Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न लभ्यंते चत्वारः सहजा गुणाः ॥ 01 ॥
आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् । स्वयमेव लयं याति यथा राजान्यधर्मतः ॥ 02 ॥
हस्ती स्थूलतनुः स चांकुशवशः किं हस्तिमात्रोऽंकुशो दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः । वज्रेणापि हताः पतंति गिरयः किं वज्रमात्रं नगा- स्तेजो यस्य विराजते स बलवान्स्थूलेषु कः प्रत्ययः ॥ 03 ॥
कलौ दशसहस्राणि हरिस्त्यजति मेदिनीम् । तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः ॥ 04 ॥
गृहासक्तस्य नो विद्या नो दया मांसभोजिनः । द्रव्यलुब्धस्य नो सत्यं स्त्रैणस्य न पवित्रता ॥ 05 ॥
न दुर्जनः साधुदशामुपैति बहुप्रकारैरपि शिक्ष्यमाणः । आमूलसिक्तः पयसा घृतेन न निंबवृक्षो मधुरत्वमेति ॥ 06 ॥
अंतर्गतमलो दुष्टस्तीर्थस्नानशतैरपि । न शुध्यति यथा भांडं सुराया दाहितं च सत् ॥ 07 ॥
न वेत्ति यो यस्य गुणप्रकर्षं स तं सदा निंदति नात्र चित्रम् । यथा किराती करिकुंभलब्धां मुक्तां परित्यज्य बिभर्ति गुंजाम् ॥ 08 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ये तु संवत्सरं पूर्णं नित्यं मौनेन भुंजते । युगकोटिसहस्रं तैः स्वर्गलोके महीयते ॥ 09 ॥
कामक्रोधौ तथा लोभं स्वादुशऋंगारकौतुके । अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥ 10 ॥
अकृष्टफलमूलेन वनवासरतः सदा । कुरुतेऽहरहः श्राद्धमृषिर्विप्रः स उच्यते ॥ 11 ॥
एकाहारेण संतुष्टः षट्कर्मनिरतः सदा । ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥ 12 ॥
लौकिके कर्मणि रतः पशूनां परिपालकः । वाणिज्यकृषिकर्मा यः स विप्रो वैश्य उच्यते ॥ 13 ॥
लाक्षादितैलनीलीनां कौसुंभमधुसर्पिषाम् । विक्रेता मद्यमांसानां स विप्रः शूद्र उच्यते ॥ 14 ॥
परकार्यविहंता च दांभिकः स्वार्थसाधकः । छली द्वेषी मृदुः क्रूरो विप्रो मार्जार उच्यते ॥ 15 ॥
वापीकूपतडागानामारामसुरवेश्मनाम् । उच्छेदने निराशंकः स विप्रो म्लेच्छ उच्यते ॥ 16 ॥
देवद्रव्यं गुरुद्रव्यं परदाराभिमर्शनम् । निर्वाहः सर्वभूतेषु विप्रश्चांडाल उच्यते ॥ 17 ॥
देयं भोज्यधनं धनं सुकृतिभिर्नो संचयस्तस्य वै श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता । अस्माकं मधुदानभोगरहितं नाथं चिरात्संचितं निर्वाणादिति नैजपादयुगलं धर्षंत्यहो मक्षिकाः ॥ 18 ॥
Browse Related Categories: