Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
जनक उवाच
कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः । अथ चिंतासहस्तस्माद् एवमेवाहमास्थितः ॥ 12-1
प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः । विक्षेपैकाग्रहृदय एवमेवाहमास्थितः ॥ 12-2॥
समाध्यासादिविक्षिप्तौ व्यवहारः समाधये । एवं विलोक्य नियममेवमेवाहमास्थितः ॥ 12-3॥
हेयोपादेयविरहाद् एवं हर्षविषादयोः । अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः ॥ 12-4॥
आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनम् । विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः ॥ 12-5॥
कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा । बुध्वा सम्यगिदं तत्त्वमेवमेवाहमास्थितः ॥ 12-6॥
अचिंत्यं चिंत्यमानोऽपि चिंतारूपं भजत्यसौ । त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः ॥ 12-7॥
एवमेव कृतं येन स कृतार्थो भवेदसौ । एवमेव स्वभावो यः स कृतार्थो भवेदसौ ॥ 12-8॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts