Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
जनक उवाच
तत्त्वविज्ञानसंदंशमादाय हृदयोदरात् । नानाविधपरामर्शशल्योद्धारः कृतो मया ॥ 19-1
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता । क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे ॥ 19-2॥
क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा । क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे ॥ 19-3॥
क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं यथा । क्व चिंता क्व च वाचिंता स्वमहिम्नि स्थितस्य मे ॥ 19-4॥
क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा । क्व तुरीयं भयं वापि स्वमहिम्नि स्थितस्य मे ॥ 19-5॥
क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यंतरं क्व वा । क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे ॥ 19-6॥
क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकम् । क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे ॥ 19-7॥
अलं त्रिवर्गकथया योगस्य कथयाप्यलम् । अलं विज्ञानकथया विश्रांतस्य ममात्मनि ॥ 19-8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
Browse Related Categories: