Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अष्टावक्र उवाच
विहाय वैरिणं काममर्थं चानर्थसंकुलम् । धर्ममप्येतयोर्हेतुं सर्वत्रानादरं कुरु ॥ 10-1
स्वप्नेंद्रजालवत् पश्य दिनानि त्रीणि पंच वा । मित्रक्षेत्रधनागारदारदायादिसंपदः ॥ 10-2॥
यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै । प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव ॥ 10-3॥
तृष्णामात्रात्मको बंधस्तन्नाशो मोक्ष उच्यते । भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः ॥ 10-4॥
त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा । अविद्यापि न किंचित्सा का बुभुत्सा तथापि ते ॥ 10-5॥
राज्यं सुताः कलत्राणि शरीराणि सुखानि च । संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि ॥ 10-6॥
अलमर्थेन कामेन सुकृतेनापि कर्मणा । एभ्यः संसारकांतारे न विश्रांतमभून् मनः ॥ 10-7॥
कृतं न कति जन्मानि कायेन मनसा गिरा । दुःखमायासदं कर्म तदद्याप्युपरम्यताम् ॥ 10-8॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts