Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अष्टावक्र उवाच
भावाभावविकारश्च स्वभावादिति निश्चयी । निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ॥ 11-1
ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी । अंतर्गलितसर्वाशः शांतः क्वापि न सज्जते ॥ 11-2॥
आपदः संपदः काले दैवादेवेति निश्चयी । तृप्तः स्वस्थेंद्रियो नित्यं न वांछति न शोचति ॥ 11-3॥
सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी । साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते ॥ 11-4॥
चिंतया जायते दुःखं नान्यथेहेति निश्चयी । तया हीनः सुखी शांतः सर्वत्र गलितस्पृहः ॥ 11-5॥
नाहं देहो न मे देहो बोधोऽहमिति निश्चयी । कैवल्यमिव संप्राप्तो न स्मरत्यकृतं कृतम् ॥ 11-6॥
आब्रह्मस्तंबपर्यंतमहमेवेति निश्चयी । निर्विकल्पः शुचिः शांतः प्राप्ताप्राप्तविनिर्वृतः ॥ 11-7॥
नानाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी । निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ॥ 11-8॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts