Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अष्टावक्र उवाच
तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा । तृप्तः स्वच्छेंद्रियो नित्यमेकाकी रमते तु यः ॥ 17-1
न कदाचिज्जगत्यस्मिन् तत्त्वज्ञो हंत खिद्यति । यत एकेन तेनेदं पूर्णं ब्रह्मांडमंडलम् ॥ 17-2॥
न जातु विषयाः केऽपि स्वारामं हर्षयंत्यमी । सल्लकीपल्लवप्रीतमिवेभं निंबपल्लवाः ॥ 17-3॥
यस्तु भोगेषु भुक्तेषु न भवत्यधिवासितः । अभुक्तेषु निराकांक्षी तादृशो भवदुर्लभः ॥ 17-4॥
बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते । भोगमोक्षनिराकांक्षी विरलो हि महाशयः ॥ 17-5॥
धर्मार्थकाममोक्षेषु जीविते मरणे तथा । कस्याप्युदारचित्तस्य हेयोपादेयता न हि ॥ 17-6॥
वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ । यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम् ॥ 17-7॥
कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती । पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नास्ते यथा सुखम् ॥ 17-8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
शून्या दृष्टिर्वृथा चेष्टा विकलानींद्रियाणि च । न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे ॥ 17-9॥
न जागर्ति न निद्राति नोन्मीलति न मीलति । अहो परदशा क्वापि वर्तते मुक्तचेतसः ॥ 17-10॥
सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः । समस्तवासना मुक्तो मुक्तः सर्वत्र राजते ॥ 17-11॥
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृह्णन् वदन् व्रजन् । ईहितानीहितैर्मुक्तो मुक्त एव महाशयः ॥ 17-12॥
न निंदति न च स्तौति न हृष्यति न कुप्यति । न ददाति न गृह्णाति मुक्तः सर्वत्र नीरसः ॥ 17-13॥
सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितम् । अविह्वलमनाः स्वस्थो मुक्त एव महाशयः ॥ 17-14॥
सुखे दुःखे नरे नार्यां संपत्सु च विपत्सु च । विशेषो नैव धीरस्य सर्वत्र समदर्शिनः ॥ 17-15॥
न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता । नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे ॥ 17-16॥
न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः । असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते ॥ 17-17॥
समाधानासमाधानहिताहितविकल्पनाः । शून्यचित्तो न जानाति कैवल्यमिव संस्थितः ॥ 17-18॥
निर्ममो निरहंकारो न किंचिदिति निश्चितः । अंतर्गलितसर्वाशः कुर्वन्नपि करोति न ॥ 17-19॥
मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः । दशां कामपि संप्राप्तो भवेद् गलितमानसः ॥ 17-20॥
Browse Related Categories: