Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अष्टावक्र उवाच
तदा बंधो यदा चित्तं किंचिद् वांछति शोचति । किंचिन् मुंचति गृह्णाति किंचिद्धृष्यति कुप्यति ॥ 8-1
तदा मुक्तिर्यदा चित्तं न वांछति न शोचति । न मुंचति न गृह्णाति न हृष्यति न कुप्यति ॥ 8-2॥
तदा बंधो यदा चित्तं सक्तं कास्वपि दृष्टिषु । तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु ॥ 8-3॥
यदा नाहं तदा मोक्षो यदाहं बंधनं तदा । मत्वेति हेलया किंचिन्मा गृहाण विमुंच मा ॥ 8-4॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts