Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
जनक उवाच
अहो निरंजनः शांतो बोधोऽहं प्रकृतेः परः । एतावंतमहं कालं मोहेनैव विडंबितः ॥ 2-1
यथा प्रकाशयाम्येको देहमेनं तथा जगत् । अतो मम जगत्सर्वमथवा न च किंचन ॥ 2-2॥
स शरीरमहो विश्वं परित्यज्य मयाधुना । कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते ॥ 2-3॥
यथा न तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः । आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम् ॥ 2-4॥
तंतुमात्रो भवेद् एव पटो यद्वद् विचारितः । आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम् ॥ 2-5॥
यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा । तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरंतरम् ॥ 2-6॥
आत्माज्ञानाज्जगद्भाति आत्मज्ञानान्न भासते । रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि ॥ 2-7॥
प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः । यदा प्रकाशते विश्वं तदाहं भास एव हि ॥ 2-8॥
अहो विकल्पितं विश्वमज्ञानान्मयि भासते । रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ॥ 2-9॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति । मृदि कुंभो जले वीचिः कनके कटकं यथा ॥ 2-10॥
अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे । ब्रह्मादिस्तंबपर्यंतं जगन्नाशोऽपि तिष्ठतः ॥ 2-11॥
अहो अहं नमो मह्यमेकोऽहं देहवानपि । क्वचिन्न गंता नागंता व्याप्य विश्वमवस्थितः ॥ 2-12॥
अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः । असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ॥ 2-13॥
अहो अहं नमो मह्यं यस्य मे नास्ति किंचन । अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम् ॥ 2-14॥
ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् । अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरंजनः ॥ 2-15॥
द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजम् । दृश्यमेतन् मृषा सर्वमेकोऽहं चिद्रसोमलः ॥ 2-16॥
बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया । एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम ॥ 2-17॥
न मे बंधोऽस्ति मोक्षो वा भ्रांतिः शांता निराश्रया । अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ॥ 2-18॥
सशरीरमिदं विश्वं न किंचिदिति निश्चितम् । शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना ॥ 2-19॥
शरीरं स्वर्गनरकौ बंधमोक्षौ भयं तथा । कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः ॥ 2-20॥
अहो जनसमूहेऽपि न द्वैतं पश्यतो मम । अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् ॥ 2-21॥
नाहं देहो न मे देहो जीवो नाहमहं हि चित् । अयमेव हि मे बंध आसीद्या जीविते स्पृहा ॥ 2-22॥
अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितम् । मय्यनंतमहांभोधौ चित्तवाते समुद्यते ॥ 2-23॥
मय्यनंतमहांभोधौ चित्तवाते प्रशाम्यति । अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः ॥ 2-24॥
मय्यनंतमहांभोधावाश्चर्यं जीववीचयः । उद्यंति घ्नंति खेलंति प्रविशंति स्वभावतः ॥ 2-25॥
Browse Related Categories: