इति वेदांतडिंडिमः ॥ 53
व्योमादिपंचभूतस्था यासत्ता भासते नृणाम् । सा सत्ता परमं ब्रह्म इति वेदांतडिंडिमः ॥ 54
व्योमादिपंचभूतस्था या चिदेकाऽनुभूयते । सा चिदेव परं ब्रह्म इति वेदांतडिंडिमः ॥ 55
व्योमादिपंचभूतस्था या प्रीतिरनुभूयते । साप्रीतिरेव ब्रह्म स्यात् इति वेदांतडिंडिमः ॥ 56
देहादिकोशगा सत्ता या सा व्योमादिभूतगा । मानोऽभावान्न तद्भेदः इति वेदांतडिंडिमः ॥ 57
देहाविकोशगा स्फूर्तिर्या सा व्योमादिभूतगा । मानोऽभावा न तद्भेद इति वेदांतडिंडिमः ॥ 58
देहादिकोशगा प्रीतिर्या सा व्योमादिभूतगा । मानाऽभावा न्न तद्भेद इति वेदांतडिंडिमः॥ 59
सच्चिदानंदरूपत्वात् ब्रह्मैवाऽत्मा न संशयः। प्रमाणकोटिसंघानात् इति वेदांतडिंडिमः॥60
न जीवब्रह्मणोर्भेदः सत्तारूपेण विद्यते। सत्ताभेदे न मानं स्यात् इति वेदांतडिंडिमः॥61
न जीवब्रह्मणोर्भेदः स्फूर्तिरूपेण विद्यते । स्फूर्तिभेदे न मानं स्यात् इति वेदांतडिंडिमः ॥62
न जीवब्रह्मणोर्भेदः प्रियरूपेण विद्यते । प्रियभेदे न मानं स्यात् इति वेदांतडिंडिमः ॥ 63
न जीवब्रह्मणोर्भेदो नाना रूपेण विद्यते । नाम्नो रूपस्य मिथ्यात्वात् इति वेदांतडिंडिमः ॥ 64
न जीवब्रह्मणोर्भेदः पिंडब्रह्मांडभेदतः । व्यष्टेस्समष्टेरेकत्वात् इति वेदांतडिंडिमः ॥ 65
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव ना¶ः । जीवन्मुक्तस्तु तद्विद्वान् इति वेदांतडिंडिमः ॥ 66
न नामरूपे नियते सर्वत्र व्यभिचारतः । अनामरूपं सर्वं स्यात् इति वेदांतडिंडिमः ॥ 67
अनामरूपं सकलं सन्मयं चिन्मयं परम् । कुतो भेदः कुतो बंधः इति वेदांतडिंडिमः ॥ 68
न तत्त्वात्कथ्यते लोको नामाद्यैर्व्यभिचारतः। वटुर्जरठ इत्याद्यै रिति वेदांतडिंडिमः ॥ 69
नामरूपात्मकं विश्वमिंद्रजालं विदुर्बुधाः । अनामत्वादयुक्तत्वात् इति वेदांतडिंडिमः ॥ 70
अभेददर्शनं मोक्षः संसाये भेददर्शनम् । सर्ववेदांतसिद्धांतः इति वेदांतडिंडिमः ॥ 71
न मताभिनिवेशित्वात् न भाषावेशमात्रतः । मुक्ति र्विनाऽऽत्मविज्ञानात् इति वेदांतडिंडिमः ॥ 72
न कास्यप्रतिषिद्धाभिः क्रियाभि मोक्षवासना । ईश्वरानुग्रहात्सा स्यात् इति वेदांतडिंडिमः ॥ 73
अविज्ञाते जन्म नष्टं विज्ञाते जन्म सार्थकम् । ज्ञातुरात्मा न दूरे स्यात् इति वेदांतडिंडिमः ॥ 74
दशमस्य परिज्ञानेनाऽऽयासोऽस्ति यथाः तथा । स्वस्थ ब्रह्मात्मविज्ञाने इति वेदांतडिंडिमः ॥ 75
उपेक्ष्योपाधिकान् दोषान् गृह्यंते विषमा यथा । उपेक्ष्य दृश्यं य द्ब्रह्म इति वेदांतडिंडिमः ॥ 76
सुखमल्पं बहुः क्लेशोविषयमाहिणां नृणाम् । अनंतं ब्रह्मनिष्ठानां इति वेदांतडिंडिमः ॥ 77
धनैर्वा धनदैः पुत्रैः दारागारसहोदरैः । धृवं प्राणहरैर्दुःखं इति वेदांतडिंडिमः॥ 78
सुप्ते रुत्थाय सुप्त्यंत्यं ब्रह्मैकं प्रविचिंत्यताम् । नातिदूरे नृणां मृत्युः इति वेदांतडिंडिमः ॥ 79
पंचानामपिकोशानां मायाऽनर्थाव्ययोचिता । तत्साक्षि ब्रह्म विज्ञान मिति वेदांतडिंडिमः ॥ 80
दशमत्वपरिज्ञाने ननज्ञस्य यथा सुखम् । तथा जीवस्य सत्प्राप्तौ इति वेदांतडिंडिमः॥ 81
नवभ्योऽस्ति परं प्रत्यक्नस वेद परं परम् । तद्विज्ञानाद्भवेत्तुर्या मुक्ति र्वेदांतडिंडिमः ॥ 82
नवाऽऽभासानवज्ञत्वात् नवोपाधीन्नवात्मना । मिथ्या ज्ञात्वाऽवशिष्टे तु मौनं वेदांतडिंडिमः॥ 83
परमे ब्रह्मणि स्वस्मिन् प्रविलाप्याऽखिलं जगत् । गायनद्वतमानंदं आस्ते वेदांतडिंडिमः ॥ 84
प्रतिलोमानुलोमाभ्यां विश्वारोपापवादयोः । चिंतने शिष्यते तत्वं इति वेदांतडिंडिमः ॥ 85
नामरूपाभिमानस्थात् संसारसर्वदेहिनाम् । सच्चिदानंददृष्टिस्त्यात् मुक्तिर्वेदांतडिंडिमः ॥ 86
सचिदानंदसत्यत्वे मिथ्यात्वे नामरूपयोः। विज्ञाते किमिदं ज्ञेयं इति वेदांतडिंडिमः ॥ 86
सालंबनं निरालंबं सर्वालंबावलंबितम् । आलंबेनाऽखिलालंब मिति वेदांतडिंडिमः॥ 88
न कुर्या न्न विजानीयात् सर्वं ब्रह्मेत्यनुस्मरन् । यथा सुखं तथा तिष्ठेत् इति वेदांतडिंडिमः॥ 89
स्वकर्मपाशवशगः प्राज्ञोऽन्यो वा जनो ध्रुवम् । प्राज्ञस्सुखं नयेत्काल मिति वेदांतडिंडिमः॥ 90
न विद्वान् संतपे चित्तं करणाकरणे ध्रुवम् । सर्वमात्मेति विज्ञानात् इति वेदांतडिंडिमः. ॥ 91
नैवास्स्भासं स्पृशेत्कर्ममिथ्योपाधिमपि स्वयम् । कुतोऽधिष्ठानमत्यच्छमिति वेदांतडिंडिमः॥ 92
अहोऽस्माक मलं मोहैरात्मा ब्रह्मेति निर्भयम् । श्रुतिभेरीरवोऽद्याऽपि श्रूयते श्रुतिरंजनः ॥ 93
वेदांतभेरीझवारः प्रतिवादिभयंकरः । श्रूयतां ब्राह्मणैः श्रीमद्दक्षिणामूर्त्यनुग्रहात् ॥ 94
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकर- भगवत्पूज्यपादकृतिषु वेदांतडिंडिमः॥
Browse Related Categories: