Ashtakams · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
हरिवरासनं विश्वमोहनम् हरिदधीश्वरं आराध्यपादुकम् । अरिविमर्दनं नित्यनर्तनम् हरिहरात्मजं देवमाश्रये ॥ 1 ॥
शरणकीर्तनं भक्तमानसम् भरणलोलुपं नर्तनालसम् । अरुणभासुरं भूतनायकम् हरिहरात्मजं देवमाश्रये ॥ 2 ॥
प्रणयसत्यकं प्राणनायकम् प्रणतकल्पकं सुप्रभांचितम् । प्रणवमंदिरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥ 3 ॥
तुरगवाहनं सुंदराननम् वरगदायुधं वेदवर्णितम् । गुरुकृपाकरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥ 4 ॥
त्रिभुवनार्चितं देवतात्मकम् त्रिनयनप्रभुं दिव्यदेशिकम् । त्रिदशपूजितं चिंतितप्रदम् हरिहरात्मजं देवमाश्रये ॥ 5 ॥
भवभयापहं भावुकावकम् भुवनमोहनं भूतिभूषणम् । धवलवाहनं दिव्यवारणम् हरिहरात्मजं देवमाश्रये ॥ 6 ॥
कलमृदुस्मितं सुंदराननम् कलभकोमलं गात्रमोहनम् । कलभकेसरीवाजिवाहनम् हरिहरात्मजं देवमाश्रये ॥ 7 ॥
श्रितजनप्रियं चिंतितप्रदम् श्रुतिविभूषणं साधुजीवनम् । श्रुतिमनोहरं गीतलालसम् हरिहरात्मजं देवमाश्रये ॥ 8 ॥
शरणं अय्यप्पा स्वामि शरणं अय्यप्पा । शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ॥
Offered for worship and study, not as prediction. Non-commercial.
Browse Related Categories: