Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
जनक उवाच
अकिंचनभवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभम् । त्यागादाने विहायास्मादहमासे यथासुखम् ॥ 13-1
कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खिद्यते । मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम् ॥ 13-2॥
कृतं किमपि नैव स्याद् इति संचिंत्य तत्त्वतः । यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम् ॥ 13-3॥
कर्मनैष्कर्म्यनिर्बंधभावा देहस्थयोगिनः । संयोगायोगविरहादहमासे यथासुखम् ॥ 13-4॥
अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा । तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम् ॥ 13-5॥
स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा । नाशोल्लासौ विहायास्मादहमासे यथासुखम् ॥ 13-6॥
सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः । शुभाशुभे विहायास्मादहमासे यथासुखम् ॥ 13-7॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts