Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अष्टावक्र उवाच
यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः । तस्मै सुखैकरूपाय नमः शांताय तेजसे ॥ 18-1
अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् । न हि सर्वपरित्यागमंतरेण सुखी भवेत् ॥ 18-2॥
कर्तव्यदुःखमार्तंडज्वालादग्धांतरात्मनः । कुतः प्रशमपीयूषधारासारमृते सुखम् ॥ 18-3॥
भवोऽयं भावनामात्रो न किंचित् परमार्थतः । नास्त्यभावः स्वभावानां भावाभावविभाविनाम् ॥ 18-4॥
न दूरं न च संकोचाल्लब्धमेवात्मनः पदम् । निर्विकल्पं निरायासं निर्विकारं निरंजनम् ॥ 18-5॥
व्यामोहमात्रविरतौ स्वरूपादानमात्रतः । वीतशोका विराजंते निरावरणदृष्टयः ॥ 18-6॥
समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः । इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् ॥ 18-7॥
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ । निष्कामः किं विजानाति किं ब्रूते च करोति किम् ॥ 18-8॥
अयं सोऽहमयं नाहमिति क्षीणा विकल्पना । सर्वमात्मेति निश्चित्य तूष्णींभूतस्य योगिनः ॥ 18-9॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता । न सुखं न च वा दुःखमुपशांतस्य योगिनः ॥ 18-10॥
स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने । निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः ॥ 18-11॥
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता । इदं कृतमिदं नेति द्वंद्वैर्मुक्तस्य योगिनः ॥ 18-12॥
कृत्यं किमपि नैवास्ति न कापि हृदि रंजना । यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः ॥ 18-13॥
क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता । सर्वसंकल्पसीमायां विश्रांतस्य महात्मनः ॥ 18-14॥
येन विश्वमिदं दृष्टं स नास्तीति करोतु वै । निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ॥ 18-15॥
येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिंतयेत् । किं चिंतयति निश्चिंतो द्वितीयं यो न पश्यति ॥ 18-16॥
दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ । उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् ॥ 18-17॥
धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत् । न समाधिं न विक्षेपं न लोपं स्वस्य पश्यति ॥ 18-18॥
भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः । नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता ॥ 18-19॥
प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः । यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठतः सुखम् ॥ 18-20॥
निर्वासनो निरालंबः स्वच्छंदो मुक्तबंधनः । क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ॥ 18-21॥
असंसारस्य तु क्वापि न हर्षो न विषादता । स शीतलमना नित्यं विदेह इव राजये ॥ 18-22॥
कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् । आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ॥ 18-23॥
प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया । प्राकृतस्येव धीरस्य न मानो नावमानता ॥ 18-24॥
कृतं देहेन कर्मेदं न मया शुद्धरूपिणा । इति चिंतानुरोधी यः कुर्वन्नपि करोति न ॥ 18-25॥
अतद्वादीव कुरुते न भवेदपि बालिशः । जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते ॥ 18-26॥
नानाविचारसुश्रांतो धीरो विश्रांतिमागतः । न कल्पते न जानाति न शृणोति न पश्यति ॥ 18-27॥
असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः । निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ॥ 18-28॥
यस्यांतः स्यादहंकारो न करोति करोति सः । निरहंकारधीरेण न किंचिदकृतं कृतम् ॥ 18-29॥
नोद्विग्नं न च संतुष्टमकर्तृ स्पंदवर्जितम् । निराशं गतसंदेहं चित्तं मुक्तस्य राजते ॥ 18-30॥
निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते । निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते ॥ 18-31॥
तत्त्वं यथार्थमाकर्ण्य मंदः प्राप्नोति मूढताम् । अथवा याति संकोचममूढः कोऽपि मूढवत् ॥ 18-32॥
एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशम् । धीराः कृत्यं न पश्यंति सुप्तवत्स्वपदे स्थिताः ॥ 18-33॥
अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिम् । तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ॥ 18-34॥
शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयम् । आत्मानं तं न जानंति तत्राभ्यासपरा जनाः ॥ 18-35॥
नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा । धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ॥ 18-36॥
मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति । अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ॥ 18-37॥
निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः । एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ॥ 18-38॥
न शांतिं लभते मूढो यतः शमितुमिच्छति । धीरस्तत्त्वं विनिश्चित्य सर्वदा शांतमानसः ॥ 18-39॥
क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते । धीरास्तं तं न पश्यंति पश्यंत्यात्मानमव्ययम् ॥ 18-40॥
क्व निरोधो विमूढस्य यो निर्बंधं करोति वै । स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः ॥ 18-41॥
भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः । उभयाभावकः कश्चिद् एवमेव निराकुलः ॥ 18-42॥
शुद्धमद्वयमात्मानं भावयंति कुबुद्धयः । न तु जानंति संमोहाद्यावज्जीवमनिर्वृताः ॥ 18-43॥
मुमुक्षोर्बुद्धिरालंबमंतरेण न विद्यते । निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा ॥ 18-44॥
विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः । विशंति झटिति क्रोडं निरोधैकाग्रसिद्धये ॥ 18-45॥
निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदंतिनः । पलायंते न शक्तास्ते सेवंते कृतचाटवः ॥ 18-46॥
न मुक्तिकारिकां धत्ते निःशंको युक्तमानसः । पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम् ॥ 18-47॥
वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः । नैवाचारमनाचारमौदास्यं वा प्रपश्यति ॥ 18-48॥
यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः । शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥ 18-49॥
स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परम् । स्वातंत्र्यान्निर्वृतिं गच्छेत्स्वातंत्र्यात् परमं पदम् ॥ 18-50॥
अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा । तदा क्षीणा भवंत्येव समस्ताश्चित्तवृत्तयः ॥ 18-51॥
उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते । न तु सस्पृहचित्तस्य शांतिर्मूढस्य कृत्रिमा ॥ 18-52॥
विलसंति महाभोगैर्विशंति गिरिगह्वरान् । निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ॥ 18-53॥
श्रोत्रियं देवतां तीर्थमंगनां भूपतिं प्रियम् । दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना ॥ 18-54॥
भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः । विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ॥ 18-55॥
संतुष्टोऽपि न संतुष्टः खिन्नोऽपि न च खिद्यते । तस्याश्चर्यदशां तां तां तादृशा एव जानते ॥ 18-56॥
कर्तव्यतैव संसारो न तां पश्यंति सूरयः । शून्याकारा निराकारा निर्विकारा निरामयाः ॥ 18-57॥
अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः । कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ॥ 18-58॥
सुखमास्ते सुखं शेते सुखमायाति याति च । सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शांतधीः ॥ 18-59॥
स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः । महाह्रद इवाक्षोभ्यो गतक्लेशः सुशोभते ॥ 18-60॥
निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते । प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ॥ 18-61॥
परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते । देहे विगलिताशस्य क्व रागः क्व विरागता ॥ 18-62॥
भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा । भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ॥ 18-63॥
सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः । न लेपस्तस्य शुद्धस्य क्रियमाणेऽपि कर्मणि ॥ 18-64॥
स एव धन्य आत्मज्ञः सर्वभावेषु यः समः । पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः ॥ 18-65॥
क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम् । आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ॥ 18-66॥
स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः । अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ॥ 18-67॥
बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः । भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः ॥ 18-68॥
महदादि जगद्द्वैतं नाममात्रविजृंभितम् । विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ॥ 18-69॥
भ्रमभूतमिदं सर्वं किंचिन्नास्तीति निश्चयी । अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ॥ 18-70॥
शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः । क्व विधिः क्व च वैराग्यं क्व त्यागः क्व शमोऽपि वा ॥ 18-71॥
स्फुरतोऽनंतरूपेण प्रकृतिं च न पश्यतः । क्व बंधः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ॥ 18-72॥
बुद्धिपर्यंतसंसारे मायामात्रं विवर्तते । निर्ममो निरहंकारो निष्कामः शोभते बुधः ॥ 18-73॥
अक्षयं गतसंतापमात्मानं पश्यतो मुनेः । क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा ॥ 18-74॥
निरोधादीनि कर्माणि जहाति जडधीर्यदि । मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात् ॥ 18-75॥
मंदः श्रुत्वापि तद्वस्तु न जहाति विमूढताम् । निर्विकल्पो बहिर्यत्नादंतर्विषयलालसः ॥ 18-76॥
ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत् । नाप्नोत्यवसरं कर्तुं वक्तुमेव न किंचन ॥ 18-77॥
क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन । निर्विकारस्य धीरस्य निरातंकस्य सर्वदा ॥ 18-78॥
क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा । अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ॥ 18-79॥
न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि । बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन ॥ 18-80॥
नैव प्रार्थयते लाभं नालाभेनानुशोचति । धीरस्य शीतलं चित्तममृतेनैव पूरितम् ॥ 18-81॥
न शांतं स्तौति निष्कामो न दुष्टमपि निंदति । समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति ॥ 18-82॥
धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति । हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ॥ 18-83॥
निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च । निश्चिंतः स्वशरीरेऽपि निराशः शोभते बुधः ॥ 18-84॥
तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः । स्वच्छंदं चरतो देशान् यत्रस्तमितशायिनः ॥ 18-85॥
पततूदेतु वा देहो नास्य चिंता महात्मनः । स्वभावभूमिविश्रांतिविस्मृताशेषसंसृतेः ॥ 18-86॥
अकिंचनः कामचारो निर्द्वंद्वश्छिन्नसंशयः । असक्तः सर्वभावेषु केवलो रमते बुधः ॥ 18-87॥
निर्ममः शोभते धीरः समलोष्टाश्मकांचनः । सुभिन्नहृदयग्रंथिर्विनिर्धूतरजस्तमः ॥ 18-88॥
सर्वत्रानवधानस्य न किंचिद् वासना हृदि । मुक्तात्मनो वितृप्तस्य तुलना केन जायते ॥ 18-89॥
जानन्नपि न जानाति पश्यन्नपि न पश्यति । ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते ॥ 18-90॥
भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते । भावेषु गलिता यस्य शोभनाशोभना मतिः ॥ 18-91॥
क्व स्वाच्छंद्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः । निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ॥ 18-92॥
आत्मविश्रांतितृप्तेन निराशेन गतार्तिना । अंतर्यदनुभूयेत तत् कथं कस्य कथ्यते ॥ 18-93॥
सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च । जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ॥ 18-94॥
ज्ञः सचिंतोऽपि निश्चिंतः सेंद्रियोऽपि निरिंद्रियः । सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहंकृतिः ॥ 18-95॥
न सुखी न च वा दुःखी न विरक्तो न संगवान् । न मुमुक्षुर्न वा मुक्ता न किंचिन्न च किंचन ॥ 18-96॥
विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् । जाड्येऽपि न जडो धन्यः पांडित्येऽपि न पंडितः ॥ 18-97॥
मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः । समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम् ॥ 18-98॥
न प्रीयते वंद्यमानो निंद्यमानो न कुप्यति । नैवोद्विजति मरणे जीवने नाभिनंदति ॥ 18-99॥
न धावति जनाकीर्णं नारण्यमुपशांतधीः । यथातथा यत्रतत्र सम एवावतिष्ठते ॥ 18-100॥
Browse Related Categories: